वायु पुराण
Vayu Purana
by महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा
Source: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (origin)
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
१८ श्रीमद्वैपायनमुनिप्रणीतम्– [ अ०१ श्लो०१०-३८ ] ( सृष्टिप्रकरणम् )
सलिलेनाऽऽप्लुतां भूमिं दृष्ट्वा स तु समन्ततः । किं नु रूपं महत्कृत्वा उद्धरेयमहं महीम् ॥ १०
जलक्रीडासु रुचिरं वाराहं रूपमस्मरत् । अवृष्यं सर्वभूतानां वाङ्मयं धर्मसंज्ञितम् ॥ ११
दशयोजनविस्तीर्णं शतयोजनमुच्छ्रितम् । नीलमेघप्रतीकाशं मेघस्तनितनिस्वनम् ॥ १२
महापर्वतवप्माणं श्वेतं तीक्ष्णायदंष्ट्रिणम् । विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् ॥ १३
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
रूपमास्थाय विपुलं वाराहममितं हरिः । पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १५
स वेदपाद्यूपदंष्ट्रः क्रतुवक्षास्थितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो(र्षा) महातपाः ॥ १६
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः । आज्यनाशः(सः) सुवतुण्डः सामघोषस्वनो महान् ॥ १७
सत्यधर्ममयः श्रीमान्धर्मविक्रमसंस्थितः । प्रायश्चित्तरथो घोरः पशुजानुर्महाकृतिः ॥ १८
उद्गात्रन्त्रो होमलिङ्गः स्थानबीजी महौषधिः । वेद्यन्तरात्मा मन्त्रस्फिगाज्यस्पृक्सोमशोणितः ॥ १९
वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ २०
दक्षिणाहृदयो योगी महासत्रमयो विभुः । उपाकर्मेष्ठिरुचिरः प्रवर्गीवित्तभूषणः । २१
नानाछन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ॥ २२
भूत्वा यज्ञवराहो वै अपः स प्राविशत्प्रभुः । ( *अद्भिः संछादितामुर्वी स तामभ्यन्प्रजापतिः ॥ २३
उपगम्योज्जहाराऽऽशु अपस्ताश्च स विन्यसन् । सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ ॥ २४
रसातलतले ) मग्नां रसातलतले गताम् । प्रभूर्लोकहितार्थाय दंष्ट्रयाऽभ्युज्जहार गाम् ॥ २५
ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः । मुमोच पूर्वं मनसा धारयित्वा धराधरः । २६
तस्योपरि जलौघस्य महती नौरिव स्थिता । चारित्वाच्च देहस्य न मही याति विप्लवम् ॥ २७
ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया । पृथिव्याः पविभागाय मनश्चक्रेऽम्बुजेक्षणः ॥ २८
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् । प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना ॥ २९
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः । शैत्यादेकार्णवे तस्मिन्वायुनाऽऽपस्तु संहताः ॥ ३०
निष्पिक्ता यत्र यत्राऽऽसंस्तत्र तत्राचलोऽभवत् । स्कन्नाचलत्वादचलः पर्वाभिः पर्वतः स्मृतः ॥ ३१
गिरयोऽन्तर्निगीर्णत्वाच्च्यनाच्च शिलोच्चयाः । ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ ॥ ३२
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः । ससमुद्रामिमां पृथिवीं सप्तद्वीपां सपर्वताम् ॥ ३३
भूराद्यांश्चतुरो लोकान्पुनः सोऽथ प्रकल्पयत् । लोकान्प्रकल्पयित्वा च प्रजासर्गं ससर्ज ह ॥ ३४
ब्रह्मा स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः । ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथा पुरा ॥ ३५
तस्याभिध्यायतः सर्गं सदा वै बुद्धिपूर्वकम् । प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः ॥ ३६
तमोमोहो महामोहस्तामिस्रो अ(ह्य)न्धसंज्ञिताः । अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः ॥ ३७
पञ्चधा चाऽऽश्रितः सर्गो ध्यायतः सोऽभिमानिनः । सर्वतस्तमसा चैव दीपः कुम्भपदावृतः ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ६ श्लो० ३९-६७] वायुपुराणम् । १९
( सृष्टिप्रकरणम् )
बहिरन्तःप्रकाशश्च शुद्धो निःसंज्ञ एव च । तस्मात्तैः संवृत्ता बुद्धिर्मुख्यानि करणानि च ॥ ३९
तस्मान्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः । मुख्यसर्गं तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम् ४०
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत । तस्याभिध्यायदस्तत्र तिर्यक्स्रोतोऽभ्यवर्तत ॥ ४१
तस्मात्तिर्यग्व्यवर्तन्त तिर्यक्स्रोतस्ततः स्मृतम् । तमोबहुत्वाने सर्वे ह्यज्ञानबहुलाः स्मृताः ॥ ४२
उत्पथग्राहिणश्चापि ते ध्यानाच्चानमानिनः । तिर्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः ॥ ४३
(*अहंकृता अहमाना अष्टाविंशद्विद्यात्मकाः । एकादशेन्द्रियविधा नवधा चोद्यस्तथा ॥ ४४
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः । अन्तःप्रकाशास्ते सर्व आवृताश्च बहिः पुनः ॥ ४५
यस्मात्तिर्यक्प्रवर्तेत तिर्यक्स्रोताः स उच्यते । (+तिर्यक्स्रोतश्च दृष्ट्वा वै द्वितीयं मिश्रमीश्वरः ॥ ४६
अभिप्रायमथोऽद्भूतं दृष्ट्वा सर्वं तथाविधम् । तस्याभिध्यायतो नित्यं सात्त्विकः समवर्तत ) ॥ ४७
ऊर्ध्वस्रोतास्तृतीयस्तु स चैवोर्ध्वं व्यवस्थितः । यस्माद्वृत्तवर्ततोर्ध्वं तु ऊर्ध्वस्रोतास्ततः स्मृतः ॥ ४८
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥ ४९
तेन वातादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः । ऊर्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः ॥ ५०
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः । प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत ॥ ५१
ससर्ज सर्गमन्यं स साधकं प्रभुरीश्वरः । अथाभिध्यायदस्तस्य सत्याभिध्यायिनस्तदा ॥ ५२
प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतः सुसाधकम् । यस्मादर्वाग्व्यवर्तेत (?) ततोऽर्वाक्स्रोत उच्यते ॥ ५३
ते च प्रकाशबहुलास्तमःसत्त्वरजोधिकाः । तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥ ५४
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते । लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः ॥ ५५
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः । इत्येष तैजसः सर्गो ह्यर्वाक्स्रोताः प्रकीर्तितः ॥ ५६
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा स व्यवस्थितः । विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ॥ ५७
विवृत्तं वर्तमानं च तेऽर्थं जानन्ति तत्त्वतः । भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ ५८
(×ते परिग्रहिणः सर्व संविभागरताः पुनः । खादनाश्चप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ) ॥ ५९
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः । प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः ॥ ६०
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते । वैकारिकस्तृतीयस्तु सर्व ऐन्द्रियकः स्मृतः ॥ ६१
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश्चातुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ६२
तिर्यक्स्रोताश्च यः सर्गस्तिर्यग्योनिः स पञ्चमः । तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥ ६३
(÷तथाऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः॥ ६४
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ ६५
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्वकाः) । बुद्धिपूर्वं प्रवर्तन्ते षट्सर्गा ब्रह्मणस्तु ते ॥ ६६
विस्तारानुग्रहं सर्गं कीर्त्यमानं निबोधत । चतुर्धाऽवस्थितः सोऽथ सर्वभूतेषु कृत्स्नशः ॥ ६७
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
+ धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो० १-६] (प्रतिसंधिकीर्तनम्)
विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च। स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता॥ ६८
सिद्ध्यात्मानो मनुष्यास्तु तुष्टिर्देवेषु कृत्स्नशः। इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः॥ ६९
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः। अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्॥ ७०
सनन्दनं च सनकं विद्वांसं च सनातनम्। विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः॥ ७१
संबुद्धाश्चैव नानात्वादपविद्धाश्रयोऽपि ते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः॥ ७२
तदा तेषु व्यतीतेषु तदान्यान्साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः॥ ७३
अभूतसंप्लवावस्थानाम्रतस्तान्निबोधत। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥ ७४
स्वर्गं दिवः समुद्रांश्च नादञ्शैलान्व्रनस्पतीन्। औषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम्॥ ७५
