भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 368, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 368

[अ० ९७श्लो० ५७-७८] वायुपुराणम् । ३५९

(विष्णुमहात्म्यकथनम्)

छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुषित। ज्योत्स्ना तेषां यन्नामतः स्मृतम् ॥
सङ्ग्रामा विषयाश्चैव यस्य वीर्यात्प्रवर्त्तिताः* ॥ ५७
इत्येतान्पुरुषः सर्वान्सृजल्लोकान्सनातनः । नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ॥ ५८
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमत्तामापन्नो मानुषीं तनुम् ॥ ५९
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् । आश्चर्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥ ६०
विष्णोरुत्पत्तिमार्श्चर्यं कथयस्व महामते । एतदाश्चर्यमाख्यानं कथ्यतां वै सुखावहम् ॥ ६१
प्रख्यातबलवीर्यस्य प्रादुर्भावा महात्मनः । कर्मणाऽऽश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥ ६२

सूत उवाच--

अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः । यथा स भगवाञ्जातो मानुषेषु महातपाः ॥ ६३
सप्तसप्ततयः प्रोक्ता भृगुशापेन मानुषे । जायते च युगान्तेषु देवकार्यार्थसिद्धये ॥ ६४
तस्य दिव्यतनुं विष्णोर्गदता मे निबोधत । युगधर्मे परावृत्ते काले च शिथिले प्रभुः ॥ ६५
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ ६६

ऋषय ऊचुः--

कथं देवासुरकृते अध्याहारमवाप्नुयात् । एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम् ॥ ६७

सूत उवाच--

देवासुरं यथा वृत्तं ब्रुवतस्तन्निबोधत । हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति ॥ ६८
बलिनाऽधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् । सख्यमासीत्परं तेषां देवानामसुरैः सह ॥ ६९
युगं वै दशसंकीर्णमासीद्व्याहतं जगत् । निदेशस्थायिनश्चैव तयोर्देवासुरा+ऽभवन् ॥ ७०
बलवान्वै विवादोऽयं संप्रवृत्तः सुदारुणः । देवासुराणां च तदा घोरक्षयकरो महान् ॥ ७१
तेषां दायनिमित्तं वै सङ्ग्रामा बहवोऽभवन् । वराहेऽस्थिन्द्वश द्वौ च षण्डामर्कीन्तगाः स्मृताः ॥ ७२
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ७३
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः । सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥ ७४
षष्ठो ह्याडीवकस्तेषां सप्तमस्त्रैपुरः स्मृतः । अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥ ७५
वार्तश्च दशमो ज्ञेयस्ततो हालाहलः स्मृतः । स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥ ७६
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदतः । वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणं कृते ॥ ७७
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादिं तु दैवतैः । महाबलो महासत्त्वः सङ्ग्रामेष्वपराजितः ॥ ७८


* अत्र स्थल ऋषय ऊचुरित्याधिकं ख. पुस्तके । + अत्र संधिरार्षः ।