भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 698, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 698

उदात्तेतः परस्मैभाषाः ॥२४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषः । घृप्रभृतय एकादश- च्छन्दसि । इयर्तिर्भाषायामपि ॥ इति श्लुविकरणा जुहोत्यादयः ॥ १ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । २ षिवु तन्तुसंताने । ३ ष्विवु गतिशोषगयोः । ४ ष्ठिवु निरसने । ५ ष्णुसु अदने ॥ अदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ॥ ष्णसु निरसने । ७ क्नसु हरणदीप्त्योः । ८ व्युष दाहे । ९ प्लुष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे । १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुथ परिवेष्टने । १५ क्षिप प्रेरणे । १६ पुष्प विकसने । १७ तिम १८ स्तिम १९ ष्टीम आर्द्रीभावे । २० व्रीड चोदने लज्जायां च । २१ इष गतौ । २२ षह २३ षुह चक्यर्थे । २४ जॄष् २५ झॄष् वयोहानौ ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । क्षिपिस्त्व- नुदात्तः ॥ २६ षूङ् प्राणिप्रसवे । २७ डूङ् परितापे ॥ उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये । २९ डीङ् विहायसा गतौ । ३० धीङ् आधारे । ३१ मीङ् हिंसायाम् । ३२ रीङ् श्रवणे । ३३ लीङ् श्लेषणे । ३४ व्रीङ् वृणोत्यर्थे ॥ वृत्त् । स्वादद्य ओदितः ॥३५ पीङ् पाने । ३६ माङ् माने । ३७ ईङ् गतौ । ३८ प्रीङ् प्रीतौ ॥ डीङादय आत्मनेपदिनोऽनुदात्ताः डीङ् तूदात्तः ॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि । ४२ दो अवखण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ४३ जनी प्रादुर्भावे । ४४ दीपी दीप्तौ ॥ ४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसा- गत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः । ५१ शूरी हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा । ५४ वृतु वरणे । ५५ क्लिश उपतापे । ५६ काशृ दीप्तौ । ५७ वाशृ शब्दे ॥ जन्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः । तपिस्त्वनुदात्तः ॥ ५८ तृप तितिक्षायाम् । ५९ शुचि पूतीभावे । उदात्तौ स्वरितेतावुभयतोभाषौ ॥ ६० णह बन्धने । ६१ रञ्ज रागे । ६२शप आक्रोशे ॥ णहादयस्त्रयोऽनुदात्ताः स्वरितेत उभय- तोभाषाः ॥ ६३ पद गतौ । ६४ खिद दैन्ये । ६५ विद सत्तायाम् । ६६ बुध अवग- मने । ६७ युध संप्रहारे । ६८ अनो रुध कामे । ६९ अण प्रागने ॥ अन इत्येके ॥ ७० मन ज्ञाने । ७१ युज समाधौ । ७२ सृज विसर्गे । ७३ लिश अल्पीभावे । पदादयोऽनुदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ७४ राधोऽकर्मकाद्वृद्धावेव । ७५ व्यध ताडने । ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुप प्रीतौ । ७९ दुष वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शक विभाषितो मर्षेणे । ८२ ष्विदा गात्रप्रक्षरणे । ८३ क्रुध क्रोधे । ८४ क्षुध बुभुक्षायाम् । ८५ शुध शौचे । ८६ षिधु संराद्धौ । राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७ रध हिंसासंराध्योः । ८८ णश अदर्शने । ८९ तृप प्रीणने । ९० दृप हर्षमोहनयोः । ९१ द्रुह जिघांसायाम् । ९२ मुह वैचित्त्ये । ९३ष्णुह उद्गिरणे ९४ष्णिह प्रीतौ ॥ वृत्त । रधादय