भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 369, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 369

३६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७श्लो०७९-१००]
( विष्णुमहात्म्यकथनम् )

दंष्ट्रायां तु वराहेण समुद्राद्धैर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥ ७९
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः । इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥ ८०
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः । सङ्ग्रामे निहतः षष्ठे शक्राविष्टेन विष्णुना ॥ ८१
अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् । निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥ ८२
अष्टमे त्वसुराश्चैव राक्षसाश्चान्धकारकाः । जितदेवमनुष्यैस्तु पितृभिश्चैव संगतान् ॥ ८३
संवृतान्दानवांश्चैव संगतान्कृत्स्नशश्च तान् । तथा विष्णुसहायेन महेन्द्रेण निवारिताः ॥ ८४
हतो ध्वजो महेन्द्रेण मायाछन्नश्च योधयन् । ध्वजे लक्ष्यं समाविश्य विप्रचित्तिर्महाभुजः ॥ ८५
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान् । राज्ञिः कोलाहले सर्वान्देवैः परिवृतोऽजयत् ॥
यज्ञामृतेन विजितौ षण्डामर्को तु दैवतैः ॥ ८६
एते देवाः पुरा वृत्ताः सङ्ग्रामा द्वादशैव तु । देवासुरक्षयकराः प्रजानामशिवाय च ॥ ८७
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ । तथा शतसहस्राणि ह्यधिकानि द्विसप्ततिः ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ ८८
पर्याये तस्य राज्ञोऽनु बलिर्वर्षार्बुदं पुनः । षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च ॥ ८९
बले राज्याधिकारस्तु यावत्कालं बभूव ह । प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदाऽसुरैः ॥ ९०
इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ ९१
असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा । त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥ ९२
प्रह्लादस्य ततश्चादात्तैलोक्यं कालपर्ययात् । पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥ ९३
ततोऽसुरान्परित्यज्य यज्ञे देवा उपागमन् । यज्ञे देवानथं गते काव्यं ते ह्यसुराब्रुवन् ॥ ९४
हतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः । स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥ ९५
एवमुक्तोऽब्रवीदेतान्विष्णोः सांत्वयन्निगिरा । मा भैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥ ९६
वृष्टिरोषधयश्चैव रसा वसु च यद्द्द्यम् । कृत्स्ना मयि च तिष्ठन्तु पादस्तैषां सुरेषु वै ॥
युष्मदर्थं प्रदास्याम तत्सर्वं धार्यते मया ॥ ९७
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता । अमन्त्रयंस्तदा ते वै संविग्ना विजिगिषया ॥ ९८
एष काव्य इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं क्षीणानाप्याययस्व तान् ॥
प्रसह्य हत्वा शिष्टान्वै पातालं प्रापयामहे ॥ ९९
ततो देवाः सुसंरब्धा दानवानाभिसृत्य वै । जघ्नुस्तैर्बध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ १००