भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 396, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 396

[अ०९९श्लो०४३०-४५७] वायुपुराणम् । ३८७

( तुर्वस्वादि वंशकथनम् )

दिव्यं वर्षसहस्रं तु तत्संध्यांशं प्रकीर्तितम् । निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥ ४३० ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ । इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ॥ ४३१ ऐलं क्षत्रं क्षेमकान्तं सोमवंशाविदो विदुः । एते विवस्वतः पुत्राः कीर्तिता कीर्तिवर्धनाः ॥ ४३२ अतीता वर्तमानाश्च तथैवानागताश्च ये । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ॥ ४३३ युगे युगे महात्मानः समतीताः सहस्रशः । बहुत्वान्नामधेयानां परिसंख्या कुले कुले ॥ ४३४ पुनरुक्तबहुत्वाच्च न मया परिकीर्तिताः । वैवस्वतेऽन्तरे ह्यस्मिन्निमिर्वंशः समाप्यते ॥ ४३५ एतस्यां तु युगारूढायां यतः क्षत्रं पप्स्यते । तथा हि कथयिष्यामि गदतो मे निबोधत ॥ ४३६ देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः । महायोगबलोपेतः कलापग्राममास्थितः ॥ ४३७ देवापिः पौरवो राजा इक्ष्वाकोस्तु भविष्यति । एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ॥ ४३८ न च विंशे युगे सोमवंशस्याऽऽदिर्भविष्यति । देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ॥ ४३९ क्षत्रप्रवर्तकौ ह्येतौ भविष्येते चतुर्युगे । एवं सर्वत्र विज्ञेयं संतानार्थे तु लक्षणम् ॥ ४४० क्षीणे कलियुगे तस्मिन्भविष्ये तु कृते युगे । सप्तर्षिभिस्तु तैः सार्धमाद्ये त्रेतायुगे पुनः ॥ ४४१ गोत्राणां क्षत्रियाणां च भविष्यते प्रवर्तकौ । द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ ४४२ काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः । बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ ४४३ एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै । सप्तर्षयो नृपैः सार्धं संतानार्थे युगे युगे ॥ ४४४ क्षत्रस्यैव समुच्छेदः संबन्धो वै द्विजैः स्मृतः । मन्वन्तराणां सप्तानां संतानाश्च सुताश्च ते ॥ ४४५ परम्परा युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ ४४६ सप्तर्षयो विदुस्तेषां दीर्घायुष्टाक्षयास्तु ते (?) । एतेन क्रमयोगेन ऐलेक्ष्वाकन्वया द्विजाः ॥ ४४७ उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः । अनुयान्ति युगारूढां तु यावन्मन्वन्तरक्षयः ॥ ४४८ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः ॥ द्विवंशकरणांश्चैव कीर्तयिष्ये निबोधत ॥ ४४९ ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्तते । राजानः श्रेणिबद्धास्तु तथाऽन्ये क्षत्रिया नृपाः ॥ ४५० ऐलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवा नृपाः । तेषामेकशतं पूर्णं कुलानामाभिषेकिणाम् ॥ ४५१ तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भजते त्रिंशकं क्षत्रं चतुर्था तद्यथादिशम् ॥ ४५२ तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत । शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ ४५३ धृत(धार्त)राष्ट्राश्चैकशतमशीतिर्जनमेजयाः । शतं च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ॥ ४५४ ततः शतं तु पौलानां श्वेतकाशाकुशादयः । ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ॥ ४५५ ईजिरे चाश्वमेधैस्ते सर्वे नियतदक्षिणैः । एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ॥ ४५६ मनोर्वैवस्वतस्यास्मिन्वर्तमानेऽन्तरे तु ये । तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥ ४५७