भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 366, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 366

[ अ० ९७ श्लो० ८-३२] वायुपुराणम् । ३५७

( विष्णुमहात्म्यकथनम् )

कथं स भगवान्विष्णुः सुरेश्वरनिसूदनः । वसुदेवकुले धीमान्वासुदेवत्वमागतः ॥ ८ अमरैः सूत किं पुण्यं पुण्यकृद्भिरलं कृतम् । देवलोकं समुत्सृज्य मर्त्यलोकमिहाऽऽगतः ॥ ९ देवमानुषयोर्नेता भूर्वःप्रभवो हरिः । किमर्थं दिव्यमात्मानं मानुषे समावेशयत् ॥ १० यश्चक्रं वर्तयत्येको मनुष्याणां मयोमयम् । मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ११ गोपायनं यः कुरुते जगतां सार्वलौकिकम् । स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ॥ १२ महाभूतानि भूतात्मा यो दधार चकार ह । श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ १३ येन लोकान्क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशोप्सया । स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥ १४ योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः । लोकमेकार्णवे चक्रे दृश्यादृश्येन वर्त्मना ॥ १५ यः पुराणे पुराणात्मा वाराहं वपुरास्थितः । ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ॥ १६ येन सैंहं वपुः कृत्वा द्विधा कृत्वा च यत्पुनः । पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ १७ यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः । पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥ १८ सहस्रचरणं देवं सहस्रांशु सहस्रशः । सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ १९ नाभ्यारण्यां समुद्भूतं यस्य पैतामहं गृहम् । एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ २० येन ते निहता दैत्याः सङ्ग्रामे तारकामये । सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २१ गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः । उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ॥ यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ २२

पुरारणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् । शक्रं च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥ २३ यदाऽनिलो लोकपदानि हत्वा चकार दैत्यान्सलिलेशयांस्तान् । कृत्वाऽऽदिदेवस्त्रिदिवस्य देवांशक्रे सुरेशां पुरूहूतमेव ॥ २४

गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । अग्निमाहवनीयं च वेदिं चैव कुशस्रुचम् ॥ २५ प्रोक्षणीयं स्रुवं चैव अवभृथ्यं तथैव च । अथ व्रीनिह यश्चक्रे हव्यभागप्रदान्मखे ॥ २६ हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि । भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २७ यूपान्समित्कुशं सोमं पवित्रं परिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांश्च तथाऽनलान् ॥ २८ सदस्यान्यजमानांश्च अश्वमेधान्क्रतूत्तमान् । विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा ॥ २९ युगानुरूपं यः कृत्वा त्रींल्लोकानिह यथाक्रमम् । क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥ ३० मुहूर्तास्तिथयो मासा दिनसंवत्सरं तथा । ऋतवः कालयोगाश्च प्रमाणं त्रिविधं नृषु ॥ ३१ आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् । मेधा वित्तं च शौर्यं च शास्त्रस्यैव च पारणम् ॥ ३२