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः संविरात्र्यहाः। अर्धमासाश्च मासाश्च अयनाब्दयुगानि च॥
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः॥ ७६
वक्त्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्चोर्वोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः॥ ७७
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्॥ ७८
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाऽऽद्येन पादेन पुराणं संप्रकीर्तितम्॥ ७९
इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम षष्ठोऽध्यायः॥ ६॥
आदितः श्लोकानां समष्ट्यङ्काः--४९८
समाप्तः प्रक्रियापादः।
अथ सप्तमोऽध्यायः।
प्रतिसंधिकीर्तनम्।
+ सूत उवाच--
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः॥ १
संबोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतः प्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः॥ २
समतीतस्य कल्पस्य वर्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः॥
एतद्वेदितुमिच्छाम अ(मो ह्य)त्यन्तकुशलोऽह्यसि॥ ३
लोमहर्षण उवाच--
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिश्च यस्तयोः। समतीतस्य कल्पस्य वर्तमानस्य चोभयोः॥ ४
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यथायं वर्तते कल्पो वाराहः सांप्रतः शुभः॥ ५
अस्मात्कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत॥ ६
+ इदं नास्ति क. पुस्तके।
[अ० ७ श्लो० ७-३६] वायुपुराणम् । २१
( प्रतिसंधिकीर्तनम् ) प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै । अन्यः प्रवर्तते कल्पो जनालोकात्पुनः पुनः ॥ ७ व्युच्छिन्नात्प्रतिसंधेस्तु कल्पाकल्पः परस्परम् । व्युच्छिद्यन्ते क्रियाः सर्वाः कल्पान्ते सर्वशस्तदा॥ ८ तस्मात्कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते । मन्वन्तरयुगाख्यानामव्युच्छिन्नाश्च संधयः ॥ ९ परस्पराः प्रवर्तन्ते मन्वन्तरयुगैः सह । उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥ १० तेषां परार्धकल्पानां पूर्वो ह्यस्मात्तु यः परः । आसीत्कल्पो व्यतीतो वै परार्धं न परस्तु सः ॥ ११ अन्ये भविष्या ये कल्पा अपरार्धाद्गणीकृताः । प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः ॥ १२ यस्मिन्पूर्वः परार्धे तु द्वितीय पर उच्यते । एतावान्स्थितिकालस्य प्रत्याहारस्ततः स्मृतः ॥ १३ अस्मात्कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः । चतुर्युगसहस्रान्ते अहो मन्वन्तरैः परा ॥ १४ क्षीणे कल्पे तदा तस्मिन्दाहकाले ह्युपस्थिते । तस्मिन्कल्पे तदा देवा आसन्वैमानिकास्तु ये ॥ १५ नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये । अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम् ॥ १६ मन्वन्तरे तथैकस्मिंश्चतुर्दशसु वै तथा । त्रीणि कोटिशतान्यासन्कोट्यो द्विनवतिस्तथा ॥ १७ अष्टादिकाः सप्तशताः सहस्राणां स्मृताः पुरा । वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन् ॥ १८ एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः । अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि ॥ १९ देवाश्च पितरश्चैव मुनयो मनवस्तथा । तेषामनुचरा ये च मनुपुत्रास्तथैव च ॥ २० वर्णाश्रमिभिर्डीशाश्च तस्मिन्काले तु ये सुराः । मन्वन्तरेषु ये ह्यासन्देवेलोके दिवौकसः ॥ २१ ते तैः संयोजकैः सार्धं प्राप्ते संकालने तथा । तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे ॥ २२ ततस्तेऽवश्यभाविद्वादुबुद्ध्वा पर्यायमात्मनः । त्रैलोक्यवासिनो देवा (* इहस्थानाभिमानिनः ॥ २३ स्थितिकाले तदा पूर्णे ह्यासन्ने पश्चिमेऽन्तरे । कल्पवासानिका देवा ) तस्मिन्प्राप्ते ह्युपप्लवे ॥ २४ तेनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः । महर्लोकाय संविग्नास्ततस्ते दधिरे मतिम् ॥ २५ ते यक्ता उपपद्यन्ते महसि स्थैः शरीरकैः । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ २६ कः कल्पवासिभिः सार्धं महानासादितस्तु यैः । ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्कैश्चापरैर्जनैः ॥ २७ मत्वा तु ते महर्लोकं देवसंघाश्चतुर्दश । ततस्ते जनलोकाय सोद्वेगा दधिरे मतिम् ॥ २८ विशुद्धिबहुला सर्वे मानसीं सिद्धिमास्थिताः । तैः कल्पवासिभिः सार्धं महानासादितस्तु यैः ॥ २९ दशकृत्व इवाऽऽवृत्य तस्माद्गच्छन्ति स्वस्तपः । तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः ॥३० एतेन क्रमयोगेन( ण ) यान्ति कल्पानिवासिनः । एवं देवयुगानां तु सहस्राणि परस्परात् ॥ ३१ गतानि ब्रह्मलोकं वै अपरावार्तिनीं गतिम् । आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः ॥ ३२ भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च । तत्र ते ह्यवतिष्ठन्ति( न्ते ) प्रीतियुक्ताः प्रसङ्गात् ॥ ३३ आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह । अवश्यंभाविनाऽर्थेन प्राकृतेनैव ते स्वयम् ॥ ३४ नानात्वेनाभिसंबद्धास्तदा तत्कालभाविनः । स्वपतो बुद्धिपूर्वं हि यथा भवति जाग्रतः ॥ ३५ तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्तते । प्रत्याहारे तु भेदानां येषां भिन्नाभिसूक्ष्मणाम् ( ? ) ॥ ३६
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
२२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो ३७-६४] ( प्रतिसंधिकीर्तनम् )
तः सार्धं प्रतिसृज्यन्ते कार्याणि करणानि च । नानावतदर्शनान्तेषां ब्रह्मलोकनिवासिनाम् ॥ ३७
विनष्टस्वाधिकाराणां स्वेन धर्मेण तिष्ठताम् । ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः ॥ ३८
प्रकृतौ कारणायतीताः स्वात्मन्येव व्यवस्थिताः । प्रख्यापयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः ॥ ३९
पुरुषाव्यवहत्वे(त्त्वे)न प्रतीता न प्रवर्तते । प्रवर्तिते पुनः सर्गे तेषां वा कारणं पुनः ॥ ४०
संयोगे प्राकृते तेषां युक्तानां तत्त्वदर्शिनाम् । अत्रापवर्गािणां तेषामपुनर्मार्गगामिना(णा)म् ॥ ४१
अभावः पुनरुत्पत्तौ शान्तानामार्चिषामिव । ततस्तेषु गतेषूर्ध्वं त्रैलोक्यात्सुरमहात्मसु ॥ ४२
तैः सार्धं ये महर्लोकात्तदा नाऽऽसादिता जनाः । तच्छिष्ठाश्चेह तिष्ठन्ति कल्पाद्देहमुपासते ॥ ४३
गन्धर्वाद्याः पिशाचान्ता मानुषा ब्राह्मणादयः । पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥ ४४
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु । सहस्रं यत्तु रश्मीनां सूर्यस्येह विभासते ॥ ४५
ते सप्तरश्मयो भूत्वा ह्येकैको जायते रविः । क्रमेणोत्तिष्ठमानास्ते त्रींल्लोकान्प्रदहन्त्युत ॥ ४६
जङ्गमं स्थावरं चैव नदीः सर्वांश्च पर्वतान् । पूर्वं शुष्का ह्यनावृष्ट्या सूर्येस्तैश्च प्रधूपिताः ॥ ४७
तदा ते विवशाः सर्वे निर्दग्धाः सूर्यरश्मिभिः । जङ्गमाः स्थावराः सर्वे धर्माधर्मात्मकास्तु वै ॥ ४८
दग्धदेहास्ततस्ते वै गताः पापयुगात्यये । योन्या तया ह्यनिर्मुक्ताः शुभपामानुबन्धया ॥ ४९
ततस्ते ह्युपपद्यन्ते तुल्यरsub-रूपा जने जनाः । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ ५०
उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः । पुनः सर्गे भवन्तीह ब्रह्मणो मानसीप्रजाः (?) ॥ ५१
ततस्तेष्वप्रवृत्तेषु जने त्रैलोक्यवासिषु । निर्दग्धेषु च लोकेषु तेषु सूर्यैस्तु सप्तभिः ॥ ५२
वृष्ट्या क्षितौ प्लावितायां विशीर्णेष्वपिचालयेषु च । समुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः ५३
व्रजन्त्येकार्णवत्वं हि सलिलाख्यास्तदश्रिताः । आगतागतिकं तद्वै यदा तु सलिलं बहु ॥ ५४
संछाद्यमां स्थितां भूमिमर्णवाख्या तदा च सा । आभान्ति यस्मान्नाऽऽभान्ति भासन्तो व्याप्तिदीप्तिषु ॥ ५५
सर्वतः समनुप्लाव्य तासां चाम्भो विभाव्यते । सदम्भस्तनुते यस्मात्सर्वां पृथ्वीं समन्ततः ॥ ५६
धातुस्तनोति विस्तारे तेनाम्भस्तनवः स्मृताः । अरामीत्येष शीघ्रं तु निपातः कविभिः स्मृतः ॥ ५७
एकार्णवे भवन्त्यापो न क्षिप्रास्तेन ते नराः । तस्मिन्युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ॥ ५८
रजन्यां वर्तमानायां तावत्तत्सलिलात्मना । ततस्तु सलिले तस्मिन्नष्टेऽग्नौ पृथिवीतले ॥ ५९
प्रशान्तवातेऽन्धकारे निरालोके समन्ततः । येनैवाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः ॥ ६०
विभागमस्य लोकस्य पुनर्वै कर्तुमिच्छति । एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ ६१
तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः ॥ ६२
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा । सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमवेक्ष्य च ॥ ६३
