वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 70, कुल 465 में से
संदर्भ में पढ़ें[अ०२३श्लो०६८-९१] वायुपुराणम्। ६१
( माहेश्वरावतारयोगः )
यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः । स मत्कृतेन वर्णेन कल्पो वै लोहितः स्मृतः ॥ ६८
तदा लोहितमांसास्थिलोहितक्षीरसंनिभा । लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ॥ ६९
ततोऽस्य लोहित्वेन वर्णस्य च विपर्यये । वामत्वाच्चैव योगस्य वामदेवत्वमागतः ॥ ७०
तथापि हि महासत्त्व त्वयाऽहं नियतात्मना । विज्ञातः श्वेतवर्णेन तस्माद्वर्णोत्तमः स्मृतः ॥ ७१
ततोऽहं वामदेवेति ख्यातिं यातो महीतले ॥
ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः । विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ॥ ७२
सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ७३
यदा तु पुनरेवायं कृष्णवर्णो भयानकः । मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ॥ ७४
तत्राहं कालसंकाशः कालो लोकप्रकाशनः । विज्ञातोऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः ॥ ७५
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले । तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ॥ ७६
तस्माद्विश्वत्वमापन्नं ये मां पश्यन्ति भूतले । तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ॥ ७७
तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः । विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥ ७८
सर्वरूपास्तथा चे मे संवृत्ता मम पुत्रकाः । चत्वारस्ते समाख्याताः पादा वै लोकसंमताः ॥ ७९
तस्माच्च सर्ववर्णत्वं प्रजात्वं मे भविष्यति । सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ॥ ८०
मोक्षो धर्मस्तथाऽर्थश्च कामश्चेति चतुष्टयम् । तस्मादेता च वैद्यं च चतुर्धा वै भविष्यति ॥ ८१
भूतग्रामश्च चत्वार आश्रमाश्चस्तु(त्वा)रस्तथा । धर्मस्य पादाश्चत्वारश्चत्वारो मम पुत्रकाः ॥ ८२
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् । चतुर्धाऽवस्थितं चैव चतुष्पादं भविष्यति ॥ ८३
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा । जनस्तपश्च शान्तश्च रुद्रलोकस्ततः परम् ॥ ८४
(+अष्टाक्षरः स्मृतो लोकः स्थाने स्थाने तदक्षरम् । भुवं दिवं परं चैव पादाश्चत्वार एव च ॥ ८५
भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् ।) स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः ॥
तत्र लोकः परंस्थानं परं तद्योगिनां स्मृतम् ॥ ८६
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ॥ ८७
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती । तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः ॥
तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ॥ ८८
सोमश्च मन्त्रसंयुक्तो तस्मान्मम मुखाच्च्युतः । जीवः प्राणभृतां ब्रह्मन्सर्वः पीत्वा स्तनैर्धृतम् ॥ ८९
तस्मात्सोममयं चैतदमृतं चैव संज्ञितम् । चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ॥ ९०
यस्माच्चैवं क्रियां भूत्वा द्विपादा वै महेश्वरी । दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी ॥
तस्माद्वै द्विपदाः सर्वे द्विस्तनाश्च नराः स्मृताः ॥ ९१
+ धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकयोर्नास्ति ।