भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

ज्येष्ठा पत्नी महाभागा दयिताऽनकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशठं तथा ॥ १६२

३५२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१६-श्लो०१५८-१८२] ( विष्णुवंशकथनम् )

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः । यः पुराऽऽसीद्दशग्रीवः संबभूवारिमर्दनः ॥ १५८ पटुश्चवानुजस्तस्य रुजकन्यान्‌नुजस्तथा । पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ १५९ पौरवी रोहिणी चैव मदिरा चापरा तथा । तथैव भद्रा वैशाखी देवकी सप्तमी तथा ॥ १६० सुगन्धिवंनराजी च द्वे चान्ये परिचारिके । रोहिणी पौरवी चैव वाल्मीकस्याऽऽत्मजाऽभवत् ॥ १६१ ज्येष्ठा पत्नी महाभागा दयिताऽनकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशठं तथा ॥ १६२ दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ । चित्रां नाम कुमारीं च रौहिणेयौ व्यजायत ॥ १६३ पौत्रौ रामस्य जज्ञाते विज्ञाता निशितोत्सुकौ । पार्श्वी च पार्थनन्दी च शिशुः सत्यधृतिस्तथा ॥ १६४ मन्दवाक्षोऽथ रामाणगिरिकौ गिर एव च । शुक्लगुल्मोति गुल्मश्च दरिद्रान्तक एव च ॥ १६५ कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत । अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ १६६ तथा शतबला चैव सारणस्य सुतास्त्विमाः । भद्राश्वो भद्रगुप्तिश्च [* भद्रविद्यस्तथैव च ॥ १६७ भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च । सुपार्थकः कीर्तिमांश्च ] रोहिताश्वश्च भद्रजः ॥ १६८ दुर्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा चलः ॥ १६९ चित्रोपचित्रे कन्ये च स्थितः पुष्टिरथापरः । मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ॥ १७० उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ । चत्वार एते विख्याता भद्रपुत्रा महाबलाः ॥ १७१ वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम् । देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ॥ १७२ तदयो भद्रसेनश्च यजुदायश्च पञ्चमः । षष्ठो भद्रविदेकस्य कंसः सर्वाञ्जघान तान् ॥ १७३ अथ तस्यामवस्थायामायुष्मान्संबभूव ह । लोकनाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ॥ १७४ अनुजाताऽभवत्कृष्णा सुभद्रा भद्रभाषिणी । कृष्णा सुभद्रेति पुनर्वाख्याता वृष्णिनंदिनी ॥ १७५ सुभद्रायां रथी पार्थादभिमन्युरजायत । वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ ये पुत्रा जज्ञिरे शूरा नामस्तान्निबोधत ॥ १७६ अतोऽस्य सहदेवायां शूरो जज्ञे मयासखः । शार्ङ्गदेवाऽजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ॥ १७७ उपसङ्गं वसुं चापि तनयौ देवरक्षितौ । एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ॥ १७८ विजयं रोचनं चैव वर्धमानं तथैव च । एतान्सर्वान्महाभागानुपदेवा व्यजायत ॥ १७९

  • स्वगाहवं महात्मानं वृकदेवी त्वजायत । आगाही च स्वसा चैव सुरूपा शिशिरायिणी ॥ १८० सप्तमं तेवकी पुत्रं सुनासा सुषुवे भुवम् । गवेषणं महाभागं सङ्ग्रामे चित्रयोधिनम् ॥ १८१ श्राद्धदेवं पुरा येन वनं विरचितं द्विजाः । सैव्यायामददाच्छौरिः पुत्रं कौशिकमव्ययम् ॥ १८२

* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति । + इदमर्धं नास्ति ख. घ. पुस्तकयोः ।

[अ०९६श्लो०१८३-२०५] वायुपुराणम् । ३५३ (विष्णुवंशकथनम्) सुगन्धी व(न्धर्व)नराजी च शौरेरास्तां परिग्रहः। पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ॥ तयोराजाऽभवत्पुण्ड्रः कपिलस्तु वनं ययौ॥ १८३ तस्यां समभवद्वीरो वसुदेवात्मजो बली। राजा नाम निषादोऽसौ प्रथमः स धनुर्धरः॥ १८४ विख्यातो देवरातस्य महाभागः सुतोऽभवत्। पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्॥ १८५ अश्मक्यां लभते पुत्रमनाधृष्टिं यशस्विनम्। निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम्॥ १८६ आजायत श्राद्धदेवो निषधादिर्यतः श्रुतः। एकलब्यो महावीर्यो निषादैः परिवर्धितः॥ १८७ गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ। चारुदेष्णं च साम्बं च कृतास्त्रौ शस्तलक्षणौ॥ १८८ तान्तिजस्तान्तिमालश्च स्वपुत्रौ कनकस्य तु। *वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्॥ सौतिर्दीदौ सुतं वीरं शौरिं कौशिकमेव च॥ १८९ तपाश्च क्रोधनुश्चैव विरजाः श्यामसूजिमौ। अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ॥ जुगुप्समानो भोजत्वं राजर्षित्वमवामुयात्॥ १९० +य इदं जन्म कृष्णस्य पठेत् नियतव्रतः। श्रावयेद्ब्राह्मणश्चापि सुमहत्सुखमवाप्नुयात्॥ १९१ देवदेवो महातेजाः पूर्वे कृष्णः प्रजापतिः। विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः॥ १९२ देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुस्तु संजज्ञे दिव्यरूपः श्रियाऽन्वितः॥ १९३ प्रकाशो भगवान्योगी कृष्णो मानुषमागतः। अव्यक्तो व्यक्तलिङ्गस्थः स एव भगवान्प्रभुः॥ १९४ नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः। देवो नारायणे भूत्वा हरिरासीत्सनातनः॥ १९५ योऽसृजच्चाऽऽदिपुरुषं पुरा चक्रे प्रजापतिम्। अदितेरपि पुत्रत्वमेव यादवनन्दनः॥ देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत्॥ १९६ प्रसादजं यस्य विभोरादित्याः पुत्रकारणम्। वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्॥ १९७ ययातिवंशजस्याथ वसुदेवस्य धीमतः। कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः॥ १९८ सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने॥ १९९ शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः। ज्योतींष्यभ्यधिकं रेजुर्गार्यमाने जनार्दने॥ २०० अभिजिन्नार्म नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्तो विजयो नाम यत्र जातो जनार्दनः॥ २०१ अव्यक्तः शाश्वतः कृष्णो हरिनारायणः प्रभुः। जायते स्मैव भगवान्यनैर्मोहियन्प्रजाः॥ २०२ आकाशात्पुष्पवृष्टिश्च ववर्ष त्रिदशेश्वरः। गीर्भिर्मङ्गल्युक्ताभिः स्तुवन्तो मधुसूदनम्॥ महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः॥ २०३ वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः॥ उवाच वसुदेवः स्वं रूपं संहर वै प्रभो॥ २०४ भीतोऽहं कंसतस्तात एतदेव ब्रवम्यिहम्। मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भूतदर्शनाः॥ २०५


* वस्तावनेरिति संप्रदानार्थे षष्ठी। + नायं श्लोको घ. पुस्तके।

४५

३५४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१६श्लो०२०६-२२५] (विष्णुवंशकथनम्)

