वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 575, कुल 835 में से
संदर्भ में पढ़ेंगोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥ पारावतस्योपोत्तमवर्जम् ॥ शेषं क्रमेणोदात्तम् । पारावतः ॥ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूज्ल- स्थानम् ॥ एषां चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि ॥ धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥ कपिकेशहरीकेशयोश्छन्दसि ॥ कपिकेशः । हरिकेशः ॥ न्यङ्क्वौ स्वरितौ ॥ स्पष्टम् ॥ न्यङ्ङुत्तानः ॥ व्यचक्षयत्स्वः ॥ न्यर्बुद- व्यल्कशयोरादिः ॥ स्वरितः स्यात् ॥ तिल्यशिक्यकाइमर्यधान्यकन्याराज- न्यमनुष्याणामन्तः ॥ स्वरितः स्यात् ॥ तिलानां भवनं क्षेत्रं तिल्यम् । यतो नाव इति प्राप्ते ॥ बिल्वभक्ष्यवीर्याणि छन्दसि ॥ अन्तस्वरितानि ॥ ननो विल्व उदतिष्ठत् ॥ त्वत्त्वसमसिमेत्यनुच्चानि ॥ स्तरीरुत्वत् । उत त्वः