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । आपो नाराख्यास्तनव इत्यपां नाम शुश्रुम ॥
आपूर्य नाभिं तत्राऽऽस्ते तेन नारायण स्मृतः ॥ ६४
(चतुराश्रमविभागः)
[अ०८श्लो० १-७] (चतुराश्रमविभागः)
वायुपुराणम्
२३
सहस्रशीर्षा सुमनः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रभुक् ।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीपथे यः पुरुषो निरुच्यते ॥ ६६
आदित्यवर्णो भुवनस्य गोप्ता एको ह्यपूर्वः प्रथमं तुराषाट् ।
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात् ॥ ६७
कल्पादौ रजसोद्रिक्तो ब्रह्मा भूत्वाऽसृजत्प्रजाः । कल्पान्ते तमसोद्रिक्तः कालो भूत्वाऽग्रसत्पुनः ॥ ६८
स वै नारायणारख्यस्तु सत्त्वोद्रिक्तोऽर्णवे स्वपन् । त्रिधा विभज्यः चाऽऽत्मानं त्रैलोक्ये समवर्तत ॥ ६९
सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु तान् । एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे ॥ ७०
चतुर्युगसहस्रान्ते सर्वतः सलिलावृते । ब्रह्मा नारायणारख्यस्तु अप्रकाशार्णवे स्वपन् ॥ ७१
चतुर्विधाः प्रजा ग्रस्त्वा ब्राह्मयां रात्र्यां महार्णवे । पश्यन्ति तं महर्लोकात्सुप्तं कालं महर्षयः ७२
भृग्वादयो यथा सप्त कल्पे ह्यस्मिन्महर्षयः । (*ततो विवर्तमानैस्तैर्महान्परिगतः परः ॥ ७३
गत्यार्थादृषयो धातो ना(र्ना)मनिर्वृत्तिरादितः । तस्मादृषिपरत्वेन महांस्तस्मान्महर्षयः ॥ ) ७४
महर्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः । सत्याद्याः सप्त ये ह्यासन्कल्पेऽतीते महर्षयः ॥ ७५
एवं ब्राह्मीषु रात्रीषु व्यतीतासु सहस्रशः । दृष्टवन्तस्तथा ह्यन्ये सुप्तं कालं महर्षयः ॥ ७६
कल्पस्याऽदौ तु बहुशो यस्मात्संस्थाश्चतुर्दश । कल्पयामास वै ब्रह्मा तस्मात्कल्पो निरुच्यते ॥ ७७
स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः । व्यक्ताव्यको महादेवस्तस्य सर्वमिदं जगत् ॥ ७८
इत्येष प्रतिसंधिर्वः कीर्तितः कल्पयोर्द्वयोः । सांप्रतातीतयोर्मध्ये प्रागवस्था बभूव या ॥ ७९
कीर्तिता तु समासेन कल्पे कल्पे यथा तथा । सांप्रतं ते प्रवक्ष्यामि कल्पमेतं निबोधत ॥ ८०
इति श्रीमहापुराणे वायुप्रोक्ते प्रतिसंधिकीर्तनं नाम सप्तमोऽध्यायः ॥ ७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--५७८
अथाष्टमोऽध्यायः ।
चतुराश्रमविभागः ।
सूत उवाच--
तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः। शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ १
ब्रह्मा तु सलिले तस्मिन्वायुर्भूत्वा तदा चरन् । अन्धकारे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ २
जलेन समनुव्याप्ते सर्वतः पृथिवीतले । अविभागेन भूतेषु समन्तात्सुस्थितेषु तु ॥ ३
निशायामिव खद्योतः प्रावृट्काले ततस्ततः । तदाऽऽकाशे चरन्सोऽथ वीक्ष्यमाणः स्वयंभुवः ॥ ४
प्रतिष्ठाया ह्युपायं तु मार्गमाणस्तदा प्रभुः । ततस्तु सलिले तस्मिन्ज्ञात्वा ह्यन्तर्गतां महीम् ॥ ५
अनुमानात्तु संबुद्धो भूमेरुद्धरणं प्रति । चकारान्यां तनुं चैव पूर्वकल्पादिषु स्मृताम् ॥ ६
स तु रूपं वराहस्य कृत्वाऽधः प्राविशत्प्रभुः । अद्भिः संछादितामुर्वी समीक्ष्याथ प्रजापतिः ॥ ७
*धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
२४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ८ श्लो० ८-३५]
(चतुराश्रमविभागः)
उद्धृत्योर्वीमथाद्भ्यस्तु अपस्तास्तु स विन्यसन्। सामुद्रीस्तु समुद्रेषु नादेयीर्निम्नगास्वपि ॥ ८
पार्थिवीस्तु स विन्यस्य पृथिव्यां सोऽचिनोद्गिरीन्। प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना ॥ ९
तेनाग्निना प्रलीनास्ते पर्वता भुवि सर्वशः। ( * शैत्यादेकार्णवे तस्मिन्वायुनाऽऽपस्तु संहताः ॥ १०
निषक्ता यत्र यत्राऽऽसंस्तत्र तत्राऽचलोऽभवत् । स्कन्धाचलत्वादचलाः पर्वाभिः पर्वताः स्मृताः) ॥ ११
गिरयोऽद्भिनिगीर्णत्वाच्चयनाच्च शिलोच्चयाः। ततस्तु तां समुद्धृत्य क्षितिमन्तर्जलात्प्रभुः ॥ १२
स्वस्थाने स्थापयित्वा च विभागमकरोत्पुनः। सप्त सप्ततु वर्षाणि तस्या द्वीपेषु सप्तसु ॥ १३
विषमाणि समीकृत्य शिलाभिरचिनोद्गिरीन् । द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव च ॥ १४
तावन्तः पर्वताश्चैव वर्षान्ते समवस्थिताः। सर्गादौ संनिविष्टास्ते स्वभावेनैव नान्यथा ॥ १५
सप्त द्वीपाः समुद्राश्च अन्योन्यस्य तु मण्डलम्। संनिकृष्टाः स्वभावेन समावृत्य परस्परम् ॥ १६
भूराख्यांश्चतुरो लोकांश्चन्द्रादित्यौ ग्रहैः सह। पूर्वं तु निर्ममे ब्रह्मा स्थानानीमानि सर्वशः ॥ १७
कल्पस्य चास्य ब्रह्मा वै ह्यसृजत्स्थानिनः पुरा। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिवं तथा ॥ १८
स्वर्गं दिशः समुद्रांश्च नदीः सर्वांश्च पर्वतान् । ओषधीनां तथाऽऽत्मानमात्मानं वृक्षवीरुधाम् ॥ १९
लवाः का(वान्का)ष्ठाः कलाश्चैव मुहूर्तं संधिरात्र्यहम्। अर्धमासांश्च मासांश्च अयनाब्दयुगानि च॥ २०
स्थानाभिमानिनश्चैव स्थानानि च पृथक्पृथक् । स्थानात्मनः स सृष्ट्वा वै युगावस्थां विनिर्ममे ॥ २१
कृतं त्रेता द्वापरं च कलिं चैव तथा युगम्। कल्पस्याऽऽदौ कृतयुगे प्रथमे सोऽसृजत्प्रजाः ॥ २२
प्रागुक्ता या मया तुभ्यं पूर्वकालं प्रजास्तु ताः। तस्मिन्संवर्तमाने तु कल्पे दग्धस्तदाऽग्निना ॥ २३
अप्राप्ता यास्तपोलोकं जनलोकं समाश्रिताः। प्रवर्त्तन्ति(न्ते) पुनः सर्गे बीजार्थं ता भवन्ति हि ॥ २४
बीजार्थेन स्थितास्तत्र पुनः सर्गस्य कारणात्। ततस्ताः सृज्यमानास्तु संतानार्थं भवन्ति हि ॥ २५
धर्मार्थकाममोक्षाणामिह ताः साध(धि)काः स्मृताः। देवाश्च पितरश्चैव ऋषयो मनवस्तथा ॥ २६
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति हि। ब्रह्मणो मानसास्ते वै सिद्धात्मानो भवन्ति हि ॥ २७
ये सङ्गोद्वेषयुक्तेन कर्मणा ते दिवं गताः। आवर्तमाना इह ते संभवन्ति युगे युगे ॥ २८
स्वकर्मफलशेषेण ख्याताश्चैव तथात्मिकाः। संभवन्ति जनाल्लोकात्कर्मसंशयबन्धनात् ॥ २९
आशयः कारणं तत्र बोद्धव्यं कर्मणां तु सः। तैः कर्मभिस्तु जायन्ते जनाल्लोकाः शुभाशुभैः। ३०
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु। देवादयस्थावरान्ते च उत्पद्यन्ते परस्परम् ॥ ३१
तेषां ये यानि कर्माणि प्राक्सृष्टेः प्रतिपेदिरे । ( +तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते। तद्भाविताः प्रपद्यन्त तस्मात्तत्तस्य रोचते ॥ ३३
कल्पष्वासन्व्यतीतेषु रूपनामानि यानि च। तान्येवानागते काले प्रायशः प्रतिपेदिरे ॥ ३४
÷तस्मात्तु नामरूपाणि तान्येव प्रतिपेदिरे । ) पुनः पुनस्ते कल्पेषु जायन्ते नामरूपतः ॥ ३५
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
÷ इदमर्धं नास्ति घ. पुस्तके ।
( चतुराश्रमविभाग )
[अ०८श्लो०३६-६३] वायुपुराणम् । २५ ( चतुराश्रमविभाग )
ततः सर्गे ह्यवष्टब्धे सिसृक्षोर्ब्रह्मणस्तु वै । प्रजास्ता ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥ ३६
मिथुनानां सहस्रं तु सोऽसृजद्वै मुखात्तदा । जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुचेतसः ॥ ३७
सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह । ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यशुष्मिणः ॥ ३८
सृष्ट्वा सहस्रमन्यत्तु द्वंद्दाना मुरुतः पुनः । रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः ॥ ३९
पद्भ्यां सहस्रमन्यत्तु मिथुनानां ससर्ज ह । उद्रिक्तास्तमसा सर्वे निःश्रीका ह्यल्पतेजसः ॥ ४०
ततो वै हर्षमाणास्ते द्वंद्वोत्पन्नास्तु प्राणिनः । अन्योन्या हृच्छयाविष्टा मैथुनायोपचक्रमुः ॥ ४१
ततः प्रभृति कल्पेऽस्मिन्मिथुनोत्पत्तिरुच्यते । मासे(सि) मासे(स्या)र्तवं यद्यत्तत्तदासद्धि योषिताम् ॥ ४२
तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः । आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ते सकृत् ॥ ४३
(*कुटकाः कुविकाश्चैव उत्पद्यन्ते मुमूर्षताः । ततः प्रभृति कल्पेऽस्मिन्मिथुनानां हि संभवः ॥ ४४
ध्याते तु मनसा तासां प्रजानां जायते सकृत् । ) शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणः ॥ ४५
इत्येव मानसी पूर्वं प्राक्सृष्टिर्या प्रजापतेः । तस्यान्ववाये संभूता यैरिवं पूरिदं जगत् ॥ ४६
सरित्सरःसमुद्रांश्च सेवन्ते पर्वतानपि । तदा नात्यम्बुशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥ ४७
÷पृथ्वीरसोद्भवं नाम आहारं ह्याहरन्ति वै । ताः प्रजाः कामचारिण्यो मानसी सिद्धिमास्थिताः ॥ ४८
धर्माधर्मौ न तास्वास्तां (+निर्विशेषाः प्रजास्तु ताः । तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥४९
