वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 700, कुल 835 में से
संदर्भ में पढ़ें(९२) धातुपाठे- ओलजी ११ ओलस्जी क्रीडने ॥ जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १२ ओव्रश्चू छेदने । १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उछी विवासे । १६ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिछ उत्क्लेशे । १८ जर्ज १९ चर्च २० झर्झ परि- भाषणभर्त्सनयोः । २१ त्वच संवरणे । २२ ऋच स्तुतौ । २३ उब्ज आर्जवे । २४ उज्झ उत्सर्गे । २५ लुभ विमोहने । २६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३१ तुफ ३२ तुम्फ हिंसायाम् । ३३ दृप ३४ दृम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके ॥ ३५ ऋफ ३६ ऋम्फ हिंसायाम् । ३७ गुफ ३८ गुम्फ ग्रन्थे । ३९ उभ ४० उम्भ पूरणे । ४१ शुभ ४२ शुम्भ शोभार्थे । ४३ दृभी ग्रन्थे । ४४ चृती हिंसाग्रन्थनयोः । ४५ विथ विधाने । ४६ जुड गतौ ॥ जुन इत्येके ॥ ४७ मृड सुखने । ४८ वृड च । ४९ पृण प्रीणने । ५० वृण च । ५१ मृण हिंसायाम् । ५२ तृण कौटिल्ये । ५३ पुण कर्मणि शुभे । ५४ मुण प्रतिज्ञाने । ५५ कुण शब्दोपकरणयोः । ५६ शुन गतौ । ५७ दृण हिंसागतिकौटिल्येषु । ५८ घृण ५९ घूर्ण भ्रमणे । ६० धुर ऐश्वर्यदीप्त्योः । ६१ कुर शब्दे । ६२ खुर छेदने । ६३ मुर संवेष्टने । ६४ क्षुर विलेखने । ६५ घुर भीमार्थशब्दयोः । ६६ पुर अग्रगमने । ६७ वृहू उद्यमने ॥ बृंह इत्यन्ये ६८ तृहू ६९ स्तृहू ७० तूंहू हिंसायार्थाः । ७१ इष इच्छायाम् । ७२ मिष स्पर्धायाम् । ७३ किल श्वैत्यक्रीडनयोः । ७४ तिल स्नेहे । ७५ चिल वसने । ७६ चल विल्सने । ७७ इल स्वप्नक्षेपकणयोः । ७८ विल संवरणे । ७९ बिल भेदने । ८० णिल गहने । ८१ हिल भावकरणे । ८२ शिल ८३ षिल उञ्छे । ८४ मिल श्लेषणे । ८५ लिख अक्षरविन्यासे ८६ कुट कौटिल्ये । ८७ पुट संश्लेषणे ८८ कुच संकोचने । ८९ गुज शब्दे । ९० गुड रक्षायाम् । ९१ डिप क्षेपे । ९२ छुर छेदने । ९३ स्फुट विकसने । ९४ मुट आक्षेपमर्दनयोः । ९५ त्रुट छेदने । ९६ तुट कलहकर्मणि । ९७ चुट ९८ छुट छेदने । ९९ जुट बन्धने । १०० कुड मदे । १०१ लुट संश्लेषणे । १०२ कुड घनत्वे । १०३ कुड बाल्ये । १०४ पुड उत्सर्गे । १०५ घुट प्रतिघाते । १०६ तुड तोडने । १०७ थुड १०८ स्थुड संवरणे ॥ खुड छुड इत्येके ॥ १०९ स्फुर ११० फुल संचलने ॥ स्फुर स्फुरणे । स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ १११ स्कुड ११२ चुड ११३ व्रुड संवरणे ॥ ११४ कुड मृड निमज्जने इत्येके ॥ व्रश्चादय उदात्ता उदा- त्तेतः परस्मैभाषाः ॥ ११५ गुरी उद्यमने । उदात्तोऽनुदात्तेदात्मनेपदी ॥ ११६ णू स्तवने । ११७ धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ धु गतिस्थैर्ययोः ॥ ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे । उदात्त आत्मनेपदी ॥ दीर्घान्त इति कैयटादयः । ह्रस्वान्त इति न्यासः ॥ वृतृ ॥ १२१ पृङ् व्यायामे । १२२ मृङ् प्राणत्यागे ॥ अनुदात्तावात्मनेभाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे । १२६ क्षि निवासगत्योः ॥ रियत्ट्यादयोऽनुदात्ताः परस्मै-