वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 268, कुल 835 में से
संदर्भ में पढ़ेंअर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥ भागाद्यच्च । ५ । १ । ४९ ॥ चाहन् ॥ भाग- शब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन् दीयते भाग्यं भागिकं शतम् । भाग्या भागिका विंशतिः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः^A । ५।१। ५० ॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्तादि- त्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्य इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥ वसनद्रव्याभ्यां ठन्कनौ । ५।१।५१ ॥ यथासंख्यं स्तः । वसनं हरति वहत्यावहति वा वसनिकः । द्रव्यकः ॥ संभवत्यवहरति पचति । ५।१।५२ ॥ प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थ- मवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादण् च * ॥ चाड्ठञ् । द्रोणं पचतीति द्रौणी । द्रौणिकी ॥ आढकाचितपात्रात्खोऽन्यतरस्याम् । ५।१।५३ ॥ पक्षे ठञ् आढकं संभवति अवहरति पचति वा आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीणा । पात्रिकी ॥ द्विगोः ष्ठंश्च । ५।१।५४ ॥ आढकाचितपात्रादित्येव । आढकाद्य- न्ताद्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः ॥ पक्षे ठञ् तस्य 'अध्यर्धेति' लुक् । षित्त्वान्ङीष् । द्वयाढकिकी । द्वयाढकीना । 'द्विगोरिति ङीप् । द्वयाढकी । द्वयाचितिकी । द्वयाचितीना । ‘अपरिमाणेति ङीप्प्रतिषेधात्-द्वयाचिता ॥ द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥ कुलिजाल्लु- क्खौ च । ५।१।५५ ॥ कुलिजान्ताद्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः चात् ष्ठंश्च ॥ लुगभावे ठञः श्रवणम् । द्विकुलिजी । द्वैकुलिजिकी । द्विकुलिजीना । द्विकुलि- जिकी ॥ सोऽस्यांशवसनभृतयः । ५।१।५६ ॥ अंशो भागः । वसनं मूल्यम् । भृति- र्वेतनम् । पञ्च अंशो वसनो भृतिर्वास्य पञ्चकः ॥ तदस्य परिमाणम् । ५।१।५७ ॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु । ५।१। ५८ ॥ पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः । यद्वा 'द्व्येकयोरितिवत्संख्या- मात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे-पञ्चकः । सूत्रे-अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपा- त्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः * ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ट्यादिसंज्ञिका स्तुतिः स्तोमः ॥ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । ५।१।५९ ॥ एते रूढिशब्दा निपात्यन्ते ॥ पञ्चदशतौ वर्गे वा । ५।१।६० ॥ पञ्च परिमाणमस्य पञ्च- द्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्
^A वंश, कुटज, बल्वज, स्थूण, स्थूणा, अक्ष, अश्व, अश्मन्, श्लक्ष्ण, मूल, इक्षु, खङ्ग । इति वंशादिः ॥ १४-२