धर्माधर्मौ न तास्वास्तां ) कल्पादौ तु कृते युगे । स्वेन स्वेनाधिकारेण जज्ञिरे ते कृते युगे ॥ ५०
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया । आद्यं कृतयुगं प्राहुः संध्यानां तु चतुःशतम् ॥ ५१
ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि । न तासां प्रतिघातोऽस्ति न द्वंद्धं नापि च क्रमः ॥ ५२
पर्वतोदधिसंसेव्यो ह्यनिकेताश्रयास्तु ताः । विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः ॥ ५३
ता वै निकामचारिण्यो नित्यं मुदितमानसाः । पशवः पक्षिणश्चैव न तदाऽऽसन्न्सरीसृपाः । ५४
नोद्भिज्जा नारकाश्चैव ते ह्यधर्मप्रसूतयः । न मूलफलपुष्पं च नाऽऽर्तवमूतवो न च ॥ ५५
सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता । ( ×मनोभिलाषिताः कामास्तासां सर्वत्र सर्वदा ॥ ५६
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोत्थिताः) । बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी ॥ ५७
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः । तासां विशुद्धात्संकल्पाज्जायन्ते मिथुनाः प्रजाः ॥५८
समं जन्म च रूपं च म्रियन्ते चैव ताः समम् । तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ॥ ५९
निर्विशेषास्तु ताः सर्वा रूपायुःशीलचेष्टितैः । अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम् ॥ ६०
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः । वर्णाश्रमव्यवस्थाश्च न तदाऽऽसन्न संकरः ॥ ६१
अनिच्छोद्देषयुक्तास्ते वर्तयन्ति परस्परम् । तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः ॥ ६२
सुखप्रायो ह्यशोकाश्च उत्पद्यन्ते कृते युगे । नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः ॥ ६३
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति । ÷इदमर्धं नास्ति ड. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
४
२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८श्लो०६४-९२] ( चतुराश्रमविभागः )
लाभालाभौ न तास्वास्तां मित्रामित्रे प्रियाप्रिये । मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥ ६४
न लिप्सन्ति हि ताऽन्योन्यं नानुगृह्णन्ति चैव हि । ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥ ६५
प्रवृत्तं द्वापरे यज्ञं(ज्ञो) दानं कलियुगे वरम् । सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमौ ॥ ६६
कलौ तमस्तु विज्ञेयं युगवृत्तवशेन तु । कालः कृते युगे त्वेष तस्य संख्यां निबोधत ॥ ६७
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् । संध्यांशो तस्य दिव्यानि शतान्यष्टौ च संख्यया ॥ ६८
तदा तासां बभूवाऽऽयुर्न च क्लेशविपत्तयः । ततः कृतयुगे तस्मिन्संध्यांशे हि गते तु वै ॥ ६९
पादावशिष्टो भवति युगधर्मस्तु सर्वशः । संध्यायामप्यतीतायामन्तकाले युगस्य तु ॥ ७०
पादवश्वावशिष्टे तु संध्याधर्मो युगस्य तु । एवं कृते तु निःशेषे सिद्धिस्त्वन्तर्दधे तदा ॥ ७१
तस्यां च सिद्धौ भ्रष्टायां मानस्यामभवत्ततः । सिद्धिरन्या युगे तस्मिंस्त्रेतायामन्तरे कृता ॥ ७२
सर्गादौ या मयाऽष्टौ तु मानस्यो वै प्रकीर्तिताः । अष्टौ ताः क्रमयोगेन(ण)सिद्धयो यान्ति संक्षयम् ॥७३
कल्पादौ मानसी ह्येषा सिद्धिर्भवति सा कृते । मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ॥ ७४
वर्णाश्रमाचारकृतः कर्मसिद्धोद्भवः स्मृतः । संध्या कृतस्य पादेन संध्यापादेन चांशतः ॥ ७५
कृतसंध्यांशका ह्येते त्रींस्त्रीन्पादान्परस्परान् । हसन्ति युगधर्मैस्ते तपःश्रुतबलायुषैः ॥ ७६
ततः कृतांशे क्षीणे तु बभूव तदनन्तरम् । त्रेतायां युगमन्यत्तु कृतांशमृषिसत्तमाः ॥ ७७
तस्मिन्क्षीणे कृतांशे तु तच्छिष्टासु प्रजास्विह । कल्पादौ (*संप्रवृत्तायास्त्रेतायाः प्रमुखे तदा ॥ ७८
प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा । तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ॥ ७९
अपां सौक्ष्म्ये ) प्रतिगते तदा मेवात्मना तु तौ । मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ॥ ८०
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले । प्रादुरासंस्तदा तासां वृक्षास्तु गृहसंस्थिताः ॥ ८१
सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते । वर्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ ८२
ततः कालेन महता तासामेव विपर्ययात् । रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ॥ ८३
यत्तद्भवति नारीणां जीविन्ताते तदाऽऽर्तवम् । तदा तद्वै न भवति पुनर्युगबलेन तु ॥ ८४
तासां पुनः प्रवृत्तं तु मासे मासे तदार्तवम् । ततस्तेनैव योगेन वर्ततां मिथुने तदा ॥ ८५
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम् । अकाले ह्यार्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ॥ ८६
विपर्ययेण तासां तु तेन कालेन भाविना । प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसांस्थिताः ॥ ८७
प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः । वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च ॥ ८९
ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः । आभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ॥ ८८
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् । अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥ ९०
तेन ता वर्तयन्ति स्म सुखे त्रेतायुगस्य वै । हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ॥ ९१
पुनः कालान्तरेणैव पुनर्लोभावृतास्तु ताः । वृक्षांस्तानपर्यगृह्णन्त मधु वा माक्षिकं बलात् ॥ ९२
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ०८श्लो० ९३-१२१] वायुपुराणम् । ३७
( चतुराश्रमविभागः )
तासां तेनापचारेण पुनर्लोभकृतेन वै । प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ॥ ९३
सस्यामेवालपाशिष्टायां संध्याकालवशात्तदा । प्रावर्तन्त तदा तासां द्वंद्वान्यभ्युत्थितानि तु ॥ ९४
शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् । द्वंद्वैस्ताः पीड्यमानास्तु चक्रुरावरणानि च ॥ ९५
कृत्वा द्वंद्वप्रतीकारं निकेतानि हि भेजिरे । पूर्वं निकामचारास्ते अनिकेताश्रया भृशम् ॥ ९६
यथायोग्यं यथाप्रीति निकेतेष्ववसन्पुनः । मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च ॥ ९७
संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम् । यथायोगं यथाकामं समेषु विषमेषु च ॥ ९८
आरब्धास्ते निकेता वै(न्वै) कर्तुं शीतोष्णवारणम् । ततः संस्थापयामास खेटानि च पुराणि च ॥ ९९
ग्रामांश्चैव यथाभागं तथैवान्तःपुराणि च । तासामायामविष्कम्भान्संनिवेशान्तराणि च ॥ १००
चकुस्तदा यथाप्रज्ञं (*मित्वा मित्वाऽऽत्मनोऽङ्गुलैः । मनोर्थानि प्रमाणानि तदा प्रभृति चक्रिरे ॥१०१
यथाऽङ्गुलप्रदेशांस्त्रीन्हस्तान्किष्कुध्नूंषि च । दश त्वङ्गुलपर्वाणि ) (×प्रदेशः संज्ञितस्तु तैः ॥ १०२
अष्टाङ्गुलः प्रदेशिन्या व्यासः प्रादेश उच्यते । तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥ १०३
कनिष्ठया वितस्तिस्तु द्वादशाङ्गुल उच्यते । रत्निरङ्गुलपर्वाणि ) संख्यया त्वेकविंशतिः ॥ १०४
चतुर्विंशतिभिश्चैव हस्तःस्यादङ्गुलानि तु । किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलम् (?)॥१०५
चतुर्हस्तं धनुर्दण्डो नालिकायुगमेव च । धनुसहस्रे द्वे तत्र गव्यूतिस्तैर्विभाव्यते ॥ १०६
अष्टौ धनुःसहस्राणि योजनं तैर्निरुच्यते । एतेन योजनेनैव संनिवेशस्ततः कृतः ॥ १०७
चतुर्णामेव दुर्गाणां स्वसमुत्थानि त्रीणि तु । चतुर्थं कृत्रिमं दुर्गं तस्य वक्ष्याम्यहं विधिम् ॥ १०८
सौधोच्चवप्रप्राकारं सर्वतस्खातकावृतम् । तदेकं स्वस्तिकद्वारं कुमारीपुरमेव च ॥ १०९
स्रोतसीसंहतद्वारं निखातं पुनरेव च । हस्ताष्टौ च-दश श्रेष्ठा नवाष्टौ वाऽपरे मताः ॥ ११०
खेटानां नगराणां च ग्रामाणां चैव सर्वशः । त्रिविधानां च दुर्गाणां पर्वतोदकबन्धनम् ॥ १११
त्रिविधानां च दुर्गाणां विष्कम्भायाममेव च । योजनानां च निष्कम्भमष्टभागार्धमायतम् ॥ ११२
परमार्धर्धमायामं प्रागुदक्प्रवणं पुरम् । छिन्नकर्णं विकर्णं तु व्यञ्जनं कृतसंस्थितम् ॥ ११३
वृत्तं हीनं च दीर्घं च नगरं न प्रशस्यते । चतुरस्रार्जवं दिक्स्थं प्रशस्तं वै पुरं पुरम् ॥ ११४
चतुर्विंशतिराद्यं तु हस्तानष्टशतं परम् । अत्र मध्यं प्रशंसन्ति ह्रस्वात्कृष्टविवर्जितम् ॥ ११५
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् । नगरार्धविष्कम्भे खेटं ग्रामं ततो बहिः ॥ ११६
नगरार्धयोजनं खेटं खेटाद्ग्रामोऽर्धयोजनम् । द्विक्रोशे परमा सीमा क्षेत्रसीमा चतुर्धनुः ॥ ११७
विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ ११८
धनूंषि दश विस्तीर्णः श्रीमन्न्राजपथः स्मृतः । नृवाजिरथनागानामसंबाधः सुसंचरः ॥ ११९
धनूंषि चैव चत्वारि शाखारथ्यास्तु तैः कृताः । गृहरथ्योपरथ्याश्च द्विकाश्चाप्युपरथ्यकाः ॥ १२०
घण्टापथश्चतुष्पादास्त्रिपदं च गृहान्तरम् । वृत्तिमार्गास्त्वर्धपदं प्राग्वंशः पदिकः स्मृतः ॥ १२१
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ।
२८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०८श्लो०१२२-१४५]
(चतुराश्रमविभागः)
अवस्करं परीवाहं पदमात्रं समन्ततः । कृतेषु तेषु स्थानेषु पुनश्चक्रुर्गृहाणि वै ॥ १२२
मधा ते पूर्वमासन्व्रै वृक्षास्तु गृहसंस्थिताः । तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः ॥ १२३
वृक्षाश्चैव गताः शाखा न ताश्चैव परागताः । अत ऊर्ध्वं गताश्चान्या एवं तिर्यग्गताः पुरा ॥ १२४
बुद्ध्वाऽन्विष्यंस्तथा न्यायो वृक्षशाखा यथा गताः । तथा कृतास्तु तैः शाखास्तस्माच्छा-
लास्तु ताः स्मृताः ॥ १२५
एवं प्रसिद्धाः शाखाभ्यः शालाश्चैव गृहाणि च । ( * तस्मात्ता वै स्मृताः शालाः शालात्वं
चैव तासु तत् ॥ १२६
प्रसीदति मनस्तासु मनः प्रसादयन्ति ताः । ) तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिताः ॥ १२७
कृत्वा द्वंद्वोपघातास्तांस्तान्वार्तोपायमचिन्तयन् । नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ १२८
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधात्मिकाः । ततः प्रादुर्बभौ तासां सिद्धिखेतायुगे पुनः॥ १२९
वार्तार्थसाधिकाऽप्यन्या वृत्तिस्तासां हि कामतः । तासां वृष्ट्युदकानीह यानि निम्नैर्गतानि तु ॥
+वृष्ट्या तदभवत्स्रोतः खातानि निम्नगाः स्मृताः । एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने ॥ १३१
ये परस्तादपां स्तोका आपन्नाः पृथिवीतले । अपां भूमेश्च संयोगादोषध्यस्तासु चाभवन् ॥ १३२
पुष्पमूलफलिन्यस्तु ओषध्यस्ताः प्रजज्ञिरे । अकामकृष्टाइचानुप्ता ग्राम्यारण्याश्चतुर्दश ॥ १३३
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे । प्रादुर्भावश्च त्रेतायां वार्तायामौषधस्य तु ॥ १३४
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा । ततः पुनरभूत्तासां रागो लोभश्च सर्वशः ॥ १३५
अवश्यंभाविनाऽर्थेन त्रेतायुगवशेन तु । ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ॥ १३६
वृक्षान्गुल्मौषधीश्चैव प्रसह्य तु यथाबलम् । सिद्धात्मानस्तु ये पूर्वं व्याख्याताः प्राकृते यया॥ १३७
ब्रह्मणो मानवास्ते वा उत्पन्ना योजनादिह । शान्ताश्च शुष्मिणश्चैव कर्मिणो दुःखिनस्तदा ॥ १३८
ततः प्रवर्तमानास्ते त्रेतायां जज्ञिरे पुनः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्रोहिजनास्तथा ॥ १३९
भाविताः पूर्वजातीषु कर्मभिश्च शुभाशुभैः । इतस्तेभ्यो बला ये तु सत्यशीला ह्यहिंसकाः ॥ १४०
वीतलोभा जितात्मानो निवसन्ति स्म तेषु वै । प्रतिगृह्णन्ति कुर्वन्ति तेभ्यश्चान्येऽल्पतेजसः ॥ १४१
तेषां कर्माणि कुर्वन्ति तेभ्यश्चैवाबलास्तु ये । परिचर्यास्व(सु)वर्तन्ते तेभ्यश्चान्येऽल्पतेजसः ॥ १४२
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् । तेन दोषेण तेषां ता ओषध्यो मिषतां तदा ॥ १४३
प्रनष्टा ह्रियमाणा वै मुष्टिभ्यां सिकता यथा । अप्रसन्दूर्युगबलाद्ग्राम्यारण्याश्चतुर्दश ॥ १४४
फलं गृह्णन्ति पुष्पैश्च पुष्पं पत्रैश्च याः पुनः । ततस्तासु प्रनष्टासु विभ्रान्तास्ताः प्रजास्तदा॥१४५
*धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + एतदर्धस्थाने “ वृष्ट्या निम्ना निरभवत्स्रोतःखातानि निम्नगा ” इति क. ख. घ. ङ. पुस्तकेषु ।
(चतुराश्रमविभागः)
[अ०८श्लो०१४६-१७३] वायुपुराणम्। २९
(चतुराश्रमविभागः) स्वयंभुवं प्रभुं जग्मुः क्षुधाविष्टाः प्रजापतिम्। वृत्त्यर्थमभिलिप्सन्त आदौ त्रेतायुगस्य तु ॥ १४६ ब्रह्मा स्वयंभूर्भगवान्ज्ञात्वा तासां मनीषितम्। युक्तं प्रत्यक्षदृष्टेन दर्शनेन विचार्य च ॥ १४७ ग्रस्ताः पृथिव्या ओषध्यो ज्ञात्वा प्रत्यदुहत्पुनः। कृत्वा वत्सं सुमेरुं तु दुदोह पृथिवीमिमाम् ॥१४८ दुग्धेयं गौस्तदा तेन बीजानि पृथिवीतले। जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः पुनः॥ १४९ ओषध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः। व्रीहयश्च यवाश्चैव (*गोधूमा अणवस्तिलाः॥ १५० (+प्रियंगवो ह्युदाराश्च कारूषाश्च सवी(ती)नकाः। माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥१५१ आढक्याश्चणकाश्चैव सप्तसप्तदशाः स्मृताः। इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः॥१५२ ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश । व्रीहयः सयवा माषा गोधूमा अणवस्तिलाः)॥ १५३ प्रियंगुसप्तमा ह्येते अष्टमी तु कुलत्थिका । श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः॥ १५४ कुरुविन्दा वेणुयवास्तथा मर्कटकाश्च ये । ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ॥ १५५ उत्पन्नाः प्रथमा ह्येता आदौ त्रेतायुगस्य तु । अफालकृष्टा ओषध्यो ग्रामारण्यास्तु सर्वशः॥ १५६ वृक्षा गुल्मलता वल्ली वीरुधस्तृणजातयः । मूलेः फलैश्च रोहिण्यो गृह्णन्पुष्पैश्च जायते(?) ॥ १५७ पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा। ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह ॥ १५८ यदा प्रसूष्टा ओषध्यो न प्ररोहन्ति ताः पुनः। ततः स तासां वृत्त्यर्थं वार्तोपायं चकार ह १५९ ब्रह्मा स्वयंभूर्भगवान्दृष्ट्वा सिद्धिं तु कर्मजाम् । ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥ १६० संसिद्धायां तु वार्तायां ततस्तासां स्वयंभुवा। मर्यादाः स्थापयामास यथारब्धाः परस्परम् ॥ १६१ ये वै परिग्रहीतारस्तामासामासान्विधात्मकाः । इतरेषां क्षतत्राणाः स्थापयामास क्षत्रियान् ॥ १६२ उपतिष्ठन्ति ये तान्वै यावन्तो निर्भयास्तथा । सत्यं ब्रह्म यथा भूतं ब्रुवन्तो ब्राह्मणाश्च ते ॥ १६३ ये चान्येऽप्यबलास्तेषां वैशसं कर्म संस्थिताः। कीनाशा नाशयान्ति स्म पृथिव्या प्रागतान्द्रिताः॥ १६४ वैश्यन्येव तु तानाहुः कीनाशान्वृत्तिसाधकान् । शोचन्तश्च द्रवन्तश्च परिचर्यासु ये रताः॥ १६५ निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः॥ १६६ संस्थितौ प्राकृतायां तु चातुर्वर्ण्यस्य सर्वशः। पुनः प्रजास्तु ता मोहात्तान्धर्मान्नत्वपालयन्॥ १६७ वर्णधर्मैर्जीवन्त्यो व्यरुध्यन्त परस्परम्। ब्रह्मा तमर्थं बुद्ध्वा तु याथातथ्येन वै प्रभुः॥ १६८ क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत्। याजनाध्यापनं चैव तृतीयं च प्रतिग्रहम् ॥ १६९ ब्राह्मणानां विभुस्तेषां कर्माण्येतान्यथाऽऽदिशत्। पाशुपाल्यं वाणिज्ज्यं च कृषिं चैव विशां ददौ ॥१७० शिल्पाजीवं भृतिं चैव शूद्राणां व्यदधात्प्रभुः । सामान्यानि तु कर्माणि ब्रह्मक्षत्रविशां पुनः॥ १७१ यजनाध्ययनं दानं सामान्यानि तु तेषु च । कर्माजीवं ततो दत्त्वा तेभ्यश्चैव परस्परम् ॥ १७२ लोकान्तरेषु स्थानानि तेषां सिद्ध्याऽददात्प्रभुः । प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्॥१७३
* एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके। नास्ति + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति।
३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८ श्लो १७४-२०१] ( चतुराश्रमविभागः )
स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम् ॥ १७४ गान्धर्वं शूद्रजातीनां परिचारेण तिष्ठताम् । स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम् ॥ १७५ ततः स्थितेषु वर्णेषु स्थापयामास चाऽऽश्रमान् । गृहस्थो ब्रह्मचारित्वं वानप्रस्थं साभिक्षुकम् ॥ १७६ आश्रमांश्चतुरो ह्येतान्पूर्वमास्थापयत्प्रभुः । वर्णकर्माणि ये केचित्तेषामिह न कुर्वते ॥ १७७ कुतः कर्माक्षितिं प्राहूराश्रमस्थानवासिनः । ब्रह्मा तान्स्थापयामास आश्रमान्नाम नामतः ॥ १७८ निर्देशार्थं ततस्तेषां ब्रह्मा धर्मानभाषत । प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह ॥ १७९ चातुर्वर्ण्यात्मकः पूर्वं गृहस्थश्चाऽऽश्रमः स्मृतः । त्रयाणामाश्रमाणां च प्रतिष्ठा योनिरैव च ॥ १८० यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते । दाराग्न्याऽऽस्थाऽऽतिथेय इज्याश्राद्धक्रियाः प्रजाः ॥ १८१ इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः । दण्डी च मेखली चैव ह्यधःशायी तथा जटी ॥ १८२ गुरुशुश्रूषणं भैक्ष्यं विद्यार्थे ब्रह्मचारिणः । चरिपत्राजिनानि स्युर्धान्यमूलफलौषधम् ॥ १८३ उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् । आसन्नमुसले भैक्षमस्तेयं शौचमेव च ॥ १८४ अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा । अक्रोधो गुरुशुश्रूषा सत्यं च दशमं स्मृतम् ॥ १८५ दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभुवा । भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपत्रतानि च ॥ १८६ आचारशुद्धिर्विनयः शौचं चापातिकर्म च । सम्यग्दर्शनामित्येवं पञ्चैवोपत्रतान्यपि ॥ १८७
ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्ष्यमथोपगम्य ।
मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति ॥
सर्वे ते श्रेयसे प्रोक्ता आश्रमा ब्रह्मणा स्वयम् । सत्यार्जवं तपः क्षान्तिर्योगेज्या दमपूर्विका ॥ १८९ वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये । न सिध्यन्ति प्रदुष्टस्य भावदोष उपागते ॥ १९० बहिः कर्माणि सर्वाणि प्रसिध्यन्ति कदाच न । अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान् ॥ १९१ सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाक्स स्याद्भाव एवात्र कारणम् ॥ १९२ एवं देवाः सपितर ऋषयो मनवस्तथा । तेषां स्थानममुष्मिंस्तु संस्थितानां प्रचक्षते ॥ १९३ अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् । स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम् ॥ १९४ सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै दिवौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ॥ १९५ योगिनाममृतं स्थानं नानाधीनां न विद्यते । स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः ॥ १९६ चत्वार एते पन्थानो देवयाना विनिर्मिताः । ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि ॥ १९७ पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः । तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥ १९८ एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा । यदाऽस्य न व्यवर्तन्त प्रजा वर्णाश्रमात्मिकाः ॥ १९९ ततोऽन्या मानसीः सोऽथ त्रेतामध्येऽसृजत्प्रजाः । आत्मनः स्वशरीराच्च तुल्याश्चैवात्मना तु वै ॥ २०० तस्मिंस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु । ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे ॥ २०१
[अ० ९ श्लो० १-१४] वायुपुराणम्। ३१
( देवादि सृष्टिकथनम् )
ततः सत्त्वरजोद्रिक्ताः प्रजाः सोऽथासृजत्प्रभुः । धर्मार्थकाममोक्षाणां वार्त्तायाश्चैव साधिकाः ॥ २०२ देवाश्च पितरश्चैव ऋषयो मनवस्तथा । युगानुरूपा धर्मेण यैर्रिमा विचिन्ताः प्रजाः ॥ २०३ उपस्थिते तदा तस्मिन्प्रजाधर्मे स्वयंभुवः । अभिदध्यौ प्रजाः सर्वा नानारूपास्तु मानसीः ॥ २०४ पूर्वोक्ता या मया तुभ्यं जनलोकं समाश्रिताः । कल्पेऽतीते तु ते ह्यासन्देवाद्यास्तु प्रजा इह ॥ २०५ ध्यायस्तस्तस्य ताः सर्वाः संभूत्यर्थमुपस्थिताः । मन्वन्तरक्रमेणेह कनिष्ठे प्रथमे मताः ॥ २०६ ख्यात्याऽनुबन्धैस्तैस्तैस्तु सर्वार्थैर्रिह भाविताः । कुशलाकुशलप्रायैः कर्मभिस्तैः सदा प्रजाः ॥ २०७ तत्कर्मफलशेषेण उपष्टब्धाः प्रजज्ञिरे । देवासुरपितॄंश्चैव पशुपक्षिसरीसृपैः ॥ २०८ वृक्षनारकिकीटत्वैस्तैस्तैर्भावैरुपस्थिताः । आर्थिनार्थं प्रजानां च आत्मनो वै विनिर्ममे ॥ २२९
इति महापुराणे वायुप्रोक्ते चतुराश्रमविभागकथनं नामाष्टमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७७७
अथ नवमोऽध्यायः ।
देवादि सृष्टिकथनम् ।
सूत उवाच-- ततोऽभिध्यायस्तस्य णज्ञिरे मानसी(स)प्रजाः । तच्छरीरसमुत् नैः कार्यैस्तैः कारणैः सह ॥ १ क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः । ततो देवासुरपितॄन्मानवं च चतुष्टयम् ॥ २ सिसृक्षुरम्भांस्येतांश्च स्वात्मना समयूयुजत् । युक्तात्मनस्ततस्तस्य ततो मात्रा स्वयंभुवा ॥ ३ तमभिध्यायतः सर्गं प्रयत्नोऽभूतप्रजापतेः । ततोऽस्य जघनात्पूर्वमसुरा जज्ञिरे सुताः ॥ ४ असुः प्राणः स्मृतो विप्रैस्तज्जन्मानस्ततोऽसुराः । यया सृष्टाः सुरास्तन्वा तां तनुं स व्यपो(पौ)हत ॥ ५ साऽपविद्धा तनुस्तेन (*सद्यो रात्रिरजायत । सा तमोबहुला यस्मात्ततो रात्रित्रियामिका ॥ ६ आवृतास्तमसा रात्रौ प्रजास्तस्मात्स्वयंभुवः । दृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत ॥ ७ अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत् । ततस्तां युञ्जतस्तस्य प्रियम्यासीत्प्रभोः किल ॥ ८ ततां मुखे समुत्पन्ना दीव्यतस्तस्य देवताः । यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्तिताः ॥ ९ धातुर्दीवीति यः प्रोक्तः क्रीडायां स विभाव्यते । तस्यां तन्वां तु दिव्यायां जज्ञिरे तेन देवताः ॥ १० देवान्सृष्ट्वाऽथ देवेशस्तनुमन्यामपद्यत । + उत्सृष्टा सा तनुस्तेन सद्यो हस्तादजायत ॥ ११ ÷ तस्मादहःकर्मयुक्तो देवताः समुपासते । सत्त्वमात्रात्मिकां देवस्ततोऽन्यां सोऽभ्यपद्यत ॥ १२ पितृवन्मन्यमानस्तान्पुत्रान्माध्यायत् प्रभुः । पितरो ह्युपपक्षाभ्यां रात्र्यह्रोरन्तराऽसृजत् ॥ १३ तस्मात्ते पितरो देवाः पुत्रत्वं तेन तेषु तत् । यया सृष्टास्तु पितरस्तां तनुं स व्यपो (पौ)हत ॥ १४
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इदमर्धं क. ख. पुस्तकयोर्नास्ति । ÷ इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।
३२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९श्लो १५-४०] (देवादिस्सृष्टिकथनम्)
साऽपविद्धा तनुस्तेन) सद्यः संध्या प्र(ह्र)जायत । तस्मादहस्तु देवानां रात्रिर्या साऽऽसुरी स्मृता ॥ १५ तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी । तस्माद्देवासुराः सर्व ऋषयो मनवस्तथा ॥ १६ ते युक्तास्तामुपासन्ते ब्रह्मणो मध्यमां तनुम् । ततोऽन्यां स पुनर्ब्रह्मा तनुं वै प्रत्यपद्यत ॥ १७ रजोमात्रात्मिकायां तु मनसा सोऽसृजत्प्रभुः । रजःप्रायात्ततः सोऽथ मानसानसृजत्सुतान् ॥ १८ मनसस्तु ततस्तस्य मानसा(स्यो) जज्ञिरे प्रजाः । (*दृष्ट्वा पुनः प्रजाश्चापि स्वां तनुं तामपी(पौ)हत साऽपविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत । तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः)॥२० इत्येतास्तनवस्तेन व्यपविद्धा महात्मना । सद्यो रात्र्यहनी चैव संध्या ज्योत्स्ना च जज्ञिरे ॥ २१ ज्योत्स्ना संध्या तथाऽहश्च सत्त्वमात्रात्मकं स्वयम् । तमोमात्रात्मिका रात्रिः सा वै तस्मात्त्रियामिका ॥ २२ तस्माद्देवा दिव्यतन्वा हृष्टाः सृष्टा मुखात्तु वै । यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥ २३ तन्वा यदसुरान्रात्रौ जघनादसृजत्प्रभुः । प्राणेभ्यो रात्रिजन्मानो ह्यसह्या निशि तेन ते ॥ २४ एतान्येव भविष्याणां देवानामसुरैः सह । पितॄणां मानवानां च अतीतानांगतेषु वै ॥ २५ मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि । ज्योत्स्ना रात्र्यहनी संध्या चत्वार्याभासितानि वै ॥ २६ भान्ति यस्मात्ततोऽम्भा(म्भां)सि भाशब्दोऽयं मनीषिभिः । व्याप्तिर्दीप्त्यां निगदितः पुनश्चाऽऽह प्रजापतिः ॥ २७ सोऽम्भांस्येतानि दृष्ट्वा तु देवदानवमानवान् । पितॄंश्च वाऽसृजत्सोऽन्यानात्मनो विबुधान्पुनः ॥ २८ तामुत्सृज्य तनुं कृत्स्नां ततोऽन्यामसृजत्प्रभुः । मूर्तिं रजस्तमःप्रायां पुनरेवाभ्ययुयुजत् ॥ २९ अन्धकारे क्षुधाविष्टस्ततोऽन्यां सृजते पुनः । तेन सृष्टाः क्षुधात्मानस्तेऽम्भांस्यादातुमुद्यताः ॥ ३० अम्भांस्तेतानि रक्षाम उक्तवन्तश्च तेषु च । राक्षसास्ते स्मृता लोके क्रोधात्मानो निशाचराः ॥ ३१ येऽब्रुवन्क्षिणुमोऽम्भांसि तेषां दृष्टाः परस्परम् । तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः ॥ ३२ रक्षणे पालने चापि धातुरेष विभाव्यते । य एष क्षितिधातुर्वै क्षयणे संनिरुच्यते ॥ ३३ तान्दृष्ट्वा ह्यमियेणास्य केशाः शीर्यन्त(?) धीमतः । शीतीष्णाश्चोच्छ्रिता ह्यूर्ध्वं तदाऽरोहन्त तं प्रभुम् हीना मच्च्छिरसो व्याला यस्माच्चैवापसर्पिताः । ( ÷व्यालात्मानः स्मृता व्याला हीनत्वादहयः स्मृताः ॥ ३५ पन्नत्वात्पन्नगाश्चैव सर्पाश्चैवापसर्पिणः । ) तेषां पृथिव्यां निलयाः सूर्याचन्द्रमसोरधः ॥ ३६ तस्य क्रोधोद्भवो योऽसावग्निगर्भसुदारुणः । स तु सर्पसहोत्पन्नानाविवेश विषात्मकान् ॥ ३७ सर्पान्सृष्ट्वा ततः क्रोधात्क्रोधात्मा(त्म)नो विनिर्ममे । वर्णेन कपिशेनोम्रास्ते भूताः पिशिताशनाः॥ ३८ भूतत्वात्ते स्मृता भूताः पिशाचाः पिशिताशनात् । धयन्तो गांस्ततस्तस्य गन्धर्वा जज्ञिरे तदा ॥ ३९ धयतीत्येष धातुर्वै पानार्थे परिपठ्यते । पिबन्तो जज्ञिरे गास्तु गन्धर्वांस्तेन ते स्मृताः ॥ ४०
*एतच्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतश्लोको न दृश्यते ख.ग.घ.पुस्तकेषु ।
