वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 269, कुल 835 में से
संदर्भ में पढ़ें।५।१।६२ ॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ब्राह्मणानि ॥ तदर्हति ।५।१।६३ ॥ लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः ॥ श्वेतच्छत्रम- र्हति श्वेतच्छत्रिकः ॥ ᴬछेदादिभ्यो नित्यम् ।५।१।६४ ॥ नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छेदिको वेतसः । छिन्नप्ररूढत्वात् ॥ विराग विरङ्गं च * ॥ विरागं नित्यम- र्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ।५।१।६५ ॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः । शीर्षच्छेदिकः । यट्ठकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ ᴮदण्डादिभ्यो यत् ।५।१।६६ ॥ एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः वध्यः ॥ पात्राद् घंश्च ।५।१।६८ ॥ चाद्यत् तदर्हतीत्यर्थे ॥ पात्रीयः । पात्र्यः ॥ कडङ्करदक्षिणाच्छ च।५।१ ।६९ ॥ चाद्यत् ॥ कडं करोतीति विग्रहे अत एव निपातनात् खच् । कडङ्करं माषमुद्गा- दिकाष्ठमर्हतीति कडङ्करीयो गौः । कडङ्कर्यः । दक्षिणामर्हतीति दक्षिणीयः । दक्षिण्यः ॥ स्थालीबिलात् ।५।१।७० ॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः । स्थाली- बिल्याः । पाकयोग्या इत्यर्थः ॥ यज्ञर्त्विग्भ्यां घखञौ ।५।१।७१ ॥ यथासंख्यं स्तः ॥ यज्ञमृत्विजं वाऽर्हति यज्ञियः । आर्त्विजीनो यजमानः ॥ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसं- ख्यानम् * ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां प्रकरणम् । अथ ठञधिकारे कालाधिकारप्रकरणम् । अतः परं ठञेव ॥ पारायणतुरायणचान्द्रायणं वर्तयति ।५।१।७२ ॥ पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः तं वर्तयति तौरायणिको यजमानः । चान्द्रायणिकः ॥ संशयमापन्नः ।५।१।७३ ॥ संशयविषयीभूतोऽर्थः सांशयिकः ॥ योजनं गच्छति ।५।१।७४ ॥ यौजनिकः । क्रोशशतयोजनशतयोरुपसंख्यानम् * ॥ क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् * ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥ पथः ष्कन् ।५।१।७५ ॥ षो ङीबर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ पन्थो ण नित्यम् ।५।२।७६ ॥ पन्थानं नित्यं गच्छति पान्थः । पान्था ॥ उत्तरपथेनाहृतं च ।५।१।७७ ॥ उत्तरपथेनाहृतम् औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ A छेद, भेद, द्रोह, दोह, नर्त, कर्ष, तीर्थ, संयोग, विप्रयोग, प्रयोग, विप्रकर्ष, प्रेषण, संप्रश्र, विप्रश्र, विकर्ष, प्रकर्ष, ‘विराग विरङ्गं च’ । इति छेदादिः ॥ B दण्ड, मुसल, मधुपर्क, कशा, अर्ध, मेघ, मेधा, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ, भङ्ग । इति दण्डादिः ॥ १ अत्र य इति त्वपपाठः ॥ २ संशयशब्दस्तद्विषयत्वे लाक्षणिकः । एवं च स्थाणुर्वा पुरुषो वेति संश- यविषयीभूते स्थाण्वादावेवायं प्रयोगः ॥