भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 367, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 367

३५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० १७-श्लो० ३३-५६] (विष्णुमाहात्म्यकथनम्)

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः । त्रैकाल्यं त्रीणि कर्माणि तिस्रो मायास्त्रयो गुणाः ॥ सृष्टा लोकाः सुराश्चैव येनाऽऽनन्त्येन कर्मणा । सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ ३४ नृणामिन्द्रियपूर्वेण योगेन रमते च यः । गतागतानां यो नेता सर्वत्र विविधेध्वरः ॥ ३५ यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३६ चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ ३७ चन्द्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदाचरः । यः परः श्रूयते देवो यः परं श्रूयते तपः ॥ ३८ यः परं तपसः प्राहुर्यः परंपरमात्मवान् । आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ ३९ युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४० वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ ४१ मनुष्याणां मनोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ ४२ विग्रहो विग्रहाणां यो गतिर्गतिमदामपि । आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ ४३ देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः । रसाच्छोणितसंभूतिः शोणितान्मांसमुच्यते ॥ ४४ मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते । अस्थ्नो मज्जा संभवन्मज्जातः शुक्रसंभवः ॥ ४५ शुक्राद्गर्भः संभवद्वसमूलेन कर्मणा । * तथापि प्रथमं चाऽऽपस्ताः सौम्यराशिरुच्यते ॥ ४६ ÷गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्लं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ ४७ भावौ रसानुगावेतौ वीर्ये च शशिपावकौ । कफवर्गेऽभवच्छुक्लं पित्तवर्गे च शोणितम् ॥ ४८ कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ४९ नाभीकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ ५० पित्तमग्निः स्मृतावेतावग्निशोमात्मकं जगत् । एवं प्रवर्तितो गर्भो वर्ततेऽम्बुदसंनिभः ॥ ५१ वायुः प्रवेशं चक्रे सङ्गतः परमात्मना । स पञ्चधा शरीरस्थो विद्यते वर्धयेत्पुनः ॥ ५२ प्राणापानौ समानश्च उदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्धयन्परिवर्तते ॥ ५३ अपानः पश्चिमं कायमुदानोर्ध्वशरीरगः । व्यानो व्यानस्यते येन समानः सर्वसंधिषु ॥ ५४ भूतावाप्तस्ततस्तस्य जायते×न्द्रियगोचरा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ५५ सर्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे । पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥ ५६


* एतदर्धस्थाने तत्रापां प्रथमा चापः स सौम्यो राशिरुच्यत इति व. पुस्तके । ख. ग. ङ. पुस्तकेष्वेवैतत्सद्दश एव पाठा वर्तन्ते तेऽस्पष्टा इति नोल्लिखिताः । ÷अत्र संधिरार्षः । ×अत्र संधिरार्षः ।