भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 365, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 365
३५६श्रीमद्वैपायनमुनिप्रणीतम्—[अ०९६-९७श्लो०२४९-२५८।१-७]
( विष्णुमाहात्म्यकथनम् )

तुम्ब्वश्च तुम्बवाणश्च जनस्तम्बश्च तावुभौ । उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिम्र एव च ॥ २४९
* भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ । युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥ २५०
तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः । वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चाऽऽत्मजः ॥ २५१
काश्या सुपार्श्व तनयं जज्ञे साम्बा तरस्विनम् । तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥
षष्टिशतसहस्राणि वीर्यवन्तो महाबलाः । देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥ २५३
दैवासुरे हता ये च असुरा वै महातपाः । इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ॥
तेषामुत्सादनार्थं तु उत्पन्ना यादवे कुले ॥ २५४
कुलानि दश चैकं च यादवानां महात्मनाम् । सर्वमेककुलं यद्वर्त्तते वैष्णवे कुले ॥ २५५
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिभिस्तस्य बध्यन्ते सर्वमानुषाः ॥ २५६
इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः । कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिंमभीप्सिताम् ॥ १५७
+ य इमं कृष्णवंशस्य सुचरित्रस्य धीमतः । स्वर्गापवर्गदं श्रेष्ठं महापातकनाशनम् ॥
अपुत्रो लभेत पुत्रं वित्तार्थी वित्तमप्नुयात् ॥ २५८

इति श्रीमहापुराणे वायुप्रोक्ते धिष्ण्युवंशानुकीर्तनं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्टयङ्काः—८६९०


अथ सप्तनवतितमोऽध्यायः ।

विष्णुमाहात्म्यकीर्तनम् ।

× सूत उवाच--
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत । संकर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥ १
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्तिताः । सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥ २
शाल्की बद्रश्चैव विद्वान्धन्वन्तरिस्तथा । नन्दिनश्च महादेवः शालङ्कायन उच्यते ॥
आदिदेवस्तदा जिष्णूरोमिश्च सह दैवतैः ॥ ३

ऋषय ऊचुः--
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति वाऽन्ये तु प्रादुर्भावा महात्मनः ॥
ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ५
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः । श्रोतुमिच्छामहे सम्यग्देवैः कृष्णस्य धीमतः ॥ ६
कर्मणामानुपूर्व्यं च प्रादुर्भावाश्च ये प्रभोः । या चास्य प्रकृतिः सूत तां चास्मान्वक्तुमर्हसि ॥ ७


* इदमर्धन्नास्ति ग. पुस्तके. । + अयं सार्धश्लोकोऽधिकः ख. पुस्तके । × सूत उवाचेति नास्ति क. ग. घ. पुस्तकेषु ।

वायु पुराण · पृष्ठ 365, कुल 465 में से · BharatKosha