[अ० ९ श्लो० ४१-७०] वायुपुराणम् ३३ (देवादिसृष्टिकथनम्) अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः । ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥ ४१ छाद्यतस्तानि च्छन्दांसि वयसोऽपि वयांस्यपि । शून्यान्दृष्ट्वा तु देवो वै सृजत्पक्षिगणानपि ॥ ४२ मुखतोऽजान्ससर्जाथ वक्षसश्च वयोऽसृजत् । गाश्चैवाथोदराद्वह्वा पार्श्वभ्यां च विनिर्ममे ॥ ४३ पद्भ्यां चाश्वान्समातङ्गाञ्छरभानन्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव ताश्चान्याश्चैव जातयः ॥ ४४ ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे । एवं पशूषधीः सृष्ट्वा न्ययुङ्क्तसोऽध्वरे प्रभुः ॥ ४५ तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा । गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्दभौ ॥ ४६ एतान्याम्यान्पशूनाहुरारण्यांश्च निबोधत । श्वापदा द्विखुरो हस्ती वानरः पक्षिषञ्चमाः ॥ ४७ उन्दुकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः । गायत्रं वरुणं चैव त्रिवृत्सौम्यं रथंतरम् ॥ ४८ अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् । छन्दांसि त्रैष्टुभं चैम स्तोमं पञ्चदशं तथा ॥ ४९ बृहत्साममथोक्यंथं च दक्षिणात्सोऽसृजन्मुखात् । (*सामानि जगती छन्दःस्तोमं पञ्चदशं तथा ॥ ५० वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ।) एकविंशमथर्वाणमापोर्यामाणमेव च ॥ ५१ अनुष्टुभं संवैराजमुत्तरादसृजन्मुखात् । विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ ५२ वयांसि च ससर्ज्जाऽऽदौ कल्पस्य भगवानन्प्रभुः । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ५३ ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः । सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन्प्रजाः ॥ ५४ ततः सृजति भूतानि स्थावराणि चराणि च । यक्षान्पिशाचान्गन्धर्वास्तथैवाप्सरसां गणान् ॥ ५५ नरकिंनररक्षांसि वयःपशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ ५६ तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ५७ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ५८ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ॥ ५९ केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः । दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः ॥ ६० पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । न चैकं न पृथग्भावमधिकं न तयोर्विदुः ॥ ६१ एतदेवं(कं) च नैकं च न चोभे न च वाऽप्युभे । कर्मस्थान्विषयान्ब्रूयुः सत्त्वस्था समदर्शिनः ॥ ६२ नाम रूपं च भूतानां कृतनां च प्रपञ्चनम् । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः ॥ ६३ ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः ॥ ६४ यथर्तार्ट्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६५ एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना । शर्वर्यन्ते प्रदश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥ ६६ एवं भूतानि सृष्टानि चराणि स्थावराणि च । यदाऽस्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ ६७ अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् । भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसं तथा ॥ ६८ मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम् । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ ६९ तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम् । ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्सम्भवम् ॥ ७०
* धनुश्चिह्नान्तग्रन्थो घ. पुस्तके नास्ति ।
५
३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०९श्लो०७१-१००] ( देवादिसृष्टिकथनम् )
संकल्पं चैव धर्मं च पूर्वेषामपि पूर्वजः । अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ७१ सनन्दनं ससनकं विद्वांसं च सनातनम् । सनत्कुमारं च विभुं सनकं च सनन्दनम् ॥ ७२ न ते लोकेषु सज्जन्ते निरपेक्षाः सनातनाः । सर्वे ते ह्यागतज्ञाना वीतरागा विमत्सराः ॥ ७३ तेष्वेवं निरपेक्षेषु लोकवृत्तानुकारणात् । हिरण्यगर्भो भगवान्परमेष्ठी ह्यचिन्तयत् ॥ ७४ तस्य रोषात्समुत्पन्नः पुरुषोऽर्कसमद्युतिः । अर्धनारीनरवपुस्तेजसा ज्वलनोपमः ॥ ७५ सर्वं तेजोमयं जातमादित्यसमतेजसम् । विभजाऽऽत्मानमित्युक्त्वा तत्रैवान्तरधीयत ॥ ७६ एवमुक्त्वा द्विधा भूतः पृथक्स्त्री पुरुषः पृथक् । स चैकादशधा जज्ञे अर्धमात्मानमीश्वरः ॥ ७७ तेनोक्तास्ते महात्मानः सर्व एव महात्मना । जगतो बहुलीभावमधिकृत्य हितैषिणः ॥ ७८ लोकवृत्तान्तहेतोर्हि प्रयतध्वमतन्द्रिताः । विश्वं विश्वस्य लोकस्य स्थापनाय हिताय च ॥ ७९ एवमुक्तास्तु रुरुदुर्दद्रुवुश्च समन्ततः । रोदनाद्द्रवणाच्चैव रुद्रा नाम्नेति विश्रुताः ॥ ८० यैर्हि व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् । तेषामनुत्तरा लोके सर्वलोकपरायणाः ॥ ८१ नैकनागायुतबला विक्रान्ताश्च गणेश्वराः । तत्र या सा महाभागा शंकरस्यार्धकायिनी ॥ ८२ प्रागुक्ता न मया तुभ्यं स्त्री स्वयंभोर्मुखोद्गता । कायार्धं दक्षिणं तस्याः शुक्लं वामं तथाऽसितम् ॥ ८३ आत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा । सा तु प्रोक्ता द्विधा भूता शुक्ला कृष्णा च वै द्विजाः॥ तस्या नामानि वक्ष्यामि शृणुध्वं सुसमाहिताः । स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती ॥ ८५ अपर्णा चैकपर्णा च तथा स्यादेव पाटला । उमा हैमवती षष्ठी कल्याणी चैव नामतः ॥ ८६ ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता । विश्वरूपमथाऽऽर्यायाः पृथग्देहविभावनाव् ॥ ८७ शृणु संक्षेपतस्तस्या यथावदनुपूर्वशः । प्रकृतिर्नियता रौद्री दुर्गा भद्रा प्रमाथिनी ॥ ८८ कालरात्रिर्महामाया रेवती भूतनायिका । द्वापरान्तविकारेषु देव्या नामानि मे शृणु ॥ ८९ गौतमी कौशिकी आर्या चण्डी कात्यायनी सती । कुमारी यादवी देवी वरदा कृष्णपिङ्गला ॥ ९० बर्हिर्ध्वजा शूलधरा परमब्रह्मचारिणी । माहेन्द्री चेन्द्रभगिनी वृषकन्यैकवाससी ॥ ९१ अपराजिता बहुभुजा प्रगल्भा सिंहवाहिनी । एकानंसा ( शा ) दैत्यहनी माया महिषमर्दिनी ॥ ९२ अमोघा विन्ध्यनिलया विक्रान्ता गणनायिका । दैवीनामविकाराणि इत्येतानि यथाक्रमम् ॥ ९३ भद्रकाल्यास्तथोक्तानि देव्या नामानि तत्त्वतः । ये पठन्ति नरास्तेषां विद्यते न पराभवः ॥ ९४ अरण्ये प्रान्तरे वाऽपि पुरे वाऽपि गृहेऽपि वा । रक्षामेतां प्रयुञ्जीत जले वाऽपि स्थलेऽपि वा ॥ ९५ व्याघ्रकुम्भीरचौरेभ्यो भूतस्थाने विशेषतः । आधिष्वपि च सर्वासु ( वैषु ) देव्या नामानि कीर्तयेत् ॥ ९६ अर्भकग्रहभूतैश्च पूतनामातृभिः सदा । अभ्यार्दितानां बालानां रक्षामेतां प्रयोजयेत् ॥ ९७ महादेवी कुले द्वे तु प्रज्ञा श्रीश्च प्रकीर्त्यते । आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत् ॥ ९८ साऽसृजद्व्यवसायं तु धर्मं भूतसुखावहम् । संकल्पं चैव कल्पादौ जज्ञिरेऽव्यक्तयोनितः ॥ ९९ मानसश्च रुचिर्नाम विज्ञेयो ब्रह्मणः सुतः । प्राणास्त्वादसृजद्दक्षं चक्षुर्भ्यां च मरीचिनम् ॥ १००
[अ० १० श्लो० १] वायुपुराणम् । ३५ ( मन्वन्तरवर्णनम् )
भृगुस्तु हृदयाज्जज्ञे ऋषिः सलिलजन्मनः । शिरसोऽङ्गिरसं चैव श्रोत्रादत्रिस्तथैव च ॥ १०१ पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः । समानजं वशिष्ठं तु अपानान्निर्ममे क्रतुम् ॥ १०२ अभिमानात्मकं भद्रं निर्ममे नीललोहितम् । इत्येते ब्रह्मणः पुत्राः प्राणजा द्वादश स्मृताः ॥ १०३ इत्येते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः । भृग्वादयस्तु ये सृष्टा नवैते ब्रह्मवादिनः ॥ १०४ गृहमेधिनः पुराणास्ते धर्मस्तैः प्राक्प्रवर्तितः । द्वादशैते प्रवर्तन्ते सह रुद्रेण वै प्रजाः ॥ १०५ ऋभुः सनत्कुमारस्तु द्वावेतावृर्ध्वरेतसौ । पूर्वोत्पन्नौ पुरा तेभ्यः सर्वेषामपि पूर्वजौ ॥ १०६ व्यतीते प्रथमे कल्पे पुराणे लोकसाधकौ । वैराजे तावुभौ लोके तेजः संक्षिप्य चाऽऽस्थितौ ॥ १०७ तावुभौ योगधर्माणामारोप्याऽऽत्मानमात्मनि । प्रजाधर्मं च कामं च वर्तयेतां महौजसौ ॥ १०८ यथोत्पन्नस्तथैवेह कुमार इति चोच्यते । तस्मात्सनत्कुमारोऽयमिति नामास्य कीर्तितम् ॥ १०९ तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः । क्रियावन्तः प्रजावन्तो महर्षिभिरलंकृताः ॥ ११० इत्येष करणोद्भूतो लोकान्सृष्टुं स्वयंभुवः । महदादिविशेषान्तो विकारः प्रकृतेः स्वयम् ॥ १११ चन्द्रसूर्यप्रभालांको ग्रहनक्षत्रमण्डितः । नदीभिश्च समृद्धैश्च पर्वतैश्च समावृतः ॥ ११२ पुरैश्च विविधाकारैः प्रीतैर्जनपदैस्तथा । तस्मिन्ब्रह्मवनेऽव्यक्ते ब्रह्मा चरति शर्वरीम् ॥ ११३ अव्यक्तबीजप्रभवस्तस्यैवानुग्रहोत्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥ ११४ महाभूतप्रशाखश्च विशेषैः पत्रवांस्तथा । धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥ ११५ आजीवः सर्वभूतानामयं वृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य ह ॥ ११६ अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम् । इत्येषोऽनुग्रहः सर्गो ब्रह्मणः प्राकृतस्तु यः ॥ ११७ मुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः । त्रैकाले समवर्तन्त ब्रह्मणस्तेऽभिमानिनः ॥ ११८ सर्गाः परस्परस्याथ कारणं ते बुधैः स्मृताः । दिव्यौ सुपर्णौ सयुजौ सशाखौ पटाविद्रुमौ ॥ एकस्तु यो द्रुमं वेत्ति नान्यः सर्वात्मनस्ततः ॥ ११९ द्यौर्मूर्धानं यस्य विप्राः स्तुवन्ति खं नाभिर्वै चन्द्रसूर्यौ च नेत्रे ॥ दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूतप्रसूतिः ॥ १२० वक्त्रादस्य ब्राह्मणाः संप्रसूता यद्वक्षस्तः क्षत्रियाः पूर्वभागे ॥ वैश्याश्चोरोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥ १२१ महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाज्जज्ञे पुनर्ब्रह्मा येन लोकाः कृतास्त्विमे ॥ १२२
इति श्रीमहापुराणे वायुप्रोक्ते देवादिसृष्टिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥ आदितः श्लोकानां समष्ट्यङ्काः--९०८
अथ दशमोऽध्यायः ।
मन्वन्तरवर्णनम् ।
सूत उवाच-- एवं भूतेषु लोकेषु ब्रह्मणा लोककर्तृणा । यदा ता न प्रवर्तन्ते प्रजाः केनापि हेतुना ॥ १
३६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० श्लो० २-३१] (मन्वन्तरवर्णनम्)
तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ २ अथाऽऽत्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् । राजसत्वं पराजित्य वर्तमानं च धर्मतः ॥ ३ तप्यते तेन दुःखेन शोकं चक्रे जगत्पतिः । तमश्च व्यनुदत्तस्माद्रजस्तसमावृणोत् ॥ ४ तत्तमः प्रतिनुन्नं वै मिथुनं स व्यजायत । अधर्माच्चचरणाज्जज्ञे हिंसा शोकादजायत ॥ ५ ततस्तस्मिन्समुद्भूते मिथुने चरणात्मनि । ततश्च भगवानासीत्प्रीतश्चैवमाशिश्रियत् ॥ ६ स्वां तनुं स ततो ब्रह्मा तामपो(पो)हदभास्वराम् । द्विधाऽकरोत्स तं देहमर्धेन पुरुषोऽभवत् ॥ ७ अर्धेन नारी सा तस्य शतरूपा व्यजायत । प्रकृतां भूतधात्रीं तां कामान्वै सृष्टवान्विभुः ॥ ८ सा दिवं पृथिवीं चैव महिम्ना व्याप्य धिष्ठिता । ब्रह्मणः सा तनुः पूर्वा दिदमावृत्य तिष्ठति ॥ ९ या त्वर्धात्सृजते नारी शतरूपा व्यजायत । सा देवी नियुतं तप्त्वा तपः परमदुश्चरम् ॥ १० भर्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत । स वै स्वायंभवः पूर्वं पुरुषो मनुरुच्यते ॥ ११ तस्यैकसमतियुगं मन्वन्तरमिहोच्यते । लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १२ तया स रमते सार्थं तस्मात्सा रतिरुच्यते । प्रथमः संप्रयोगः स कल्पादौ समवर्तत ॥ १३ विराजमसृजद्ब्रह्मा सोऽभवत्पुरुषो विराद् । स सम्राट्शतरूपात्तु वैराजस्तु मनुः स्मृतः ॥ १४ स वैराजः प्रजासर्गः स सर्गे पुरुषो मनुः । वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ॥ १५ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ । कन्ये द्वे च महाभागे याभ्यां जाताः प्रजास्त्विमाः ॥ १६ देवी नाम्ना तथाऽऽकूतिः प्रसूतिश्चैव ते शुभे । स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः ॥ १७ (+प्राणो दक्षस्तु विज्ञेयः संकल्पो मनुरुच्यते । रुचेः प्रजापतेश्चैव आकुतिं प्रत्यपादयत् ॥ १८ आकृत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणा चैव यमकौ संबभूवतुः ॥ १९ यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायंभुवेऽन्तरे ॥ २० यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः । अजिताश्चैव शूकाश्च गणौ द्वौ ब्रह्मणः स्मृतौ ॥ २१ यामाः पूर्वं परिक्रान्ता यतः संज्ञा दिवौकसः । स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ २२ तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वनयत्प्रभुः । सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ॥ २३ योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः । *सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः ॥ २४ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिलज्जा वपुःशान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ २५ पत्न्यार्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः । दाराण्येतानि चैवास्य विहितानि स्वयंभुवा ॥ २६ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २७ संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा । तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः ॥ २८ रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः । पुलस्त्योऽत्रिवशिष्ठश्च पितरोऽग्निस्तथैव च ॥ २९ सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा । मरीचये च संभूतिं स्मृतिमाङ्गिरसे ददौ ॥ ३० प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च । क्रतवे संनतिं नाम अनसूयां तथाऽत्रये ॥ ३१
- धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । * इदमर्धं नास्ति क. पुस्तके ।
एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३
[अ० १० श्लो० ३२-५९]
वायुपुराणम्
३७
( मन्वन्तरवर्णनम् )
ऊर्जां ददौ वसिष्ठाय स्वाहां वै हव्यये ददौ । स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते (?) ॥ ३२
एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ ३३
श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ३४
पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ॥ ३५
बुद्धेर्बोध सुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वयोः सुतः ॥ ३६
क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत । यशः कीर्तेः सुतश्चापि इत्येते धर्मसूनवः ॥ ३७
कामस्य हर्षः पुत्रो वै देव्यां रत्यां व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ ३८
जज्ञे हिंसा त्वधर्मार्द्धे निकृतिश्चानृतावुभौ । निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ ३९
माया च वेदना चापि मिथुनद्वयमेतयोः । भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ॥ ४०
वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिर्जरा शोकः क्रोधोऽसूया च जज्ञिरे ॥ ४१
दुःखान्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्याऽस्ति पुत्रो वा सर्वे ह्यनिधनाः स्मृताः ॥ ४२
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीलोहितः ॥ ४३
सोऽभिध्याय सतीं भार्यां निर्ममे ह्यात्मसंभवान् । नाधिकान्न च हीनांस्तान्मानसानात्मनः समान् ॥ ४४
सहस्रं हि सहस्राणामसृजत्क्वातिवाससाम् । तुल्यांश्चैवाऽऽत्मनः सर्वे रूपतेजोबलश्रुतैः ॥ ४५
पिङ्गलांस्संनिषङ्गानां सकपर्दान्विलोहितान् । विवासान्हरिकेशांश्च दृष्टिघ्नांश्च कपालिनः ॥ ४६
बहुरूपान्विरूपांश्च विश्वरूपांश्च रूपिणः । रथिनो वर्मिणश्चैव चर्मिणश्च वरूथिनः ॥ ४७
सहस्रशतबाहूंश्च दिव्यान्भौमान्तरिक्षगान् । स्थूलशीर्षान्ह्रषदंष्ट्रान्विजह्वांस्त्रिलोचनान् ॥ ४८
अन्नादान्पिशितादांश्च आज्यपांन्सोमपांस्तथां । मेढ्रांश्चार्तिकायांश्च शितिकण्ठोग्रमन्यवः ॥ ४९
सोपासङ्गत्वलत्रांश्च धन्विनो ह्यपवर्मिणः । आसीनान्धावतश्चैव जृम्भिनश्चैव धिष्ठितान् । ५०
अध्यापिनोऽथ जपतो युञ्जतो ध्यायतरस्तथा । ज्वलतो वर्षतश्चैव द्योतमानानधूपितान् ॥ ५१
बुद्धान्बुद्ध्यतमांश्चैव बलिष्ठाञ्शुभदर्शनान् । नीलग्रीवान्सहस्राक्षान्सर्वाश्चाथ क्षपाचरान् ॥ ५२
अदृश्यान्सर्वभूतानां महायोगान्महौजसः । रुदतो द्रवतश्चैव एवं युक्तान्सहस्रशः ॥ ५३
अयातयामानसृजद्रूपान्सुरोत्तमान् । ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मा साक्षीरीदृशीः प्रजाः ॥ ५४
स्रष्टव्या नाऽऽत्मनस्तुल्या प्रजा नैवाधिकास्त्वया । अन्याःसृज त्वं भद्रं ते (*प्रजा वै मृत्युसंयुताः
नाऽऽरप्स्यन्ते हि कर्माणि प्रजा विगतमृत्यवः । एवमुक्तोऽब्रवीदेनं नाहं मृत्युसमन्विताः ॥ ५६
प्रजाः स्रक्ष्यामि भद्रं ते ) स्थितोऽहं त्वं सृज प्रजाः । एते ये वै मया सृष्टा विरूपा नीलोहिताः
सहस्राणां सहस्रं तु आत्मनोपमानिश्चिताः । एते देवा भविष्यन्ति रुद्रा नाम महाबलाः ॥ ५८
पृथिव्यामन्तरिक्षे च रुद्रनाम्ना प्रतिश्रुताः । शतरुद्रसमाम्नाता भविष्यन्तहि यज्ञियाः ॥ ५९
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।