वसुदेववचः श्रुत्वा रूपं संहृतवान्प्रभुः । अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः ॥
उग्रसेनमते तिष्ठन्यशोदायै तदा ददौ ॥ २०६
तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा । यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २०७
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः । तामेव रजनी कन्यां यशोदाऽपि व्यजायत ॥ २०८
तं जातं रक्षमाणस्तु वसुदेवो महायशाः । पादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २०९
दत्त्वैनं नन्दगोपस्य रक्ष मामिति चाब्रवीत् । सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥
अयं स गर्भो देवक्या अस्मत्क्लेशान्हानयिष्यति ॥ २१०
उग्रसेनात्मजे तां च कन्यामानकदुन्दुभिः । निवेदयामास तदा कन्येति शुभलक्षणा ॥ २११
+ स्वसायां तनयां कंसो जातां नैवावधारयत् । अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ॥
हता वै या यदा कन्या जप्त्येष वृथामतिः । कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ॥ २१३
पुत्रवत्पाल्यान्तो देवा देवान्यथा तदा(?) । तामेव विधिनाऽत्पन्नामाहुः कन्यां प्रजापतिम् ॥ २१४
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह । तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः ॥
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २१५

ऋषय ऊचुः-
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः । जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २१६

सूत उवाच-
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः । जाताञ्जाताञ्शिशून्सर्वान्निष्पिपेषा वृथामतिः ॥ २१७
भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः । तथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २१८
उक्तं हि किल देवक्या वसुदेवरय धिमतः । सारथ्यं कृतवान्कंसो युवराजस्तदाऽभवत् ॥ २१९
ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्याचित् । कंसो यथा सदा भीतः पुष्कला लोकसाक्षिणी ॥
यामेतां वहसे कंस रथेन परकारणात् । अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ॥ २२१
तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः । निष्क्रम्य(ष्कृष्य)खड्गं तां कन्यां हन्तुकामोऽभवत्तदा
तमुवाच महाबाहुर्वसुदेवः प्रतापवान् । उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ॥ २२३
न स्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन । उपायः परिदृष्टोऽत्र मया यादवन्दन ॥ २२४
योऽस्याः संभवते गर्भः सप्तमः पृथिवीपते । तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २२५


+ अयं प्रयोगश्चाऽऽर्षः ।

[अ० ९६ श्लो० २२६-२४८] वायुपुराणम्। ३५५ ( विष्णुवंशकथनम् )

त्वं त्विदानीं यथेष्टत्वं वर्तथा भूरिदक्षिण। सर्वानिस्यास्तु वै गर्भान्सत्यं नेष्यामि ते वशम्॥ २२६ एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति। एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा॥ २२७ वसुदेवश्च तां भार्यामाप्य मुदितोऽभवत्। कंसश्चास्यावधीत्पुत्रानपाकर्मा वृथामतिः॥ २२८

ऋषय ऊचुः-- क एष वसुदेवश्च देवकी च यशस्विनी। नन्दगोपस्तु कस्त्वेष यशोदा व महायशाः॥ यो विष्णुं जनयामास या चैनं चाभ्यवर्धयत्॥ २२९

सूत उवाच-- पुरुषः कश्यपस्याऽऽसन्नादित्यास्तु स्त्रियस्तथा। अथ कामान्महाबाहुर्देवकयाः समवर्धयत्॥ २३० अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम्। मोहयन्सर्वभूतानि योगात्मा योगमायया॥ २३१ नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्। कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्॥ २३२ अरहता रुक्मिणी कन्या सत्या नग्नजितस्तदा। सत्राजिती सत्यभामा जाम्बवत्यपि रोहिणी॥ सै(शै) व्या सुदेवी माद्री च सुशीला नाम चापरा। कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी॥ एवमादीनि देवीनां सहस्राणि च षोडश। चतुर्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि॥ विचिन्त्य देवैः शक्रेण विशिष्ठास्स्विह प्रेषिताः॥ २३५ पत्‍न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु। एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः॥ २३६ प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा। चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः॥ २३७ चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा। सानुभानुस्तथाऽक्षश्च रोहितो मन्त्रयस्तथा॥२३८ जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः। चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्॥ २३९ भानुर्भामरिका चैव ताम्रपर्णी जरन्धमाः। सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः शृणु॥ २४० भद्रश्च भद्रगुप्तश्च भद्रविन्दस्तथैव च। सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा॥ संबोधनी च विख्याता ज्ञेया जाम्बवतीसुता॥ २४१ सङ्ग्रामजिच्च शताजित्तथैव च सहस्रजित्। एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्तिताः॥ २४२ वृको वृकथो वृकाजिद्वृजिनी च सुराङ्गना। मित्रबाहुः सुनाथिश्च नाग्नजित्याः प्रजास्त्विह॥ २४३ एवमदीनि पुत्राणां सहस्राणि निबोधत। प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः॥ २४४ अयुतानि तथाऽष्टौ च शूरा रणविशारदाः। जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम्॥ २४५ बृहती नर्तकोन्निथी सुनये सङ्गता तथा। कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः॥ २४६ तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः। अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च॥ अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः। चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा॥ २४८

३५६श्रीमद्वैपायनमुनिप्रणीतम्—[अ०९६-९७श्लो०२४९-२५८।१-७]
( विष्णुमाहात्म्यकथनम् )

तुम्ब्वश्च तुम्बवाणश्च जनस्तम्बश्च तावुभौ । उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिम्र एव च ॥ २४९
* भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ । युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥ २५०
तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः । वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चाऽऽत्मजः ॥ २५१
काश्या सुपार्श्व तनयं जज्ञे साम्बा तरस्विनम् । तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥
षष्टिशतसहस्राणि वीर्यवन्तो महाबलाः । देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥ २५३
दैवासुरे हता ये च असुरा वै महातपाः । इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ॥
तेषामुत्सादनार्थं तु उत्पन्ना यादवे कुले ॥ २५४
कुलानि दश चैकं च यादवानां महात्मनाम् । सर्वमेककुलं यद्वर्त्तते वैष्णवे कुले ॥ २५५
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिभिस्तस्य बध्यन्ते सर्वमानुषाः ॥ २५६
इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः । कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिंमभीप्सिताम् ॥ १५७
+ य इमं कृष्णवंशस्य सुचरित्रस्य धीमतः । स्वर्गापवर्गदं श्रेष्ठं महापातकनाशनम् ॥
अपुत्रो लभेत पुत्रं वित्तार्थी वित्तमप्नुयात् ॥ २५८

इति श्रीमहापुराणे वायुप्रोक्ते धिष्ण्युवंशानुकीर्तनं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्टयङ्काः—८६९०


अथ सप्तनवतितमोऽध्यायः ।

विष्णुमाहात्म्यकीर्तनम् ।

× सूत उवाच--
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत । संकर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥ १
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्तिताः । सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥ २
शाल्की बद्रश्चैव विद्वान्धन्वन्तरिस्तथा । नन्दिनश्च महादेवः शालङ्कायन उच्यते ॥
आदिदेवस्तदा जिष्णूरोमिश्च सह दैवतैः ॥ ३

ऋषय ऊचुः--
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति वाऽन्ये तु प्रादुर्भावा महात्मनः ॥
ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ५
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः । श्रोतुमिच्छामहे सम्यग्देवैः कृष्णस्य धीमतः ॥ ६
कर्मणामानुपूर्व्यं च प्रादुर्भावाश्च ये प्रभोः । या चास्य प्रकृतिः सूत तां चास्मान्वक्तुमर्हसि ॥ ७


* इदमर्धन्नास्ति ग. पुस्तके. । + अयं सार्धश्लोकोऽधिकः ख. पुस्तके । × सूत उवाचेति नास्ति क. ग. घ. पुस्तकेषु ।

[ अ० ९७ श्लो० ८-३२] वायुपुराणम् । ३५७

( विष्णुमहात्म्यकथनम् )

कथं स भगवान्विष्णुः सुरेश्वरनिसूदनः । वसुदेवकुले धीमान्वासुदेवत्वमागतः ॥ ८ अमरैः सूत किं पुण्यं पुण्यकृद्भिरलं कृतम् । देवलोकं समुत्सृज्य मर्त्यलोकमिहाऽऽगतः ॥ ९ देवमानुषयोर्नेता भूर्वःप्रभवो हरिः । किमर्थं दिव्यमात्मानं मानुषे समावेशयत् ॥ १० यश्चक्रं वर्तयत्येको मनुष्याणां मयोमयम् । मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ११ गोपायनं यः कुरुते जगतां सार्वलौकिकम् । स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ॥ १२ महाभूतानि भूतात्मा यो दधार चकार ह । श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ १३ येन लोकान्क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशोप्सया । स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥ १४ योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः । लोकमेकार्णवे चक्रे दृश्यादृश्येन वर्त्मना ॥ १५ यः पुराणे पुराणात्मा वाराहं वपुरास्थितः । ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ॥ १६ येन सैंहं वपुः कृत्वा द्विधा कृत्वा च यत्पुनः । पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ १७ यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः । पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥ १८ सहस्रचरणं देवं सहस्रांशु सहस्रशः । सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ १९ नाभ्यारण्यां समुद्भूतं यस्य पैतामहं गृहम् । एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ २० येन ते निहता दैत्याः सङ्ग्रामे तारकामये । सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २१ गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः । उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ॥ यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ २२

पुरारणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् । शक्रं च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥ २३ यदाऽनिलो लोकपदानि हत्वा चकार दैत्यान्सलिलेशयांस्तान् । कृत्वाऽऽदिदेवस्त्रिदिवस्य देवांशक्रे सुरेशां पुरूहूतमेव ॥ २४

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । अग्निमाहवनीयं च वेदिं चैव कुशस्रुचम् ॥ २५ प्रोक्षणीयं स्रुवं चैव अवभृथ्यं तथैव च । अथ व्रीनिह यश्चक्रे हव्यभागप्रदान्मखे ॥ २६ हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि । भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २७ यूपान्समित्कुशं सोमं पवित्रं परिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांश्च तथाऽनलान् ॥ २८ सदस्यान्यजमानांश्च अश्वमेधान्क्रतूत्तमान् । विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा ॥ २९ युगानुरूपं यः कृत्वा त्रींल्लोकानिह यथाक्रमम् । क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥ ३० मुहूर्तास्तिथयो मासा दिनसंवत्सरं तथा । ऋतवः कालयोगाश्च प्रमाणं त्रिविधं नृषु ॥ ३१ आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् । मेधा वित्तं च शौर्यं च शास्त्रस्यैव च पारणम् ॥ ३२

(विष्णुमाहात्म्यकथनम्)

३५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० १७-श्लो० ३३-५६] (विष्णुमाहात्म्यकथनम्)

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः । त्रैकाल्यं त्रीणि कर्माणि तिस्रो मायास्त्रयो गुणाः ॥ सृष्टा लोकाः सुराश्चैव येनाऽऽनन्त्येन कर्मणा । सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ ३४ नृणामिन्द्रियपूर्वेण योगेन रमते च यः । गतागतानां यो नेता सर्वत्र विविधेध्वरः ॥ ३५ यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३६ चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ ३७ चन्द्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदाचरः । यः परः श्रूयते देवो यः परं श्रूयते तपः ॥ ३८ यः परं तपसः प्राहुर्यः परंपरमात्मवान् । आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ ३९ युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४० वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ ४१ मनुष्याणां मनोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ ४२ विग्रहो विग्रहाणां यो गतिर्गतिमदामपि । आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ ४३ देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः । रसाच्छोणितसंभूतिः शोणितान्मांसमुच्यते ॥ ४४ मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते । अस्थ्नो मज्जा संभवन्मज्जातः शुक्रसंभवः ॥ ४५ शुक्राद्गर्भः संभवद्वसमूलेन कर्मणा । * तथापि प्रथमं चाऽऽपस्ताः सौम्यराशिरुच्यते ॥ ४६ ÷गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्लं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ ४७ भावौ रसानुगावेतौ वीर्ये च शशिपावकौ । कफवर्गेऽभवच्छुक्लं पित्तवर्गे च शोणितम् ॥ ४८ कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ४९ नाभीकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ ५० पित्तमग्निः स्मृतावेतावग्निशोमात्मकं जगत् । एवं प्रवर्तितो गर्भो वर्ततेऽम्बुदसंनिभः ॥ ५१ वायुः प्रवेशं चक्रे सङ्गतः परमात्मना । स पञ्चधा शरीरस्थो विद्यते वर्धयेत्पुनः ॥ ५२ प्राणापानौ समानश्च उदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्धयन्परिवर्तते ॥ ५३ अपानः पश्चिमं कायमुदानोर्ध्वशरीरगः । व्यानो व्यानस्यते येन समानः सर्वसंधिषु ॥ ५४ भूतावाप्तस्ततस्तस्य जायते×न्द्रियगोचरा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ५५ सर्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे । पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥ ५६


* एतदर्धस्थाने तत्रापां प्रथमा चापः स सौम्यो राशिरुच्यत इति व. पुस्तके । ख. ग. ङ. पुस्तकेष्वेवैतत्सद्दश एव पाठा वर्तन्ते तेऽस्पष्टा इति नोल्लिखिताः । ÷अत्र संधिरार्षः । ×अत्र संधिरार्षः ।

[अ० ९७श्लो० ५७-७८] वायुपुराणम् । ३५९

(विष्णुमहात्म्यकथनम्)

छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुषित। ज्योत्स्ना तेषां यन्नामतः स्मृतम् ॥
सङ्ग्रामा विषयाश्चैव यस्य वीर्यात्प्रवर्त्तिताः* ॥ ५७
इत्येतान्पुरुषः सर्वान्सृजल्लोकान्सनातनः । नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ॥ ५८
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमत्तामापन्नो मानुषीं तनुम् ॥ ५९
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् । आश्चर्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥ ६०
विष्णोरुत्पत्तिमार्श्चर्यं कथयस्व महामते । एतदाश्चर्यमाख्यानं कथ्यतां वै सुखावहम् ॥ ६१
प्रख्यातबलवीर्यस्य प्रादुर्भावा महात्मनः । कर्मणाऽऽश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥ ६२

