वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 138, कुल 465 में से
संदर्भ में पढ़ें[अ०४२ श्लो० ६-३५] वायुपुराणम् १२९ (: भुवनविन्यासः ) नैकैर्विमानसङ्घातैः प्रकामद्भिर्नभस्तलम् । सिद्धैरुपस्पृष्टजला महापुण्यजला शिवा ॥ ६ वायुना प्रेर्यमाणा च अनेकाभोगगामिनी । परिवर्तत्यहरहो य(हर्य)था सूर्यस्तथैव सा ॥ ७ चत्वार्यशीतिपतता योजनानां समन्ततः । वेगेन कुर्वती मेरुं सा प्रयाता प्रदक्षिणम् ॥ ८ विभिद्यमाना सलिलैस्तैजसेनानिलेन च । मेरोरुत्तरकूटेषु पतिताऽथ चतुर्ष्वपि ॥ ९ मेरुकूटतटान्तेभ्य उत्कृष्टेभ्यो निवर्तिता । विकीर्यमाणसलिला चतुर्धा संस्रुतोदका ॥ १० षष्टियोजनसाहस्रं निरालम्बनमम्बरम् । निपपात महाभागा [* मेरोस्तस्य चतुर्दिशम् ॥ ११ सा चतुर्ध्वभितश्चैव महापादेषु शोभना । पुण्या मन्दरपूर्वेण पतिता हि महानदी ॥ १२ पूर्वेणांशेन देवानां सर्वसिद्धगणालयम् । सुवर्णचित्रकटकं नैकनिर्झरकन्दरम् ॥ १३ प्लावयन्ती शैलेन्द्रं मन्दरं चारुकन्दरम् । वप्रप्रतापशमनैरनेकः स्फाटिकोदकैः ॥ १४ तथा चैत्ररथं रम्यं प्लावयन्ती प्रदक्षिणम् । प्रविष्टा ह्यम्बरनदी ह्यरुणोदसरोवरम् ॥ १५ अरुणोदान्निवृत्ताऽथ शीतान्ते रम्यनिर्झरे । शैले सिद्धगणावासो निपपात सुगामिनी ॥ १६ सीता नाम महापुण्या नदीनां प्रवरा नदी । सा निकुञ्जनिरुद्धा तु अनेकाभोगगामिनी ॥ १७ शीतान्ताशिखराद्भ्रष्टा मुकुञ्जे पर्रपर्वते । निपपात महाभागा तस्मादपि सुमञ्झसम् ॥ १८ तस्मान्माल्यवतं शैलं भावयन्ती परापगा । वैकङ्कं समनुप्राप्ता वैकङ्कान्मणिपर्वतम् ॥ मणिपर्वतान्महाशैलमृषभं नैककन्दरम् ॥ १९ एवं शैलसहस्राणि दारयन्ती महानदी । पतिताऽथ महाशैले जठरे सिद्धसेविते ॥ २० तस्मादपि महाशैलं देवकूटं तरङ्गिणी । तस्य कुक्षिसमुद्रान्ता क्रमेण पृथिवीं गता ॥ २१ सैवं स्थलीसहस्राणि शैलराजशतानि च । वनानि च विचित्राणि सरांसि विविधानि च ॥ २२ स्रावयन्ती महाभागा ] विस्फारैष्ववलोकदा । नदीसहस्रानुगता प्रवृत्ता च महानदी ॥ २३ भद्रार्थं समहाद्वीपं प्लावयन्ती वरापगा । प्रविष्टा ह्यर्णवं पूर्वं पूर्वे द्वीपे महानदी ॥ २४ दक्षिणेऽपि प्रपन्ना या शैलेन्द्रे गन्धमादने । चित्रैः प्रपातैर्विविधैर्नैकविस्फालितोदका ॥ २५ तद्गन्धमादनवनं नन्दनं देवनन्दनम् । प्लावयन्ती महाभागा प्रयाता सा प्रदक्षिणम् ॥ २६ नाम्ना ह्यलकनन्देति सर्वलोकेषु विश्रुता । प्रविशत्युत्तरसरो मानसं देवमानसम् ॥ २७ मानसाच्छैलराजानं रम्यं त्रिशिखरं गता । त्रिकूटाच्छैलशिखरात्कालिङ्गशिखरं गता ॥ २८ कालिङ्गशिखराद्भ्रष्टा रुचके निपपात सा । रुचकान्निषधं प्राप्ता ताम्राभं निषधादपि ॥ २९ ताम्राभशिखराद्भ्रष्टा गता श्वेतोदरं गिरिम् । तस्मात्सुमूलं शैलेन्द्रं वसुधारं च पर्वतम् ॥ ३० हेमकूटं गता तस्माद्देवशृङ्गे ततो गता । तस्माद्गता महाशैलं ततश्चापि पिशाचकम् ॥ ३१ पिशाचकाच्छैलवरात्पञ्चकूटं गता पुनः । पञ्चकूटात्तु कैलासं देवावासं शिलोच्चयम् ॥ ३२ तस्य कुक्षिषु विश्रान्ता नैककन्दरसानुषु । [÷हिमवत्युत्तमनदी निपपाताचलोत्तमे ॥ ३३ सैवं शैलसहस्राणि दारयन्ती महानदी । ] स्थलीशतान्यनेकानि प्लावयन्त्याशुगामिनी ॥ ३४ वनानां च सहस्राणि कन्दराणां शतानि च । स्रावयन्ती महाभागा प्रयाता दक्षिणोदधिम् ॥ ३५
* धनुश्चिह्नान्तर्गतग्रन्थोः ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१७