भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 199, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 199

वेकारयकारयोर्लोपः स्याद्वलि ॥ पुंवद्भावः । युवतिर्जाया यस्य युवजानिः । गन्धस्ये- दुत्पूतिसुसुरभिभ्यः ।५।४।१३५ ॥ एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् ॥ उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् * ॥ एकान्त एक- देश इव अविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः ॥ नेह- शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥ अल्पाख्यायाम् ।५।४।१३६ ॥ सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोरिति विश्वः ॥ उपमानाच्च ५।४।१३७ ॥ पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥ पादस्य लोपोऽहस्त्यादिभ्यः ^A ।५।४।१३८ ॥ हस्त्यादिवर्जितादुपमानात्परस्य पादश- ब्दस्य लोपः स्याद्बहुव्रीहौ ॥ स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् ॥ अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुसूलपादः ॥ ^Bकुम्भपदीषु च ५।४।१३९ ॥ कुम्भ- पदादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् ॥ कुम्भपदी ॥ स्त्रियां किम् ? कुम्भपादः ॥ संख्यासुपूर्वस्य ।५।४।१४० ॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ ॥ द्विपात् । सुपात् ॥ वयसि दन्तस्य दतृ ।५।४।१४१ ॥ संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि ॥ द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोर्डन् । सुदन् । सुदती ॥ वयसि किम् ? द्विदन्तः करी । सुदन्तः ॥ स्त्रियां संज्ञायाम् । ५।४। १४३ ॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ ॥ अयोदती । फालदती ॥ संज्ञायां किम् ? सम- दन्ती ॥ विभाषा श्यावारोकाभ्याम् ।५।४।१४४ ॥ दन्तस्य दतृ वा बहुव्रीहौ ॥ श्याव- दन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।५।४।


A हस्तिन्, कुद्दाल, अश्व, कशिक, कुह्रत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल । इति हस्त्यादिः ॥ B कुम्भपदी, एकपदी, जालपदी, मुनिपदी, शूलपदी, गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, चिपदी, द्विपदी, त्रिपदी, षट्पदी, दासीपदी, तृणपदी, शितपदी, विष्णुपदी, सुपदी, निष्पदी, आर्द्रपदी, कुणिपदी, कृष्णपदी, शुचि- पदी, द्रोणीपदी, द्रुपदी, सूकरपदी, शकृत्पदी, अष्टापदी, स्थूणापदी, आपदी, सूचीपदी । इति कुम्भपद्यादिः ॥


१ यद्यपि भाष्ये 'अनारम्भो वा पुनर्बलोपस्य न्याय्यः' इत्युक्त्वा 'कथमस्रेमाणं जीरदानु- रिति' इति शङ्कायाः 'अस्रेमाणं जीरदानुरिति छान्दसाद्वर्णलोपात् सिद्धम्' इति समा- धानेन वकारप्रत्याख्यानमेव लभ्यते तथापि 'व्यङ्ग्लोपवचनं च' इत्यत्र वकारग्रहणादपि सूत्रकृता वकार उपात्त एवेति यथान्याससूत्रानुसारेणैव व्याचष्टे-वकारयकारयोरिति ॥ २ पूर्वोत्तरयोर्डित्त्वसामर्थ्येना- देशांत्वनिश्चयेऽस्येकारस्य प्रत्ययत्वे 'यस्येति च' इत्यकारलोपेनेष्टसिद्धावपि लोपविधाने गौरवापत्त्या प्रक्रम- भङ्गापत्त्या चास्यादेशत्वमेवाङ्गीकृतं लाघवात् । तदा 'आदेः परस्य' इति तु न प्रवर्तते 'समासान्ताः' इत्यधि- कारैकवाक्यत्वात् ॥ ३ बहुव्रीह्यर्थान्यपदार्थे इत्यादिः ॥ ४ 'गन्धस्तु सौरभे नृत्ये गन्धकेऽगर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इति कोशाद्बहुवचनान्तो गन्धशब्दः ॥ ५ लोपस्याभावरूपत्वेन कथमवयवतेत्यत आह-स्थानिद्वारेणेति ॥ स्थानिगतमवयवत्वं लोपे आरोप्यते इति भावः ॥ ६ 'षष उत्वं दतृदशसुत्तरपदादेः ष्टुत्वं च' इति उत्वष्टुत्वे ॥