सूत उवाच--

अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः । यथा स भगवाञ्जातो मानुषेषु महातपाः ॥ ६३
सप्तसप्ततयः प्रोक्ता भृगुशापेन मानुषे । जायते च युगान्तेषु देवकार्यार्थसिद्धये ॥ ६४
तस्य दिव्यतनुं विष्णोर्गदता मे निबोधत । युगधर्मे परावृत्ते काले च शिथिले प्रभुः ॥ ६५
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ ६६

ऋषय ऊचुः--

कथं देवासुरकृते अध्याहारमवाप्नुयात् । एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम् ॥ ६७

सूत उवाच--

देवासुरं यथा वृत्तं ब्रुवतस्तन्निबोधत । हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति ॥ ६८
बलिनाऽधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् । सख्यमासीत्परं तेषां देवानामसुरैः सह ॥ ६९
युगं वै दशसंकीर्णमासीद्व्याहतं जगत् । निदेशस्थायिनश्चैव तयोर्देवासुरा+ऽभवन् ॥ ७०
बलवान्वै विवादोऽयं संप्रवृत्तः सुदारुणः । देवासुराणां च तदा घोरक्षयकरो महान् ॥ ७१
तेषां दायनिमित्तं वै सङ्ग्रामा बहवोऽभवन् । वराहेऽस्थिन्द्वश द्वौ च षण्डामर्कीन्तगाः स्मृताः ॥ ७२
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ७३
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः । सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥ ७४
षष्ठो ह्याडीवकस्तेषां सप्तमस्त्रैपुरः स्मृतः । अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥ ७५
वार्तश्च दशमो ज्ञेयस्ततो हालाहलः स्मृतः । स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥ ७६
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदतः । वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणं कृते ॥ ७७
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादिं तु दैवतैः । महाबलो महासत्त्वः सङ्ग्रामेष्वपराजितः ॥ ७८


* अत्र स्थल ऋषय ऊचुरित्याधिकं ख. पुस्तके । + अत्र संधिरार्षः ।

३६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७श्लो०७९-१००]
( विष्णुमहात्म्यकथनम् )

दंष्ट्रायां तु वराहेण समुद्राद्धैर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥ ७९
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः । इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥ ८०
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः । सङ्ग्रामे निहतः षष्ठे शक्राविष्टेन विष्णुना ॥ ८१
अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् । निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥ ८२
अष्टमे त्वसुराश्चैव राक्षसाश्चान्धकारकाः । जितदेवमनुष्यैस्तु पितृभिश्चैव संगतान् ॥ ८३
संवृतान्दानवांश्चैव संगतान्कृत्स्नशश्च तान् । तथा विष्णुसहायेन महेन्द्रेण निवारिताः ॥ ८४
हतो ध्वजो महेन्द्रेण मायाछन्नश्च योधयन् । ध्वजे लक्ष्यं समाविश्य विप्रचित्तिर्महाभुजः ॥ ८५
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान् । राज्ञिः कोलाहले सर्वान्देवैः परिवृतोऽजयत् ॥
यज्ञामृतेन विजितौ षण्डामर्को तु दैवतैः ॥ ८६
एते देवाः पुरा वृत्ताः सङ्ग्रामा द्वादशैव तु । देवासुरक्षयकराः प्रजानामशिवाय च ॥ ८७
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ । तथा शतसहस्राणि ह्यधिकानि द्विसप्ततिः ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ ८८
पर्याये तस्य राज्ञोऽनु बलिर्वर्षार्बुदं पुनः । षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च ॥ ८९
बले राज्याधिकारस्तु यावत्कालं बभूव ह । प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदाऽसुरैः ॥ ९०
इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ ९१
असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा । त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥ ९२
प्रह्लादस्य ततश्चादात्तैलोक्यं कालपर्ययात् । पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥ ९३
ततोऽसुरान्परित्यज्य यज्ञे देवा उपागमन् । यज्ञे देवानथं गते काव्यं ते ह्यसुराब्रुवन् ॥ ९४
हतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः । स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥ ९५
एवमुक्तोऽब्रवीदेतान्विष्णोः सांत्वयन्निगिरा । मा भैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥ ९६
वृष्टिरोषधयश्चैव रसा वसु च यद्द्द्यम् । कृत्स्ना मयि च तिष्ठन्तु पादस्तैषां सुरेषु वै ॥
युष्मदर्थं प्रदास्याम तत्सर्वं धार्यते मया ॥ ९७
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता । अमन्त्रयंस्तदा ते वै संविग्ना विजिगिषया ॥ ९८
एष काव्य इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं क्षीणानाप्याययस्व तान् ॥
प्रसह्य हत्वा शिष्टान्वै पातालं प्रापयामहे ॥ ९९
ततो देवाः सुसंरब्धा दानवानाभिसृत्य वै । जघ्नुस्तैर्बध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ १००

( विष्णुमाहात्म्यकथनम् )

[अ० ९७-श्लो० १०१-१२७] वायुपुराणम् । ३६१

( विष्णुमाहात्म्यकथनम् ) ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् । समरेऽस्वक्षतार्तांस्तान्देवेभ्यस्तान्दितेः सुतान् ॥ १०१ काव्यो दृष्ट्वा स्थितान्देवांस्तत्र देवोऽभ्यचिन्तयत् । तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ १०२ त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ १०३ महार्हेषु द्वादशसु सङ्ग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ १०४ किंचिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् । नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् यास्याम्यहं महादेवं यथार्थे विजयाय वः । अभिमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥ १०६ ततो यास्यामहं देवं मन्त्रार्थे नीललोहितम् । युष्माननुग्रहीष्यामि पुनः पश्चादिहाऽऽगतः ॥ १०७ यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने । न वै देवा वधिष्यन्ति यावदागमनं मम ॥ १०८ अप्रतीपांस्ततो मन्त्रान्देवान्प्राप्य महेश्वरात् । [*योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥ ततस्त कृतसंवादा देवानुचुस्ततोऽसुराः । न्यस्तवादा वयं सर्वे लोकान्यूयं क्रमन्तु वै ॥ ] ११० वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥ १११ ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह । न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जन्मैर्यथाऽऽगतान् ॥ ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यताम् । निरुत्सुकेस्तपोयुक्तैः कालं कार्यार्थसाधकैः ॥ पितुर्ममाऽऽश्रमस्था वै सर्वे देवाः सवासवाः ॥ ११३ स संदिश्यासुरान्काव्यो महादेवं प्रपद्य च । प्रणम्यैनमुवाचाथ जगत्प्रभवमीश्वरम् ॥ ११४ मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुरेष्वभयावहान् ॥ ११५ एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छासि वै द्विज । व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः ॥ ११६ पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः । यदि पास्यसि भद्रं ते मत्तो मन्त्रमवाप्स्यसि ॥ ११७ तथोक्तो देवदेवेन स शुक्रस्तु महातपाः । पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥ ११८ व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो । ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत ॥ ११९ असुराणा हितार्थाय तस्मिञ्छुके गते तदा । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ १२० तद्बुद्ध्वा नीतिपूर्वं तु राज्यं न्यस्तं तदाऽसुरैः । तस्मिंश्छिद्रे तदाऽमर्षाद्देवास्तान्सामभिद्रवन् + ॥ निशितातायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ १२१ दृष्ट्वाऽसुरगणा देवान्प्रगृहीतायुधान्पुनः । उत्पेतूः सहसा सर्वे संत्रस्तास्ते ततोऽभवन् ॥ १२२ न्यस्तशस्त्रे जये दत्ते आचार्ये व्रतमास्थिते । संत्यज्य समयं देवास्ते सपत्नान्जिघांसवः ॥ १२३ अनाचार्यांस्तु भद्रं वो विश्वस्तास्तपसि स्थिताः । चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥ रणे विजेतुं देवान्वै न शक्ष्यामः कथंचन । अशुद्धेन(?) प्रपद्यामः शरणं काव्यमातरम् ॥ १२५ ज्ञापयामः कृतस्मिदं यावनागमनं गुरोः । विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान्सुरान् ॥ १२६ एवमुक्त्वाऽसुरान्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥ १२७


