वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 209, कुल 835 में से
संदर्भ में पढ़ेंऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्—निपातनाट्टिलोपः । पदष्ठीवम्—निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च 'नक्तन्दिवम्' । रात्रौ च दिवा च 'रात्रिन्दिवम्' रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च 'अहर्दिवम्' वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः ॥ सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् ॥ निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह—निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् ॥ ततो द्विगुः । द्व्यायुषम् । त्र्यायु- षम् ॥ ततो द्वन्द्वः । ऋग्यजुषम् ॥ ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः ॥ शुनः समीपम् उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते ॥ गोष्ठे¹ श्वा गोष्ठश्वः ॥ ब्रह्महस्तिभ्यां वर्चसः ।५।४।७८ ॥ अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पत्य- राजभ्यां चेति वक्तव्यम् * ॥ पत्यवर्चसम् । राजवर्चसम् ॥ अवसमन्धेभ्यस्तमसः ।५।४।७९ ॥ अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥ श्वसोवसीयइश्रेयसः ।५।४।८० ॥ वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वस्- शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् ॥ अन्ववतप्ताद्रहसः ।५।४।८१ ॥ अनुरहसम् । अवरहसम् । तप्तर- हसम् ॥ प्रतेरुरसः सप्तमीस्थात् ।५।४।८२ ॥ उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययी- भावः ॥ अनुगवमायामे ।५।४।८३ ॥ एतन्निपात्यते दीर्घत्वे ॥ अनुगवं यानम् । 'यस्य चायामः' इति समासः ॥ द्विसतावा त्रिसतावा वेदिः ।५।४।८४ ॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते ॥ यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपात- नम् ॥ वेदिरिति किम् ? द्विसतावती त्रिसतावती रज्जुः ॥ उपसर्गादध्वनः ।५।४।८५ ॥ प्रगतोऽध्वानं प्राध्वो रथः ॥ न पूजनात् ।५।४।६९ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः ॥ सुराजा । अतिराजा ॥ स्वतिभ्यामेवै³* ॥ नेह—परमराजः ॥ पूजनात्किम् ? गाम- तिक्लान्तो ऽतिगवः ॥ ⁴बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवायं निषेधः । नेह—सुसक्थः । स्वक्षः ॥ किमः क्षेपे ।५।४।७० ॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः ॥ कुत्सितो राजा किराजा । किंसखा । किंगौः ॥ क्षेपे किम् ? किंराजः । किंसखः । किंगवः ॥ नञस्त- त्पुरुषात् ।५।४।७१ ॥ समासान्तो न ॥ अराजा । असखा ॥ तत्पुरुषात्किम् ? अधुरं शक- टम् ॥ पथो विभाषा ।५।४।७२ ॥ नञ्पूर्वात्पथो वा समासान्तः ॥ अपथम् । अपन्थाः ॥ तत्पुरुषादित्येव—अपथो देशः । ⁵अपथं वर्तते ॥ इति समासान्तप्रकरणम् । १ 'ततोऽव्ययीभावः' इति भाष्यं निगमयति—शुनः समीपमिति ॥ २ 'ततः सप्तमीसमासः' इति भाष्यं निगमयति—गोष्ठे श्वेति ॥ ३ 'पूजायां स्वतिग्रहणम्' इति वार्तिकफलितमाह—स्वतिभ्यामिति ॥ ४ 'प्राग्बहुव्रीहिग्रहणं च' इति वार्तिकार्थमाह—बहुव्रीहाविति ॥ ५ अपथं वनमित्यत्र शेषः ॥ यद्वा अत्यये ध्वंसे नञोऽव्ययीभावः ॥