वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 267, कुल 835 में से
संदर्भ में पढ़ेंशोणाद्वा । ५ । १ । ३५ ॥ यत्स्यात्पक्षे ठञ् तस्य लुक् ॥ अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥ द्वित्रिपूर्वादण् च । ५।१।३६ ॥ शाणादित्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणा- न्तस्यासंज्ञाशाणयोरिति पर्युदासादाद्विवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्विशाणम् ॥ इह टन्नादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाश्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥ तेन क्रीतम् । ५ । १।३७ ॥ ठञ् ॥ गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थि- कम् । टक् नैष्किकम् ॥ इद्गोण्याः । १ । २ । ५० ॥ गोण्या इत्स्यात्तद्धितलुकि । लुको- ऽपवादः ॥ पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥ तस्य निमित्तं संयोगोत्पातौ । । ५।१।३८ ॥ संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपति- संयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ वातपित्तश्लेष्म- भ्यः शमनकोपनयोरुपसंख्यानम् * ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् * ॥ सान्निपातिकम् ॥ गोद्व्यचोऽसंख्यापरि- माणाᴬश्वादेर्यत् । ५ । १।३० ॥ गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्वयचः,-धन्यः । यशस्यः । स्वर्ग्यः ॥ गोद्व्यचः किम् ? विजयस्य वैजयिकः ॥ असंख्येत्यादि किम् ? पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् ॥ अश्वादि-आश्विकम् । आश्मिकम् ॥ ब्रह्म- वर्चसादुपसंख्यानम् * ॥ ब्रह्मवर्चस्यम् ॥ पुत्राच्छ च । ५ । १।४० ॥ चाद्यत् ॥ पुत्रीयः । पुत्र्यः ॥ सर्वभूमिपृथिवीभ्यामणञौ । ५ । १ । ४१ ॥ सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते ॥ पार्थिवः । तस्येश्वरः । ५।१।४२ ॥ तत्र विदित इति च । ५।१।४३ ॥ सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥ लोकसर्वलोकाट्ठञ् । ५ । १ । ४४ ॥ तत्र विदित इत्यर्थे ॥ लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः-सार्वलौकिकः ॥ तस्य वापः । ५ । १ । ४५ ॥ उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात् छन् । ५।१।४६ ॥ पात्रस्य वापः क्षेत्रं पात्रिकम् । पात्रिकी क्षेत्रभक्तिः ॥ तद- स्मिन्वृद्धयायलाभशुल्कोपदा दीयते । ५ । १ । ४७ ॥ वृद्धिर्दीयते इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्क उपदा वा दीयते पञ्चकः । शतिकः । शत्यः । साहस्रः ॥ उत्तर्मणेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकं ग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थे उपसंख्यानम् * ॥ पञ्चास्मै वृद्धयादिर्दीयते पञ्चको देवदत्तः । ⁴ 'सममब्राह्मणे दानम्' इतिवदधिकरणत्वविवक्षा वा ॥ पूरणार्द्धाट्ठन् । ५।१।४८ ॥ यथाक्रमं ठक्ठिठ्नोरपवादः । द्वितीयो वृद्धयादिरस्मिन् दीयते द्वितीयिकः । तृतीयिकः ।
A अश्व, अश्मन्, गण, ऊर्णा, उमा, क्षण, वर्षा, वसु, ( गङ्गा) इत्यादिः ॥ १ शतशाणाभ्यां वा ॥ * ॥ अध्यर्धशतम् अध्यर्धशत्यम् । पञ्चशतम् पञ्चशत्यम् ॥ २ पञ्चशाणम् पञ्चशाण्यम् ॥ ३ इदं वार्तिकं सूत्रपाठे कैश्चित्प्रक्षिप्तम् ॥ ४ 'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे ॥' इति ॥