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अडभाव आर्षः ।

४६

३६२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७ श्लो० १२८-१५४]

( विष्णुमाहात्म्यकथनम् )

दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ॥ १२८ मत्संनिधौ वर्ततां वो न भर्मिर्विनुमर्हति । भयाच्चाप्याभिपन्नांस्तान्दृष्ट्वा देवासुरांस्तदा ॥ १२९ जभिजघ्नुः प्रसह्यैतानाविचार्य बलाबलम् । तांस्त्रस्तान्वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ १३० देवी क्रुद्धाब्रवीदेनान्अनिद्रत्वं करोम्यहम् । संस्तम्भ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ १३१ ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु यूपवत् । व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ १३२ गतेषु सुरसंघेषु विष्णुमिन्द्रमभाषत । मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ॥ १३३ एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ १३४ एषा त्वां विष्णुना सार्धं दहामि मघवानिव(?) । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ १३५ तथाऽभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः । कथं मुच्येव सहितौ विष्णुमिन्द्रमभाषत ॥ १३६ इन्द्रोऽब्रवीज्जहीह्येनां यावन्नौ न दहेद्विभो । विशेषाणाभिभूतोऽहमतस्त्वं जहि मा चिरम् ॥ १३७ ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्तुमास्थितः । अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ १३८ तस्याः सत्वरमणायाः शीघ्रकारी सुरारिहा । स्त्रिया विष्णुस्ततो देव्याः क्रूरं बुद्ध्वा चिकीर्षितम् क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ १३९ तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरिश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ १४० यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रवत्स्यसि ॥ १४१ ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ १४२ अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् । समानीय ततः काये अपो गृहेदमब्रवीत् ॥ १४३ एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥ तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ १४४ सत्याभिवाहता तस्य देवी संजीविता तदा । तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ १४५ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ॥ १४६ दृष्ट्वा संजीवितामेवं देवी तां भृगुणा तदा । मिषतां सर्व भूतानां तदद्भुतमिमाभवत् ॥ १४७ असंभ्रान्तेन भृगुणा पत्नीं संजीवितां ततः । दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ १४८ प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् । ( *प्रोवाच मतिमान्वावाक्यं स्वां कन्यां पाकशासनः ॥ एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः । तेनाहं व्याकुलः पुत्रि कृतो धृतिमतो दृढम् ) ॥ १५० गच्छ संभावयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ १५१ देवी सा हीन्द्रदुहिता जयन्ती शुभचारिणी । युक्तध्यानं च शाम्यन्तं दुर्बलं धृतिमास्थितम् ॥ १५२ पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा । गीर्भिर्वैवानुकुलाभिः स्तुवती वल्गुभाषिणी ॥ १५३ गात्रसंवाहनैः काले सेधमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ १५४


* धनाचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

[अ० ९७ श्लो० १५५-१८१] वायुपुराणम् । ३६३ ( विष्णुमाहात्म्यकथनम् )

पूर्णे धूम्रव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥ १५५ एवं ब्रुवंस्त्वयैकेन चूर्णं नान्येन केनचित् । तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥ १५६ तेजसा चापि विबुधान्सर्वानभिभविष्यसि । यच्च किंचिन्मम ब्रह्मन्विद्यते भृगुनन्दन ॥ १५७ साङ्गं च सरहस्यं च यज्ञोपनिषदां तथा । प्रतिभास्यति ते सर्वं तच्चाऽऽद्यन्तं (?) न कस्यचित् ॥ १५८ सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि । एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥ १५९ अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ । एताँल्लब्ध्वा वराञ्छाक्यः संप्रहृष्टतनूरुहः ॥ १६० हर्षात्प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् । तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥ १६१ नमोऽस्तु शितिकण्ठाय सुरूपाय सुवर्चसे । रिरिहाणाय लोपाय वत्सराय जगत्पते ॥ १६२ कपर्दिने ह्यूर्ध्वरोम्णे हयाय करणाय च । संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥ १६३ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । वसुरेताय रुद्राय तपसे चीरवाससे ॥ १६४ ह्रस्वाय मुक्तकेशाय यद्दिने जाम्बवाय च । ( *कवये राजवृद्धाय तक्षकक्रीडनाय च ) ॥ १६५ गिरिशायार्कनेत्राय यतिने जाम्बवाय च । सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ) ॥ १६६ सहस्रबाहवे चैव सहस्रामलचक्षुषे । सहस्रकुक्षये चैव सहस्रचरणाय च ॥ १६७ सहस्रशिरसे चैव बहुरूपाय वेधसे । भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥ १६८ निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ १६९ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । महादेवाय शर्वाय विश्वरूपशिवाय च ॥ १७० हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च । + बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ॥ १७१ पिनाकिने चेषुमते चित्राय रोहिताय च ॥ दुन्दुभ्यायैकपादाय अर्ह्याय बुद्धये तथा । मृगव्याधाय सर्पाय स्थाणवे भीषिकाय च ॥ १७२ बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ १७३ वास्तोष्पते पिनाकाय शंकराय शिवाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १७४ सांख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय शर्वाय मान्याय मालिने तथा ॥ १७५ बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चोकितानाय बलिष्ठाय महर्षये ॥ १७६ चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च । शिखण्डिने कपाल्याय [÷दक्षिणे विश्वमेधसे ॥ १७७ अप्रतिघाताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ १७८ सौम्याय चैव पुण्याय ] धार्मिकाय शुभाय च । अवध्यामृताज्ञाय नित्याय शाश्वताय च ॥ १७९ कटचाय शरभायैव शूलिने च त्रिचक्षुषे । सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च ॥ १८० शुचये रोरिहाणाय सद्योजाताय मृत्यवे । पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥ १८१


* धनुश्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति । +नास्त्यर्धमिदं क. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।

३६४ श्रीमद्वैपायनमुनिप्रणीतम्-[अ०९७-९८श्लो०१८२-२०३।१] (विष्णुमाहात्म्यकथनम्)

