भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 196, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 196

व्रीह्यवयवस्य सहस्य सः स्याद्वा ॥ पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः ॥ तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥ प्रकृत्याशिषि ।६।३।८३ ॥ सहशब्दः प्रकृत्या स्यादा- शिषि ॥ स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् * ॥ सगवे । सवत्साय । सहलाय ॥ बहुव्रीहौ संख्येये डजबहुगणात् ।५।४।७३ ॥ संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् ॥ उपदशाः ॥ अबहुगणात्किम् ? उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः * ॥ निर्गतानि त्रिंशतो निर्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतत्रिंशतोऽङ्गुलिभ्यो निर्त्रिंशः खड्गः ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गा- त्षच् ।५।४।११३ ॥ व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् ॥ दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी ॥ स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादित्यच् ॥ अङ्गुलेर्दारुणि ।५।४।११४ ॥ अङ्गुल्यन्ता- द्वहुव्रीहेः षच् स्याद्दारुण्यर्थे ॥ पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशा- वयवं धान्यादिविक्षेपणकाष्ठमुच्यते ॥ बहुव्रीहेः किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेरित्थच् ॥ दारुणि किम् ? पञ्चाङ्गुलिर्हस्तः ॥ द्वित्रिभ्यां ष मूर्ध्नः ।५।४।११५ ॥ आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ ॥ द्विमूर्धः । त्रिमूर्धः । नेतुर्नक्षत्रेऽब्वक्तव्यः * ॥ मृगो नेता यासां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥ अन्तर्बहिर्भ्यां च लोम्नः ।५।४।११७ ॥ आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ ॥ अन्त- र्लोमः । बहिर्लोमः ॥ अच् नासिकायाः संज्ञायां नसं चास्थूलात् ।५।४।११८ ॥ नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति नतु स्थूलपूर्वात् ॥ पूर्व- पदात्संज्ञायामगः ।८।४।३ ॥ पूर्वपदस्थान्निमित्तात्परस्य नँस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने ॥ द्रुरिव नासिकाऽस्य द्रुणसः ॥ अगः किम् ? ऋचामयनं ऋगयनम् । १ 'सह सादृश्यसंबन्धयौगपद्यसमृद्धिषु । साकल्ये विद्यमाने च' इति कोशोक्तेष्वर्थेषु यौगपद्य एव बहुव्रीहि- विधानाद् एककाल एकक्रियान्वयित्वमेव यौगपद्यं तुल्ययोगपर्यायं सकर्मक इत्यादौ न संभवति धातुकर्मणोरे- कक्रियान्वयित्वाभावादत आह-तुल्ययोगेति । प्रायिकमिति । तेन क्वचिद्विद्यमानार्थकस्यापि समासो भवत्येवेत्युदाहरति-सकर्मक इति । विद्यमानकर्मक इत्यर्थः ॥ विद्यमानार्थकसहशब्देन सामानाधिकरणेन 'अनेकमन्यपदार्थे' इति समासेन प्रायिकत्वकथनं चिन्त्यप्रयोजनम् ॥ 'वोपसर्जनस्य' इत्यत्र प्रतिपदोक्तपरिभाषा तु नैव प्रवर्तते 'सपूर्वस्य' 'सपूर्वायाः' इत्यादिनिर्देशात् ॥ २ स्वरे विशेष इति ॥ डचि सति 'चितः इत्यन्तोदात्तत्वं स्यात्, असति पूर्वपदप्रकृतिस्वरो भवतीति भावः ॥ ३ पञ्चम्यर्थे सप्तमी । नक्षत्रशब्दस्य तद्विशेषपरत्वं व्याख्यानात् । पञ्चम्या 'तस्मादित्युत्तरस्य' इति 'उत्तरपदोपस्थितौ' 'नक्षत्रविशेषवाचकादनन्तरो- त्तरो यो नेतृशब्दः तदन्ताद् बहुव्रीहेरप् स्यात् इत्यर्थः ॥ ४ 'तस्मादित्युत्तरस्य' इति परिभाषया उत्तर- पदोपस्थानेन 'स्थूलभिन्नादनन्तरोत्तरो यो नासिकाशब्दस्तदन्तात्' इत्यर्थफलितमाह-नतु स्थूलपूर्वादिति ॥ ५ यत् प्रति पूर्वपदम् तत्तस्य नेत्य चेत् तर्हि संज्ञायामेव' इति नियमेन तद्धितनकारस्य 'खारपायणः' इत्यत्र णत्वं भवत्येव ॥ ६ संज्ञायामिति । णत्वेन चेत् संज्ञा रूढ्यर्थो गम्यत इत्यर्थः । 'संज्ञाशब्दा अनादिप्रयु- क्तनियतानुपूर्वाका एव सिद्धाः तत्रेदानं कस्तद्विपरीतं प्रयोक्तुमर्हति' इत्यभियुक्ताः ॥ रघुनाथादिशब्देषु तु संज्ञाभङ्गभयादेव न णत्वम् ॥ १०