भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 137, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 137
१२८श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४१-४२श्लो०७३-१०१-५]
(भुवनविन्यासः)

तत्र नागपतिश्चण्डश्चण्डो नाम दुरासदः। शतशीर्षो महाभागो विष्णुचक्राङ्कचिह्नितः ॥ ७३ इत्येवमष्टौ विज्ञेया विचित्रा देवपर्वताः ॥ पुरैरायतनैः पुण्यैः पुण्योदैश्च सरोबरैः। सुवर्णपर्वतैरनेकस्तथा रजतपर्वतैः ॥ ७४ नानारत्नप्रभासैश्च नैकैश्च मणिपर्वतैः। हरिदालपर्वतैरनैकैस्तथा हिङ्‌गुलकाध्वनैः ॥ ७५ शुद्धैर्मनःशिलाजालैर्भास्वरैरुणप्रभैः। नानाधातुविचित्रैश्च नैकैश्च मणिपर्वतैः ॥ ७६ पूर्णा वसुमती सर्वा गिरिभिर्नैकविस्तरैः। नदीकन्दरशैलाढ्यैरनेकचित्रसानुभिः ॥ ७७ (*तेषु शैलसहस्रेषु नानावर्णेषु नित्यशः। दैत्यदानवगन्धर्वयक्षाणां च महालयैः।) ७८ इत्येवमचलैर्युक्तैर्दैत्यराक्षससाधुभिः। किंनरौरगगन्धर्वैर्विचित्रैः सिद्धचारणैः ॥ ७९ गन्धर्वैरप्सरोभिश्च सेविता नैकविस्तराः। पुण्यकृद्भिः समाकीर्णाः केसराकृतयो नगाः ॥ ८० गिरिजालं तु तन्मेरोः सिद्धलोकमिति स्मृतम्। चित्रं नानाश्रयोपेतं प्रचारं सुकृतात्मनाम् ॥ ८१ नात्युग्रकर्मसिद्धानां मतिमा मध्यमाः स्मृताः। स हि स्वर्ग इति ख्यातः क्रमस्तेष्वेष प्रकीर्तितः ॥ ८२ चतुर्महाद्वीपवती सेयमूर्वी प्रकीर्तिता। नानावर्णप्रमाणैर्हि नानावर्णबलैस्तथा ॥ ८३ नानाभक्ष्यान्नपानैश्च नानाच्छादनभूषणैः। प्रजाविकारैर्विविधैश्चित्रैरध्युषितैः सह ॥ ८४ चत्वारो नैकवर्णाढ्या महाद्वीपाः परिश्रुताः। भद्राश्व भरताश्चैव केतुमालाश्च पश्चिमाः ॥ उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ८५ सैषा चतुर्महाद्वीपा नानाद्वीपसमाकुला। पृथिवी कीर्तिता कृत्स्ना पद्माकारा मया द्विजाः ॥ ८६ तदेषा सान्तरद्वीपा सशैलवनकानना। पद्मेत्यभिहिता कृत्स्ना पृथिवी बहुविस्तरा ॥ ८७ सब्रह्मसदनं लोकं सदेवासुरमानुषम्। त्रिलोकमिति विख्यातं यत्सत्तैर्व्यवहार्यते ॥ ८८ चन्द्रादित्यावतप्तं यत्तज्जगत्परिगीयते। गन्धवर्णरसोपेतं शब्दस्पर्शगुणान्वितम् ॥ ८९ तं लोकपद्मं श्रुतिभिः पद्ममित्यभिधीयते। एष सर्वपुराणेषु क्रमः सुपरिनिश्चितः ॥ ९० इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे भुवनविन्यासो नाम चत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समष्ट्यङ्काः–३१०४

अथ द्विचत्वारिंशोऽध्यायः।

भुवनविन्यासः।

सूत उवाच– सरोवरेभ्यः पुण्योदा देवनद्यो विनिर्गताः। महौघतोया नद्यश्च ताः शृणुध्वं यथाक्रमम् ॥ १ आकाशाम्भोनिधेर्योऽसौ सोम इत्यभिधीयते। आधारः सर्वभूतानां देवानाममृताकरः ॥ २ तस्मात्प्रवृत्ता पुण्योदा नदी ह्याकाशगामिनी। समेनानिलपथा प्रयाता विमलोदका ॥ ३ सा ज्योतिषि निवर्तन्ती ज्योतिर्गणनिषेविता। ताराकोटिसहस्राणां नभसश्च समायता ॥ ४ माहेन्द्रेण गजेन्द्रेण आकाशपथयायिना। क्रीडिता ह्यन्तरतले या सा विक्षोभितोदका ॥ ५


*धनुश्चिह्नान्तर्गतग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।