व्याश्रिताय श्रविष्ठाय भारतायान्तरिक्षये । क्षमाय सहमानाय सत्याय तपनाय च ॥ १८२ त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च । तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥ १८३ रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्जमानाय शान्तायैवोर्ध्वरेतसे ॥ १८४ अघघ्नाय मखघ्नाय मृत्यवे याज्ञियाय च । कृशानवे प्रचेताय वह्नये किशलाय च ॥ १८५ सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे । क्षिप्रगवे सुधन्वाय प्रमेध्याय पिवाय च ॥ १८६ रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च । विभ्रान्ताय महान्ताय अन्तये दुर्गमाय च ॥ १८७ दक्षाय च जघन्याय लोकानामधिराय च । अनामयाय चोध्वाय संहत्याधिष्ठिताय च ॥ १८८ हिरण्यबाहवे चैव सत्याय शमनाय च । आसिकल्पाय माघाय री(इ)रिण्यायैकचक्षुषे ॥ १८९ श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ १९० दृढधन्वने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥ १९१ अघाय अघसंस्याय(?)विपियाय प्रियाय च । दिग्वासःछत्तिवायांस भगघ्नाय नमोऽस्तु ते ॥ १९२ पशूनां पतये चैव भूतानां पतये नमः । प्रणवे ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥ १९३ वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥ १९४ भूतभव्यभयायैव तुभ्यं कालात्मने नमः । वसवे चैव सत्याय त्यागार्थं च शमाय च ॥ १९५ विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमार्त्विज्ज्याय पशुमन्त्रौषधाय च ॥ १९६ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ १९७ अहिंसायाप्यलोभाय सुवेशायातिशाय च । सर्वभूतात्मभूताय तुभ्यं लोकात्मने नमः ॥ १९८ पृथिव्यै चान्तरिक्षाय दिवाय च मह्वाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ १९९ अप्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥ २०० [*नित्याय चाथ लिङ्गाय सूक्ष्माय चेतनाय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः] ॥२०१ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भवादिषु । सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥ २०२ नमः स्तोत्रे मया ह्यस्मिन्सदसद्व्याहृतं विभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २०३

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शंभुस्तवकीर्तनं नाम सप्तनवतितमोऽध्यायः ॥९७॥

आदितः श्लोकानां समष्ट्यङ्काः-८८९२

अथाष्टनवतितमोऽध्यायः । विष्णुमाहात्म्यकीर्तनम् ।

सूत उवाच-- एवमाराध्य देवेशमीशानं नीललोहितम् । ब्रह्मेति प्रयतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ १


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

[अ० ९८ श्लो० २-२८] वायुपुराणम् । ३६५ (विष्णुमाहात्म्यकथनम्)

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ २ ततः सोऽन्तर्हिते तस्मिन्देवेशानुचरे तदा । तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ ३ कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्तं किमर्थं मां * जुगोपसि ॥ ४ अनया सततं भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ५ किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभम् ॥ ६ एवमुक्ताऽब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं मे बलिष्ठ त्वं हि वेत्थ यथातथम् ॥ ७ एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । माहेन्द्री त्वं वरारोहे मद्वितार्थमिहाऽऽगता ॥ ८ मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि । अदृश्यं सर्वभूतेस्तु संप्रयोगमिहेच्छसि ॥ ९ देवेन्द्रानलवर्णाभे वरारोहे सुलोचने । इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥ १० एवं भवतु गच्छामो गृहान्वै मत्तकाशििन । ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥ ११ स तया संवसेद्देव्या दश वर्षाणि भागशः । अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ १२ कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ १३ गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम् । दाक्षिण्यं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ १४ बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह । पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ १५ बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः । काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ १६ ततः समागतान्दृष्ट्वा बृहस्पतिरुवाच तान् । स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ १७ अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ १८ पूर्वं काम्य(व्य) स्तदा तस्मिन्समये दशवार्षिके । ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥ १९ समयान्ते देवयानी सद्योजाता सुता तदा । बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥ २०

शुक्र उवाच-- देवि गच्छामहे द्रष्टुं तव याज्याञ्शुचिस्मिते । विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥ २१ एवमुक्ताऽब्रवीद्देवी भज भक्तानमहाव्रत । एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २२

सूत उवाच-- ततो गत्वाऽसुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥ २३ काव्यं मां तात जानीध्वमेष ह्याङ्गिरसो भुवि । वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥ २४ श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः । प्रेक्षन्ते स्म ह्युभौ तत्र स्थिताः खिन्नाः शुचि(सुवि) स्मिताः ॥ २५ संम्मूढाः स्थिताः सर्वे प्रापद्यन्त न किंचन । ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ॥ २६ आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः । अनुनच्छत गां सर्वे त्यजतैनं बृहस्पतिम् ॥ २७ एवमुक्ताऽसुराः सर्वे तावुभौ समवेक्ष्य च । तदासुरा विशेषं तु न व्यजानंस्तयोर्द्वयोः ॥ २८


* अयं प्रयोग आर्षः ।

३६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१८श्लो०२९-५७] ( विष्णुमाहात्म्यकथनम् )

बृहस्पतिरुवाचैतानसंभ्रान्तोऽयमङ्गिराः काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ २९ स मोहयति रूपेण मामकेनैष वोऽसुराः । श्रुत्वा तस्य ततस्ते वै संमन्त्र्याथार्वचोऽब्रवीत् ॥ ३० अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ३१ ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च । वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥ ३२ ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः । अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ३३ भार्गवोऽङ्गिगरसो(?) वाऽयं भवत्वेषैव नो गुरुः । स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ॥ ३४ एवमुक्त्वाऽसुराः सर्वे नापद्यन्त बृहस्पतिम् । यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥ ३५ चुकोप भार्गवस्तेषामवलेपेन वै तदा । बोधिताऽपि मया यस्मान्न मां भजत दानवाः ॥ ३६ तस्मात्प्रनष्टसंज्ञा वै पराभवं गमिष्यथ । इति व्याहृत्य तान्काव्यो जगामाथ मथागतम् ॥ ३७ ज्ञात्वाऽभिशस्तानसुरान्काव्येन तु बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥ बुद्ध्वाऽसुरांस्तदा भ्रष्टान्कृतार्थोऽन्तरधीयत ॥ ३८ ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा । अहो धिग्वञ्चितास्तेन परस्परमथाब्रुवन् ॥ ३९ पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम् । दग्धाश्चैवोपयोगाच्च स्वे स्वे चार्थेषु मायया ॥ ४० ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ ४१ ततः काव्यं समासाद्य अभितस्थुरवाङ्मुखाः । तानागतानपुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ४२ मयाऽपि बोधिताः काले यतो मां नाभिनन्दथ । ततस्तेनावलेपेन गता यूयं पराभवम् ॥ ४३ प्रह्लादस्तमथोवाच मानं स्वं त्यज भार्गव । स्वान्याज्यान्मज्जमानांश्च भक्तांश्चैव विशेषतः ॥ ४४ त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ ४५ यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया सद्य प्रवेक्ष्यामो रसातलम् ॥ ४६

सूत उवाच--

ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया । एवं शुक्रेऽनुनीतः स ततः कोषं न्ययच्छत ॥ ४७ उवाचेदं न भेतव्यं न गंतव्यं रसातलम् । अवश्यंभावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ ४८ न शक्यमन्यथाकर्तुमदृष्टं हि बलवत्तरम् । संज्ञां प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥ ४९ प्राप्तः पर्यांयकालो व इति ब्रह्माऽभ्यभाषत । मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ५० युगाख्या दश संपूर्णा देवानाक्रम्य मूर्धनि । तावन्तमेवं कालं वै ब्रह्मा राज्यमभाषत ॥ ५१ साधार्णिके पुनस्तस्यं राज्यं किल भविष्यति । लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ ५२ एवं किमहमं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् । तथा हतेषु लोकेषु तपोऽस्य न किलाभवत् ॥ ५३ यस्मात्प्रवृत्तश्चास्य न कामानाभिसंधिताः । तस्मादजेन प्रीतेन दत्तं सावार्णिकेऽन्तरे ॥ ५४ द्वराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ ५५ प्रीतेन चामरत्वं वै दत्तं तुभ्वं स्वयंभुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सह माकुलः ॥ ५६ नच शक्यं ममा तुभ्वं पुरस्ताद्वै विसर्जितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ ५७

[अ० ९८ श्लो० ५८-७९] वायुपुराणम् । ३६७ ( विष्णुमाहात्म्यकथनम् ) इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः । ५८

सूत उवाच—

एवमुक्तास्तु दैतेयाः काव्येनाक्लिष्टकर्मणा । ततस्ताभ्यां ययुः सार्धं प्रह्लादप्रमुखस्तदा ॥ ५९ अवश्यंभावमर्थत्वं(?) श्रुत्वा शुक्राच्च दानवाः । सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥ ६० दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् । अथ देवा*सुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ ६१ ततः संवृत्तसंन्नाहा देवास्तान्समयोधयन् । दैतासुरे ततस्तस्मिन्वर्तमाने शतं समाः ॥ अजयन्नसुरा देवान्भग्ना देवा अमन्त्रयन् ॥ ६२

देवा ऊचुः—

षण्डामर्कप्रभावं न जानीमस्त्वसुरैर्यथम् । तस्माद्यज्ञं समुद्दिश्य कार्यं चाऽऽत्माहितं च यत् ॥ ६३ तज्ज्ञानापहतावेतौ कृत्वा जेष्यामहेऽसुरान् । अथोपामन्त्रयन्देवाः षण्डामकौँ तु तावुभौँ ॥ ६४ यज्ञे समाह्वयिष्यामस्त्यजतमसुरान्द्विजौ । ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥ ६५ एवं तत्यजतुस्तौ तु षण्डामकौँ तदाऽसुरान् । ततो देवा जयं प्राप्ता दानवाश्च पराभवन् ॥ ६६ +देवाऽसुरानपराभाव्य षण्डामर्कावुपागमन् । काव्यशापाभिभूताश्च अनाधाराश्च ते पुनः ॥ ६७ बध्यमानास्तदा देवैर्विविविशुस्ते रसातले । एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः ॥ ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ ६८ जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः । कर्तुं धर्मव्यवस्थानमधर्मस्य च नाशनम् ॥ ६९ प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः । मनुष्यवध्यांस्तान्सर्वान्प्रह्लाऽनुव्याहरत्प्रभुः ॥ ७० धर्मात्मानारायणस्तस्मात्सम्भूतश्चाक्षुषेऽन्तरे । यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥ ७१ प्रादुर्भावे तदाऽन्यस्य बलेरासीत्पुरोहितः । चतुर्थ्यां तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥ ७२ संभूदः स समुद्रान्तहिरण्यकशिपोर्वधे । द्वितीयो नरसिंहोऽभूद्रुद्रः सुरपुरस्सरः ॥ ७३ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे । दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥ ७४ संक्षिप्याऽऽत्मानमङ्गेषु बृहस्पतिपुरस्सरम् । यजमानं तु दैत्येन्द्रमदित्याः कुलन्दनः ।! द्विजो भूत्वा शुभे काले बलिं वैरोचनं पुरा ॥ ७५ त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् । दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ ७६ ददामीत्येव तं राजा बलिवैरोचनोऽब्रवीत् । वामनं तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥ ७७ स वामनो दिवं खं च पृथिवीं च द्विजोत्तमः । त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ ७८ अत्यरिच्यत भूतात्मा भास्करं स्वेन वेजसा । प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ ७९


* अत्र संधिरार्षः । + अत्र संधिरार्षः ।

३६८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९८-श्लो० ८०-१०५] (विष्णुमाहात्म्यकथनम्)

शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः ॥ ८० सपुत्रपौत्रानसुरान्पातालतलमिनयत् ॥ ८० नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना । क्रूरा हता विनिर्धूता दिशः संप्रतिपेदिरे ॥ ८१ महाभूतानि भूतात्मा सविशेषाणि माधवः । कालं च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥ ८२ तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किंचिदस्ति लोकेषु यद्व्याप्तं महात्मना ॥ ८३ तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः । दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥ ८४ बलिः सितो महापाशैः सबन्धुः ससुहृद्गणः । विरोचनकुलं सर्वं पाताले संनिवेशितम् ॥ ८६ ततः सर्वार्मरैश्वर्यं दत्त्वेन्द्राय महात्मने । मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥ ८७ एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत॥८८ त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥ ८९ ( *पञ्चमः पञ्चदश्यां तु त्रेतायां संभव ह । मांधातुश्चक्रवर्तित्वे तस्थौ तथ्यपुरःसरः ॥ ९० एकोनविंशे त्रेतायां सर्वक्षत्रान्तकोऽभवत् । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसर ) ॥ ९१ चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ ९२ अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातुकर्णपुरःसरः ॥ ९३

  • तथैव नवमो विष्णुरदित्याः कश्यपात्मजः । देवक्यां वसुदेवात्तु ब्रह्मन्गार्ग्यपुरःसरः ॥ ९४ अप्रमेयो नियोज्यश्च यत्र कामचरो वशी । क्रीडते भगवाँल्लोके बालः क्रीडनकैरिव ॥ ९५ न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः । परं परममेतस्माद्विश्वरूपान्न विद्यते ॥ ९६ अष्टविंशतितमे तद्वद्द्वापरस्यांशसंक्षये । नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥ ९७ कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ ९८ प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् । विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥ ९९ यत्र कंसं च साल्वं च द्विविदं च महासुरम् । अरिष्टं वृषभं चैव पूतनां केशिनं हयम् ॥ १०० नागं कुवलयापीडं मल्लराजगृहाधिपम् । दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥ १०१ छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकेश्च हतः संख्ये यवनश्च महाबलः ॥ १०२ हतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश्च निहता पार्थिवा ये रसातले ॥ १०३ एते लोकहितार्थाय प्रादुर्भावा महात्मनः । अस्मिन्नेव युगे क्षीणे संध्याश्लिष्टे भविष्यति ॥ कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥ १०४ अनुकर्षन्सर्वसेनां हस्त्यश्वरथसंकुलाम् । प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥ १०५ नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् । उदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥

* एतच्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अयं श्लोको न विद्यते घ. ङ पुस्तकयोः ।

[अ० ९८-९९श्लो० १०७-१२५।१-३] वायुपुराणम् । ३६९

( तुर्वस्वादि वंशकथनम् )
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारान्पारदांश्चैव पल्हवान्यवनाञ्शकान् ॥ १०७
तुषारान्बर्बरांश्चैव पुलिन्दान्दरदान्खसान् । लम्पकानन्ध्रकान्रुद्धान्विकरातांश्चैव स प्रभुः ॥ १०८
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्वली । अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ १०९
मानवः स तु संजज्ञे देवस्यांशेन धीमतः । पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥ ११०
गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत् । इत्येतास्तस्य देवस्य दश संभूतयः स्मृताः ॥ १११
तं तं कालं च कार्यं च तत्तदुद्दिश्य कारणम् । अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥
पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः । विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ॥ ११३
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा । संघातयित्वा वृषलान्प्रायशास्तानधार्मिकान् ॥ ११४
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः । कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥
अकस्मात्कुपिताऽन्योन्यं भविष्यन्ति च मोहिताः । क्षपयित्वा तु तान्सर्वान्भाविनाऽर्थेन चोदितान् ॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः । ततो व्यतीते कल्कौ तु सामान्यैः(त्यै) सह सैनिकैः ॥
नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः । रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥ ११८
परास्परहताश्वासा निराक्रन्दाः सुदुःखिताः । पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥
प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा । ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ॥ १२०
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः । चीरपत्राजिनधराः संकरं घे र्मास्थिताः ॥ १२१
अल्पायुषो नष्टवार्ता बह्वाबाधाः सदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसंध्यांशके तदा ॥ १२२
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन तु । क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ॥ १२३
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा । इत्येतत्कीर्तितं सर्वं देवासुरविचेष्टितम् ॥ १२४
यदुवंशप्रसङ्गेन महद्भो वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पुरोर्दुह्योरनोस्तथा । १२५

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमहात्म्यकथनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-९०८


अथ नवनवतितमोऽध्याय ।

तुर्वस्वादि वंशवर्णनम् ।

तुर्वसोस्तु सुतो बह्निर्वह्नेर्गर्भोऽनुरात्मजः । गोभानोस्तु सुतो वीरास्त्रिसानुरपराजितः ॥ १
करन्धमस्त्रिसानोस्तु मरुत्तस्य तु चाऽऽत्मजः । अन्येस्त्वविक्षितो राजा मरुत्तः कथितः पुरा ॥ २
अनपत्यो मरुत्तस्तु स राजाऽऽसीदिति श्रुतः । दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥ ३

४७

३७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-२९] ( तुर्वस्वादिवांशकथनम् )

एवं ययातिशांपेन जरायाः संक्रमेण तु । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ४
दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः । शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥ ५
पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च । तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६
द्रुह्यस्य तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ । । अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥ ७
यौवनाश्वेन समिति कृच्छ्रेण निहतो बली । युद्धं सुमहदासीत्तु मासान्परि चतुर्दश ॥ ८
अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः । ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ ९
गान्धारदेशजाश्चापि तुरगा वाजिनां वराः । गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ १०
धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चाऽऽत्मजः । प्रचेतः पुत्रशतं राजानः सर्व एव ते ॥ ११
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः । अनोः पुत्रा महात्मानस्त्रयः परमधार्मिकाः ॥ १२
सभानरश्च पक्षश्च परपक्षस्तथैव च । सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३
* कालानलस्य धर्मात्मा सृञ्जयो नाम धार्मिकः । सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरंजयः ॥ १४
जनमेजयो महासत्त्वः पुरंजयसुतोऽभवत् । जनमेजयस्य राजर्षेर्महाशालोऽभवन्नृपः ॥ १५
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाः दिवि । महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ १६
÷ सप्तद्वीपेश्वरो राजा चक्रवर्ती महायशाः । महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥ १७
उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् । उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १८
मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥ १९
मृगायास्तु मृगः पुत्रो नवाया नव एव तु । कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥ २०
दृषद्वतीसुतश्चापि शिबिरौशीनरो द्विजः । शिबेः शिवपुरं ख्यातं यौधेयं तु मृगस्य तु ॥ २१
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाऽऽम्बष्ठा शिविपुत्रान्निबोधत ॥ २२
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः । वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥ २३
तेषां जनपदाः स्फीताः केकया मद्रकस्तथा । वृषदभीः सूचिदर्भास्तितिक्षोः शृणुत प्रजाः ॥ २४
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥ २५
हेमस्य सुतपा जज्ञे सुतः सुतयशा बली । जातो मनुष्ययोन्यां वै क्षीण वंशे प्रजेप्सया ॥ २६
महायोगी स तु बलिवंशदो यः स महामनाः । पुत्रानुत्पादयामास चातुर्वर्ण्यकरान्भुवि ॥ २७
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कालिङ्गं च तथा बालेयं क्षत्रमुच्यते ॥ २८
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः । बलेस्तु ब्रह्मणा दत्ताः वराः प्रीतेन धर्मतः ॥ २९


* एतदादिश्लोकद्वयं ग पुस्तके नास्ति । ÷ अयं श्लोको न विद्यते ख पुस्तके ।

[अ० ९९ श्लो० ३०–५५] वायुपुराणम् । ३७१ ( तुर्वस्वादि वंशकथनम् ) माहैद्योगित्वमायुश्च कल्पाद्युःपरिमाणकम् । सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥ ३० त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३१ चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति च । इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ॥ ३२ कालेन महता विद्वांस्त्वं वै स्थानमुपागतः । तेषां जनपदाः स्फीता वङ्गाङ्गसुलकास्तथा ॥ ३३ पुण्ड्राः कालिङ्गाश्च तथा तेषां वंशं निबोधत । तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ॥ संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ ३४ ऋषय ऊचुः— कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो । ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥ ३५ सूत उवाच— अशिजो नाम विख्यातः आसीद्धीमानृषिः पुरा । भार्या वै ममता नाम बभूवास्य महात्मनः ॥ ३६ अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ ३७ उवाच ममता तं तु बृहस्पतिमनिच्छती । अन्तर्वत्न्यास्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति* ॥ ३८ अयं हि मे महागर्भो रोचतेऽति बृहस्पते । अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमृद्धिरन् ॥ ३९ अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥ ४० एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं महात्माऽपि नाऽऽत्मानं सोऽभ्यधारयत् ॥ ४१ संबभूवव धर्मात्मा तथा सार्धं बृहस्पतिः । +(उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥ ४२ नोत्खातक न्यसे (?) ह्यस्मिन्द्दयोर्नेहास्ति संभवः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहाऽऽगतः ॥ ४३ शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । ] उशिजं तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४४ यस्मत्त्वमीदृशे काले सर्वभूतेप्सिते सति । मामेवमुक्तवान्मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥ ४५ ततो दीर्घतमा नाम शापादृषिरजायत । अथाशिजो बृहत्कीर्तिर्बृहस्पतिरिवौजसा ॥ ४६ ऊर्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे । गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान्प्रभो ॥ ४७ तस्य भ्राता पितृव्यस्तु चकार भवनं तदा । तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ ४८ दर्शार्थमाहतान्दभ्रींश्चचार सुरभीवृतः । जग्राह तं दीर्घतमा विस्फुरन्तं च शृङ्गयोः ॥ ४९ स तेन निगृहीतस्तु न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ५० न मयाऽऽसादितस्तात बलवांस्त्वद्विधः क्वचित् । त्र्यम्बकं वहता देवं यतो जातोऽस्मि(सि)भूतले ॥ ५१ मुञ्च मां बलिनां श्रेष्ठ प्रीतस्तेऽहं वरं वृणु । एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ ५२ तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् । ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ ५३ नास्माकं विद्यते तात पातकं स्तेयमेव वा । भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ ५४ कार्याकार्यं न वै विद्मो गम्यागम्यं तथैव च । न पाप्मानो वयं विप्र धर्मो ह्येष गवां स्मृतः ॥ ५५


* ज्येष्ठस्येत्यादिपादस्त्रुटितो ग. घ. ङ. पुस्तकेषु ।
+ एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति ।