वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 200, कुल 835 में से
संदर्भ में पढ़ेंबहुव्रीहिसमासप्रकरणम् । ( १४९ ) १४५ ॥ एभ्यो दन्तस्य दत् वा ॥ कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥ ककुदस्या- वस्थायां लोपः ।५।४।१४६ ॥ अजातककुत् । पूर्णककुत् ॥ त्रिककुत्पर्वते ।५।४। १४७ ॥ त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञाया पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥ उद्दिभ्यां काकुदस्य ।५।४।१४८ ॥ लोपः स्यात् ॥ उत्काकुत् । विकाकुत् । काकुदं तालु ॥ पूर्णाद्विभाषा । ५ । ४ । १४९ ॥ पूर्णकाकुत् । पूर्णकाकुदः ॥ सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।१५० ॥ सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते ॥ सुहृन्मित्रम् । दुर्हृद- मित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥ उरः^Aप्रभृतिभ्यः कप् ।५।४।१५१॥ व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विव- चनबहुवचनान्तेभ्यस्तु ‘शेषाद्विभाषेति विकल्पेन कप्-द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः*॥ अनर्थकम् ॥ नञः किम् ? अपार्थम् । अपार्थकम् ॥ इनः स्त्रियाम् ।५।४।१५२ ॥ बहुदण्डिका नगरी ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ बहुवाग्ग्मिका ॥ स्त्रियां किम् ? बहुदण्डी बहुदण्डिको ग्रामः ॥ शेषाद्विभाषा ।५।४।१५४॥ अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् ॥ महायशस्कः । महायशाः ॥ अनु- क्तेत्यादि किम् ? व्याघ्रपात् । सुगन्धिः । प्रियपथः ॥ शेषाधिकारस्थात्किम् ? उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥ आपोऽन्यतरस्याम् ।७।४।१५ ॥ कप्याबन्तस्य ह्रस्वो वा स्यात् ॥ बहुमालाकः । बहुमालकः । कबभावे बहुमालः ॥ न संज्ञायाम् ।५।४।१५५ ॥ शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् ॥ विश्वे देवा अस्य विश्व- देवः ॥ ईयसश्च ।५।४।१५६ ॥ ईय्सन्तोत्तरपदान्न कप् ॥ बहवः श्रेयांसोऽस्य बहुश्रेयान् ॥ गोस्त्रियोरिति ह्रस्वे प्राप्ते-॥ ईयसो बहुव्रीहेर्नेति वाच्यम् * ॥ बह्वयः श्रेयस्योऽस्य बहुश्रे- यसी ॥ बहुव्रीहेः किम् ? अतिश्रेयसिः ॥ वन्दिते भ्रातुः ।५।४।१५७ ॥ ^३पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप् स्यात् ॥ प्रशस्तो भ्राता यस्य प्रशस्तभ्राता । 'न पूजनादिति निषे- धस्तु ‘बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवेति वक्ष्यते ॥ वन्दिते किम् ? मूर्खभ्रातृकः ॥ नाडी- तन्त्र्योः स्वाङ्गे ।५।४।१५९ ॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहु- नाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीधमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न ॥ स्वाङ्गे किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ।५।४।१६० ॥ कबभावोऽत्र निपात्यते ॥ प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवान् । नव इत्यर्थः ॥ सप्तमीविशेषणे बहुव्रीहौ ।२।२।३५ ॥ सप्तम्यन्तं विशेषणं A उरस्, सर्पिस्, उपानह्, पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः, दधि, मधु,शालि,अर्थान्नञः। इत्युरःप्रभृतयः॥ १ ‘संख्याव्यया-’ इत्यादि सूत्रेषु भाष्ये ‘कबभावार्थम्’ इति वार्तिकेन ध्वनितोऽयमर्थ इति बोध्यम् ॥ २ सकृदुच्चरितशब्देनार्थद्वयबोधनस्यैव तन्त्रत्वमिति भावः ३ पूजितेऽर्थे इति । ‘वर्तमानात्परः’ इति शेषः ॥ ४ ‘न पूजनात्’ इत्यनेनैव निषेधे सिद्धे व्यर्थमिदमितिशङ्कामपनुदति-न पूजनादितीति ॥