भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 699, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 699

उदात्ता उदात्तेतः परस्मैभाषाः ॥ ९५ शमु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे । ९८ श्रमु तपसि खेदे च । ९९ भ्रमु अनवस्थाने । १०० क्षमू सहने । १०१ क्लमु ग्लानौ । १०२ मदी हर्षे ॥ वृत्त् ॥ १०३ असु क्षेपणे । १०४ यसु प्रयत्ने । १०५ जसु मोक्षणे । १०६ तसु उपक्षये । १०७ दसु च । १०८ वसु स्तम्भे । १०९ व्युष विभागे । व्युस इत्यन्ये । युस इत्यपरे ॥ ११० प्लुष दाहे । १११ विस प्रेरणे । ११२ कुस संश्लेषणे । ११३ बुस उत्सर्गे । ११४ मुस खंडने । ११५ मसी परिणामे ॥ समी इत्येके ॥ ११६ लुठ विलोडने । ११७ उच समवाये ११८ भृशु ११९ भ्रंशु अधःपतने । १२० वृश वरणे । १२१ कृश तनूकरणे । १२२ ञितृषा पिपासायाम् । १२३ दृप तृप्तौ । १२४ रुष १२५ रिष हिंसायाम् । १२६ दिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप व्याकुलत्वे । १२९ युपु १३० रुपु १३१ लुपु विमोहने । १३२ लुभ गार्ध्ये । १३३ क्षुभ संचलने । १३४ णभ १३५ तुम हिंसायाम् ॥ क्षुभिनभितुभयो जुतादौ क्र्यादौ च पठ्यन्ते ॥ १३६ क्लिदू आर्दीभावे । १३७ ञिमिदा स्नेहने । १३८ ञिष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत्त् ॥ असुप्रभृतय उदात्ता उदात्तेतः पर- स्मैभाषाः ॥ इति श्यन्विकरणा दिवादयः ॥ ४ ॥ १ पूञ् अभिषवे । २ षिञ् बन्धने । ३ शिञ् निशाने । ४ डुमिञ् प्रक्षेपणे । ५ चिञ् चयने ६ स्तुञ् आच्छादने । ७ कृञ् हिंसायाम् । ८ वृञ् वरणे । ९ धुञ् कम्पने ॥ धूञ् इत्येके ॥ स्वादयोऽनुदात्ता उभयतोभाषाः । वृञ् उदात्तः ॥ १० दुद्रु उपतापे । ११ हि गतौ वृद्धौ च । १२ पृ प्रीतौ । १३ स्तृ प्रीतिपालनयोः ॥ प्रीतिचलनयोः इत्यन्ये । स्मृ इत्येके ॥ १४ आप्लृ व्याप्तौ । १५ शक्लृ शक्तौ । १६ राध १७ साध संसिद्धौ ॥ दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ १८ अशू व्याप्तौ संघाते च । १९ ष्वि आस्कन्दने ॥ अशिश्वित्वी उदात्तावनुदात्तेतावात्मनेभाषौ ॥ २० तिक २१ तिग गतौ च । २२ षव हिंसायाम् । २३ जिधृषा प्रागल्भ्ये । २४ दम्भु दम्भने । २५ ऋधु वृद्धौ । २६ तृप प्रीणने इत्येके । छन्दसि । २७ अह व्याप्तौ । २८ दघ घातने पालने च । २९ चमु भक्षणे । ३० रि ३१ खि ३२ चिरि ३३ जिरि ३४ दाश ३५ ऋ हिंसायाम् ॥ ऋक्षं भाषायाम् इत्येके । ऋक्षैत्यजादिरेके । रेफवानित्यन्ये । वृत्त् । तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति श्नुविकरणाः स्वादयः ॥ ५ ॥ १ तुद व्यथने । २ णुद प्रेरणे । ३ दिश अतिसर्जने । ४ भ्रस्ज पाके । ५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तेत्परस्मैपदी ॥ ८ जुषी प्रीतिसेवनयोः । ९ ओविजी भयचलनयोः । १०