भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 441, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 441

करणे ॥ १।३।२५ ॥ १आग्नेय्याऽऽग्नीध्रमुपतिष्ठते ॥ मन्त्रकरणे किम् । भर्तारमुपति- ष्ठति यौवनेन ॥ २उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् * ॥ ३आदित्यमु- पतिष्ठते । कथं तर्हि '४स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ? ५देवतात्वारोपात् । ६नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोती- त्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ ७वा लिप्सायामिति वक्तव्यम् * ॥ भिक्षुकः प्रभुमुपतिष्ठते उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥ ८अकर्मकाच्च ॥ १।३।२६ ॥ उपा- त्तिष्ठतेरकर्मकादात्मनेपदं स्यात् ॥ भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥ उद्विभ्यां तपः ॥ १।३।२७ ॥ अकर्मकाद