वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
| ३५६ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ०९६-९७श्लो०२४९-२५८।१-७] |
|---|---|---|
| ( विष्णुमाहात्म्यकथनम् ) |
तुम्ब्वश्च तुम्बवाणश्च जनस्तम्बश्च तावुभौ । उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिम्र एव च ॥ २४९
* भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ । युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ॥ २५०
तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः । वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चाऽऽत्मजः ॥ २५१
काश्या सुपार्श्व तनयं जज्ञे साम्बा तरस्विनम् । तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ॥
षष्टिशतसहस्राणि वीर्यवन्तो महाबलाः । देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः ॥ २५३
दैवासुरे हता ये च असुरा वै महातपाः । इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् ॥
तेषामुत्सादनार्थं तु उत्पन्ना यादवे कुले ॥ २५४
कुलानि दश चैकं च यादवानां महात्मनाम् । सर्वमेककुलं यद्वर्त्तते वैष्णवे कुले ॥ २५५
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिभिस्तस्य बध्यन्ते सर्वमानुषाः ॥ २५६
इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः । कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिंमभीप्सिताम् ॥ १५७
+ य इमं कृष्णवंशस्य सुचरित्रस्य धीमतः । स्वर्गापवर्गदं श्रेष्ठं महापातकनाशनम् ॥
अपुत्रो लभेत पुत्रं वित्तार्थी वित्तमप्नुयात् ॥ २५८
इति श्रीमहापुराणे वायुप्रोक्ते धिष्ण्युवंशानुकीर्तनं नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्टयङ्काः—८६९०
अथ सप्तनवतितमोऽध्यायः ।
विष्णुमाहात्म्यकीर्तनम् ।
× सूत उवाच--
मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत । संकर्षणो वासुदेवः प्रद्युम्नः साम्ब एव च ॥ १
अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्तिताः । सप्तर्षयः कुबेरश्च यक्षो मणिवरस्तथा ॥ २
शाल्की बद्रश्चैव विद्वान्धन्वन्तरिस्तथा । नन्दिनश्च महादेवः शालङ्कायन उच्यते ॥
आदिदेवस्तदा जिष्णूरोमिश्च सह दैवतैः ॥ ३
ऋषय ऊचुः--
विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति वाऽन्ये तु प्रादुर्भावा महात्मनः ॥
ब्रह्मक्षेत्रे युगान्तेषु किमर्थमिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ५
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः । श्रोतुमिच्छामहे सम्यग्देवैः कृष्णस्य धीमतः ॥ ६
कर्मणामानुपूर्व्यं च प्रादुर्भावाश्च ये प्रभोः । या चास्य प्रकृतिः सूत तां चास्मान्वक्तुमर्हसि ॥ ७
* इदमर्धन्नास्ति ग. पुस्तके. । + अयं सार्धश्लोकोऽधिकः ख. पुस्तके । × सूत उवाचेति नास्ति क. ग. घ. पुस्तकेषु ।
[ अ० ९७ श्लो० ८-३२] वायुपुराणम् । ३५७
( विष्णुमहात्म्यकथनम् )
कथं स भगवान्विष्णुः सुरेश्वरनिसूदनः । वसुदेवकुले धीमान्वासुदेवत्वमागतः ॥ ८ अमरैः सूत किं पुण्यं पुण्यकृद्भिरलं कृतम् । देवलोकं समुत्सृज्य मर्त्यलोकमिहाऽऽगतः ॥ ९ देवमानुषयोर्नेता भूर्वःप्रभवो हरिः । किमर्थं दिव्यमात्मानं मानुषे समावेशयत् ॥ १० यश्चक्रं वर्तयत्येको मनुष्याणां मयोमयम् । मनुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः ॥ ११ गोपायनं यः कुरुते जगतां सार्वलौकिकम् । स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः ॥ १२ महाभूतानि भूतात्मा यो दधार चकार ह । श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः ॥ १३ येन लोकान्क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशोप्सया । स्थापिता जगतो मार्गास्त्रिवर्गप्रवरास्त्रयः ॥ १४ योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः । लोकमेकार्णवे चक्रे दृश्यादृश्येन वर्त्मना ॥ १५ यः पुराणे पुराणात्मा वाराहं वपुरास्थितः । ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः ॥ १६ येन सैंहं वपुः कृत्वा द्विधा कृत्वा च यत्पुनः । पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ १७ यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः । पातालस्थोऽर्णवगतः पपौ तोयमयं हविः ॥ १८ सहस्रचरणं देवं सहस्रांशु सहस्रशः । सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ १९ नाभ्यारण्यां समुद्भूतं यस्य पैतामहं गृहम् । एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ २० येन ते निहता दैत्याः सङ्ग्रामे तारकामये । सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २१ गरुडस्थेन चोत्सिक्तः कालनेमिर्निपातितः । उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः ॥ यः शेते शाश्वतं योगमास्थाय तिमिरं महत् ॥ २२
पुरारणी गर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरा यम् । शक्रं च यो दैत्यगणावरुद्धं गर्भावमानेन भृशं चकार ॥ २३ यदाऽनिलो लोकपदानि हत्वा चकार दैत्यान्सलिलेशयांस्तान् । कृत्वाऽऽदिदेवस्त्रिदिवस्य देवांशक्रे सुरेशां पुरूहूतमेव ॥ २४
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा । अग्निमाहवनीयं च वेदिं चैव कुशस्रुचम् ॥ २५ प्रोक्षणीयं स्रुवं चैव अवभृथ्यं तथैव च । अथ व्रीनिह यश्चक्रे हव्यभागप्रदान्मखे ॥ २६ हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि । भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २७ यूपान्समित्कुशं सोमं पवित्रं परिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांश्च तथाऽनलान् ॥ २८ सदस्यान्यजमानांश्च अश्वमेधान्क्रतूत्तमान् । विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा ॥ २९ युगानुरूपं यः कृत्वा त्रींल्लोकानिह यथाक्रमम् । क्षणा निमेषाः काष्ठाश्च कलास्त्रैकालमेव च ॥ ३० मुहूर्तास्तिथयो मासा दिनसंवत्सरं तथा । ऋतवः कालयोगाश्च प्रमाणं त्रिविधं नृषु ॥ ३१ आयुः क्षेत्राण्युपचयं लक्षणं रूपसौष्ठवम् । मेधा वित्तं च शौर्यं च शास्त्रस्यैव च पारणम् ॥ ३२
(विष्णुमाहात्म्यकथनम्)
३५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० १७-श्लो० ३३-५६] (विष्णुमाहात्म्यकथनम्)
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः । त्रैकाल्यं त्रीणि कर्माणि तिस्रो मायास्त्रयो गुणाः ॥ सृष्टा लोकाः सुराश्चैव येनाऽऽनन्त्येन कर्मणा । सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ ३४ नृणामिन्द्रियपूर्वेण योगेन रमते च यः । गतागतानां यो नेता सर्वत्र विविधेध्वरः ॥ ३५ यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३६ चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः । दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ ३७ चन्द्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदाचरः । यः परः श्रूयते देवो यः परं श्रूयते तपः ॥ ३८ यः परं तपसः प्राहुर्यः परंपरमात्मवान् । आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ ३९ युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम् ॥ ४० वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ ४१ मनुष्याणां मनोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ ४२ विग्रहो विग्रहाणां यो गतिर्गतिमदामपि । आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ ४३ देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः । रसाच्छोणितसंभूतिः शोणितान्मांसमुच्यते ॥ ४४ मांसात्तु मेदसो जन्म मेदसोऽस्थि निरूप्यते । अस्थ्नो मज्जा संभवन्मज्जातः शुक्रसंभवः ॥ ४५ शुक्राद्गर्भः संभवद्वसमूलेन कर्मणा । * तथापि प्रथमं चाऽऽपस्ताः सौम्यराशिरुच्यते ॥ ४६ ÷गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्लं सोमात्मकं विद्यादार्तवं पावकात्मकम् ॥ ४७ भावौ रसानुगावेतौ वीर्ये च शशिपावकौ । कफवर्गेऽभवच्छुक्लं पित्तवर्गे च शोणितम् ॥ ४८ कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ४९ नाभीकोष्ठान्तरं यत्तु तत्र देवो हुताशनः । मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ ५० पित्तमग्निः स्मृतावेतावग्निशोमात्मकं जगत् । एवं प्रवर्तितो गर्भो वर्ततेऽम्बुदसंनिभः ॥ ५१ वायुः प्रवेशं चक्रे सङ्गतः परमात्मना । स पञ्चधा शरीरस्थो विद्यते वर्धयेत्पुनः ॥ ५२ प्राणापानौ समानश्च उदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्धयन्परिवर्तते ॥ ५३ अपानः पश्चिमं कायमुदानोर्ध्वशरीरगः । व्यानो व्यानस्यते येन समानः सर्वसंधिषु ॥ ५४ भूतावाप्तस्ततस्तस्य जायते×न्द्रियगोचरा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ ५५ सर्वेन्द्रिया निविष्टास्तं स्वं स्वं योगं प्रचक्रिरे । पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ॥ ५६
* एतदर्धस्थाने तत्रापां प्रथमा चापः स सौम्यो राशिरुच्यत इति व. पुस्तके । ख. ग. ङ. पुस्तकेष्वेवैतत्सद्दश एव पाठा वर्तन्ते तेऽस्पष्टा इति नोल्लिखिताः । ÷अत्र संधिरार्षः । ×अत्र संधिरार्षः ।
[अ० ९७श्लो० ५७-७८] वायुपुराणम् । ३५९
(विष्णुमहात्म्यकथनम्)
छिद्राण्याकाशयोनीनि जलास्रावं प्रवर्त्तते । तेजश्चक्षुषित। ज्योत्स्ना तेषां यन्नामतः स्मृतम् ॥
सङ्ग्रामा विषयाश्चैव यस्य वीर्यात्प्रवर्त्तिताः* ॥ ५७
इत्येतान्पुरुषः सर्वान्सृजल्लोकान्सनातनः । नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः ॥ ५८
एष नः संशयो धीमन्नेष वै विस्मयो महान् । कथं गतिर्गतिमत्तामापन्नो मानुषीं तनुम् ॥ ५९
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् । आश्चर्याणि परं विष्णुर्वेददेवैश्च कथ्यते ॥ ६०
विष्णोरुत्पत्तिमार्श्चर्यं कथयस्व महामते । एतदाश्चर्यमाख्यानं कथ्यतां वै सुखावहम् ॥ ६१
प्रख्यातबलवीर्यस्य प्रादुर्भावा महात्मनः । कर्मणाऽऽश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यताम् ॥ ६२
सूत उवाच--
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः । यथा स भगवाञ्जातो मानुषेषु महातपाः ॥ ६३
सप्तसप्ततयः प्रोक्ता भृगुशापेन मानुषे । जायते च युगान्तेषु देवकार्यार्थसिद्धये ॥ ६४
तस्य दिव्यतनुं विष्णोर्गदता मे निबोधत । युगधर्मे परावृत्ते काले च शिथिले प्रभुः ॥ ६५
कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ ६६
ऋषय ऊचुः--
कथं देवासुरकृते अध्याहारमवाप्नुयात् । एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम् ॥ ६७
सूत उवाच--
देवासुरं यथा वृत्तं ब्रुवतस्तन्निबोधत । हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति ॥ ६८
बलिनाऽधिष्ठितं राष्ट्रं पुनर्लोकत्रये क्रमात् । सख्यमासीत्परं तेषां देवानामसुरैः सह ॥ ६९
युगं वै दशसंकीर्णमासीद्व्याहतं जगत् । निदेशस्थायिनश्चैव तयोर्देवासुरा+ऽभवन् ॥ ७०
बलवान्वै विवादोऽयं संप्रवृत्तः सुदारुणः । देवासुराणां च तदा घोरक्षयकरो महान् ॥ ७१
तेषां दायनिमित्तं वै सङ्ग्रामा बहवोऽभवन् । वराहेऽस्थिन्द्वश द्वौ च षण्डामर्कीन्तगाः स्मृताः ॥ ७२
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ७३
तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः । सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः ॥ ७४
षष्ठो ह्याडीवकस्तेषां सप्तमस्त्रैपुरः स्मृतः । अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः ॥ ७५
वार्तश्च दशमो ज्ञेयस्ततो हालाहलः स्मृतः । स्मृतो द्वादशमस्तेषां घोरकोलाहलोऽपरः ॥ ७६
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदतः । वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणं कृते ॥ ७७
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादिं तु दैवतैः । महाबलो महासत्त्वः सङ्ग्रामेष्वपराजितः ॥ ७८
* अत्र स्थल ऋषय ऊचुरित्याधिकं ख. पुस्तके । + अत्र संधिरार्षः ।
३६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७श्लो०७९-१००]
( विष्णुमहात्म्यकथनम् )
दंष्ट्रायां तु वराहेण समुद्राद्धैर्यदा कृता । प्राह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने ॥ ७९
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः । इन्द्रेणैव स विक्रम्य निहतस्तारकामये ॥ ८०
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः । सङ्ग्रामे निहतः षष्ठे शक्राविष्टेन विष्णुना ॥ ८१
अशक्नुवन्तो देवेषु पुरं गोप्तुं त्रिदैवतम् । निहता दानवाः सर्वे त्रिपुरस्त्र्यम्बकेण तु ॥ ८२
अष्टमे त्वसुराश्चैव राक्षसाश्चान्धकारकाः । जितदेवमनुष्यैस्तु पितृभिश्चैव संगतान् ॥ ८३
संवृतान्दानवांश्चैव संगतान्कृत्स्नशश्च तान् । तथा विष्णुसहायेन महेन्द्रेण निवारिताः ॥ ८४
हतो ध्वजो महेन्द्रेण मायाछन्नश्च योधयन् । ध्वजे लक्ष्यं समाविश्य विप्रचित्तिर्महाभुजः ॥ ८५
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान् । राज्ञिः कोलाहले सर्वान्देवैः परिवृतोऽजयत् ॥
यज्ञामृतेन विजितौ षण्डामर्को तु दैवतैः ॥ ८६
एते देवाः पुरा वृत्ताः सङ्ग्रामा द्वादशैव तु । देवासुरक्षयकराः प्रजानामशिवाय च ॥ ८७
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ । तथा शतसहस्राणि ह्यधिकानि द्विसप्ततिः ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ ८८
पर्याये तस्य राज्ञोऽनु बलिर्वर्षार्बुदं पुनः । षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च ॥ ८९
बले राज्याधिकारस्तु यावत्कालं बभूव ह । प्रह्लादेन गृहीतोऽभूत्तावत्कालं तदाऽसुरैः ॥ ९०
इन्द्रास्त्रयस्ते विख्याता असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ ९१
असपत्नं ततः सर्वं राष्ट्रं दशयुगं पुरा । त्रैलोक्यमव्ययमिदं महेन्द्रेण तु पाल्यते ॥ ९२
प्रह्लादस्य ततश्चादात्तैलोक्यं कालपर्ययात् । पर्यायेण च संप्राप्ते त्रैलोक्ये पाकशासनः ॥ ९३
ततोऽसुरान्परित्यज्य यज्ञे देवा उपागमन् । यज्ञे देवानथं गते काव्यं ते ह्यसुराब्रुवन् ॥ ९४
हतं नो मिषतां राष्ट्रं त्यक्त्वा यज्ञं पुनर्गताः । स्थातुं न शक्नुमो ह्यद्य प्रविशामो रसातलम् ॥ ९५
एवमुक्तोऽब्रवीदेतान्विष्णोः सांत्वयन्निगिरा । मा भैष्ट धारयिष्यामि तेजसा स्वेन चासुराः ॥ ९६
वृष्टिरोषधयश्चैव रसा वसु च यद्द्द्यम् । कृत्स्ना मयि च तिष्ठन्तु पादस्तैषां सुरेषु वै ॥
युष्मदर्थं प्रदास्याम तत्सर्वं धार्यते मया ॥ ९७
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता । अमन्त्रयंस्तदा ते वै संविग्ना विजिगिषया ॥ ९८
एष काव्य इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं क्षीणानाप्याययस्व तान् ॥
प्रसह्य हत्वा शिष्टान्वै पातालं प्रापयामहे ॥ ९९
ततो देवाः सुसंरब्धा दानवानाभिसृत्य वै । जघ्नुस्तैर्बध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ १००
( विष्णुमाहात्म्यकथनम् )
[अ० ९७-श्लो० १०१-१२७] वायुपुराणम् । ३६१
( विष्णुमाहात्म्यकथनम् ) ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् । समरेऽस्वक्षतार्तांस्तान्देवेभ्यस्तान्दितेः सुतान् ॥ १०१ काव्यो दृष्ट्वा स्थितान्देवांस्तत्र देवोऽभ्यचिन्तयत् । तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ १०२ त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ १०३ महार्हेषु द्वादशसु सङ्ग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ १०४ किंचिच्छिष्टास्तु वै यूयं युद्धेष्वन्त्येषु वै स्वयम् । नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् यास्याम्यहं महादेवं यथार्थे विजयाय वः । अभिमाप्याययेद्धोता मन्त्रैरेव बृहस्पतिः ॥ १०६ ततो यास्यामहं देवं मन्त्रार्थे नीललोहितम् । युष्माननुग्रहीष्यामि पुनः पश्चादिहाऽऽगतः ॥ १०७ यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने । न वै देवा वधिष्यन्ति यावदागमनं मम ॥ १०८ अप्रतीपांस्ततो मन्त्रान्देवान्प्राप्य महेश्वरात् । [*योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥ ततस्त कृतसंवादा देवानुचुस्ततोऽसुराः । न्यस्तवादा वयं सर्वे लोकान्यूयं क्रमन्तु वै ॥ ] ११० वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्यव्याहरणं तु तत् ॥ १११ ततो देवा निवृत्ता वै विज्वरा मुदिताश्च ह । न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जन्मैर्यथाऽऽगतान् ॥ ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यताम् । निरुत्सुकेस्तपोयुक्तैः कालं कार्यार्थसाधकैः ॥ पितुर्ममाऽऽश्रमस्था वै सर्वे देवाः सवासवाः ॥ ११३ स संदिश्यासुरान्काव्यो महादेवं प्रपद्य च । प्रणम्यैनमुवाचाथ जगत्प्रभवमीश्वरम् ॥ ११४ मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुरेष्वभयावहान् ॥ ११५ एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छासि वै द्विज । व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः ॥ ११६ पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्शिराः । यदि पास्यसि भद्रं ते मत्तो मन्त्रमवाप्स्यसि ॥ ११७ तथोक्तो देवदेवेन स शुक्रस्तु महातपाः । पादौ संस्पृश्य देवस्य बाढमित्यभ्यभाषत ॥ ११८ व्रतं चराम्यहं शेषं यथोद्दिष्टोऽस्मि वै प्रभो । ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत ॥ ११९ असुराणा हितार्थाय तस्मिञ्छुके गते तदा । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ १२० तद्बुद्ध्वा नीतिपूर्वं तु राज्यं न्यस्तं तदाऽसुरैः । तस्मिंश्छिद्रे तदाऽमर्षाद्देवास्तान्सामभिद्रवन् + ॥ निशितातायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ १२१ दृष्ट्वाऽसुरगणा देवान्प्रगृहीतायुधान्पुनः । उत्पेतूः सहसा सर्वे संत्रस्तास्ते ततोऽभवन् ॥ १२२ न्यस्तशस्त्रे जये दत्ते आचार्ये व्रतमास्थिते । संत्यज्य समयं देवास्ते सपत्नान्जिघांसवः ॥ १२३ अनाचार्यांस्तु भद्रं वो विश्वस्तास्तपसि स्थिताः । चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥ रणे विजेतुं देवान्वै न शक्ष्यामः कथंचन । अशुद्धेन(?) प्रपद्यामः शरणं काव्यमातरम् ॥ १२५ ज्ञापयामः कृतस्मिदं यावनागमनं गुरोः । विनिवृत्ते ततः काव्ये योत्स्यामो युधि तान्सुरान् ॥ १२६ एवमुक्त्वाऽसुरान्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास्तदा चैव तदाऽभयम् ॥ १२७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + अडभाव आर्षः ।
४६
३६२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७ श्लो० १२८-१५४]
( विष्णुमाहात्म्यकथनम् )
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ॥ १२८ मत्संनिधौ वर्ततां वो न भर्मिर्विनुमर्हति । भयाच्चाप्याभिपन्नांस्तान्दृष्ट्वा देवासुरांस्तदा ॥ १२९ जभिजघ्नुः प्रसह्यैतानाविचार्य बलाबलम् । तांस्त्रस्तान्वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ १३० देवी क्रुद्धाब्रवीदेनान्अनिद्रत्वं करोम्यहम् । संस्तम्भ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ १३१ ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु यूपवत् । व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ १३२ गतेषु सुरसंघेषु विष्णुमिन्द्रमभाषत । मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ॥ १३३ एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ १३४ एषा त्वां विष्णुना सार्धं दहामि मघवानिव(?) । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ १३५ तथाऽभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः । कथं मुच्येव सहितौ विष्णुमिन्द्रमभाषत ॥ १३६ इन्द्रोऽब्रवीज्जहीह्येनां यावन्नौ न दहेद्विभो । विशेषाणाभिभूतोऽहमतस्त्वं जहि मा चिरम् ॥ १३७ ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्तुमास्थितः । अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ १३८ तस्याः सत्वरमणायाः शीघ्रकारी सुरारिहा । स्त्रिया विष्णुस्ततो देव्याः क्रूरं बुद्ध्वा चिकीर्षितम् क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ १३९ तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरिश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ १४० यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रवत्स्यसि ॥ १४१ ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ १४२ अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् । समानीय ततः काये अपो गृहेदमब्रवीत् ॥ १४३ एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥ तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ १४४ सत्याभिवाहता तस्य देवी संजीविता तदा । तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ १४५ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ॥ १४६ दृष्ट्वा संजीवितामेवं देवी तां भृगुणा तदा । मिषतां सर्व भूतानां तदद्भुतमिमाभवत् ॥ १४७ असंभ्रान्तेन भृगुणा पत्नीं संजीवितां ततः । दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ १४८ प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् । ( *प्रोवाच मतिमान्वावाक्यं स्वां कन्यां पाकशासनः ॥ एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः । तेनाहं व्याकुलः पुत्रि कृतो धृतिमतो दृढम् ) ॥ १५० गच्छ संभावयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ १५१ देवी सा हीन्द्रदुहिता जयन्ती शुभचारिणी । युक्तध्यानं च शाम्यन्तं दुर्बलं धृतिमास्थितम् ॥ १५२ पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा । गीर्भिर्वैवानुकुलाभिः स्तुवती वल्गुभाषिणी ॥ १५३ गात्रसंवाहनैः काले सेधमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ १५४
* धनाचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ० ९७ श्लो० १५५-१८१] वायुपुराणम् । ३६३ ( विष्णुमाहात्म्यकथनम् )
पूर्णे धूम्रव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥ १५५ एवं ब्रुवंस्त्वयैकेन चूर्णं नान्येन केनचित् । तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥ १५६ तेजसा चापि विबुधान्सर्वानभिभविष्यसि । यच्च किंचिन्मम ब्रह्मन्विद्यते भृगुनन्दन ॥ १५७ साङ्गं च सरहस्यं च यज्ञोपनिषदां तथा । प्रतिभास्यति ते सर्वं तच्चाऽऽद्यन्तं (?) न कस्यचित् ॥ १५८ सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि । एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥ १५९ अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ । एताँल्लब्ध्वा वराञ्छाक्यः संप्रहृष्टतनूरुहः ॥ १६० हर्षात्प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् । तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥ १६१ नमोऽस्तु शितिकण्ठाय सुरूपाय सुवर्चसे । रिरिहाणाय लोपाय वत्सराय जगत्पते ॥ १६२ कपर्दिने ह्यूर्ध्वरोम्णे हयाय करणाय च । संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥ १६३ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । वसुरेताय रुद्राय तपसे चीरवाससे ॥ १६४ ह्रस्वाय मुक्तकेशाय यद्दिने जाम्बवाय च । ( *कवये राजवृद्धाय तक्षकक्रीडनाय च ) ॥ १६५ गिरिशायार्कनेत्राय यतिने जाम्बवाय च । सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ) ॥ १६६ सहस्रबाहवे चैव सहस्रामलचक्षुषे । सहस्रकुक्षये चैव सहस्रचरणाय च ॥ १६७ सहस्रशिरसे चैव बहुरूपाय वेधसे । भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥ १६८ निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ १६९ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । महादेवाय शर्वाय विश्वरूपशिवाय च ॥ १७० हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च । + बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ॥ १७१ पिनाकिने चेषुमते चित्राय रोहिताय च ॥ दुन्दुभ्यायैकपादाय अर्ह्याय बुद्धये तथा । मृगव्याधाय सर्पाय स्थाणवे भीषिकाय च ॥ १७२ बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ १७३ वास्तोष्पते पिनाकाय शंकराय शिवाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १७४ सांख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय शर्वाय मान्याय मालिने तथा ॥ १७५ बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चोकितानाय बलिष्ठाय महर्षये ॥ १७६ चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च । शिखण्डिने कपाल्याय [÷दक्षिणे विश्वमेधसे ॥ १७७ अप्रतिघाताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ १७८ सौम्याय चैव पुण्याय ] धार्मिकाय शुभाय च । अवध्यामृताज्ञाय नित्याय शाश्वताय च ॥ १७९ कटचाय शरभायैव शूलिने च त्रिचक्षुषे । सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च ॥ १८० शुचये रोरिहाणाय सद्योजाताय मृत्यवे । पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥ १८१
* धनुश्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति । +नास्त्यर्धमिदं क. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
३६४ श्रीमद्वैपायनमुनिप्रणीतम्-[अ०९७-९८श्लो०१८२-२०३।१] (विष्णुमाहात्म्यकथनम्)
व्याश्रिताय श्रविष्ठाय भारतायान्तरिक्षये । क्षमाय सहमानाय सत्याय तपनाय च ॥ १८२ त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च । तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥ १८३ रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्जमानाय शान्तायैवोर्ध्वरेतसे ॥ १८४ अघघ्नाय मखघ्नाय मृत्यवे याज्ञियाय च । कृशानवे प्रचेताय वह्नये किशलाय च ॥ १८५ सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे । क्षिप्रगवे सुधन्वाय प्रमेध्याय पिवाय च ॥ १८६ रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च । विभ्रान्ताय महान्ताय अन्तये दुर्गमाय च ॥ १८७ दक्षाय च जघन्याय लोकानामधिराय च । अनामयाय चोध्वाय संहत्याधिष्ठिताय च ॥ १८८ हिरण्यबाहवे चैव सत्याय शमनाय च । आसिकल्पाय माघाय री(इ)रिण्यायैकचक्षुषे ॥ १८९ श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ १९० दृढधन्वने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥ १९१ अघाय अघसंस्याय(?)विपियाय प्रियाय च । दिग्वासःछत्तिवायांस भगघ्नाय नमोऽस्तु ते ॥ १९२ पशूनां पतये चैव भूतानां पतये नमः । प्रणवे ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥ १९३ वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥ १९४ भूतभव्यभयायैव तुभ्यं कालात्मने नमः । वसवे चैव सत्याय त्यागार्थं च शमाय च ॥ १९५ विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमार्त्विज्ज्याय पशुमन्त्रौषधाय च ॥ १९६ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ १९७ अहिंसायाप्यलोभाय सुवेशायातिशाय च । सर्वभूतात्मभूताय तुभ्यं लोकात्मने नमः ॥ १९८ पृथिव्यै चान्तरिक्षाय दिवाय च मह्वाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ १९९ अप्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥ २०० [*नित्याय चाथ लिङ्गाय सूक्ष्माय चेतनाय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः] ॥२०१ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भवादिषु । सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥ २०२ नमः स्तोत्रे मया ह्यस्मिन्सदसद्व्याहृतं विभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २०३
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शंभुस्तवकीर्तनं नाम सप्तनवतितमोऽध्यायः ॥९७॥
आदितः श्लोकानां समष्ट्यङ्काः-८८९२
अथाष्टनवतितमोऽध्यायः । विष्णुमाहात्म्यकीर्तनम् ।
सूत उवाच-- एवमाराध्य देवेशमीशानं नीललोहितम् । ब्रह्मेति प्रयतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ १
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ९८ श्लो० २-२८] वायुपुराणम् । ३६५ (विष्णुमाहात्म्यकथनम्)
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ २ ततः सोऽन्तर्हिते तस्मिन्देवेशानुचरे तदा । तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ ३ कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्तं किमर्थं मां * जुगोपसि ॥ ४ अनया सततं भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ५ किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभम् ॥ ६ एवमुक्ताऽब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं मे बलिष्ठ त्वं हि वेत्थ यथातथम् ॥ ७ एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । माहेन्द्री त्वं वरारोहे मद्वितार्थमिहाऽऽगता ॥ ८ मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि । अदृश्यं सर्वभूतेस्तु संप्रयोगमिहेच्छसि ॥ ९ देवेन्द्रानलवर्णाभे वरारोहे सुलोचने । इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥ १० एवं भवतु गच्छामो गृहान्वै मत्तकाशििन । ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥ ११ स तया संवसेद्देव्या दश वर्षाणि भागशः । अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ १२ कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ १३ गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम् । दाक्षिण्यं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ १४ बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह । पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ १५ बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः । काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ १६ ततः समागतान्दृष्ट्वा बृहस्पतिरुवाच तान् । स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ १७ अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ १८ पूर्वं काम्य(व्य) स्तदा तस्मिन्समये दशवार्षिके । ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥ १९ समयान्ते देवयानी सद्योजाता सुता तदा । बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥ २०
शुक्र उवाच-- देवि गच्छामहे द्रष्टुं तव याज्याञ्शुचिस्मिते । विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥ २१ एवमुक्ताऽब्रवीद्देवी भज भक्तानमहाव्रत । एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २२
सूत उवाच-- ततो गत्वाऽसुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥ २३ काव्यं मां तात जानीध्वमेष ह्याङ्गिरसो भुवि । वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥ २४ श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः । प्रेक्षन्ते स्म ह्युभौ तत्र स्थिताः खिन्नाः शुचि(सुवि) स्मिताः ॥ २५ संम्मूढाः स्थिताः सर्वे प्रापद्यन्त न किंचन । ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ॥ २६ आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः । अनुनच्छत गां सर्वे त्यजतैनं बृहस्पतिम् ॥ २७ एवमुक्ताऽसुराः सर्वे तावुभौ समवेक्ष्य च । तदासुरा विशेषं तु न व्यजानंस्तयोर्द्वयोः ॥ २८
* अयं प्रयोग आर्षः ।
३६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१८श्लो०२९-५७] ( विष्णुमाहात्म्यकथनम् )
बृहस्पतिरुवाचैतानसंभ्रान्तोऽयमङ्गिराः काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ २९ स मोहयति रूपेण मामकेनैष वोऽसुराः । श्रुत्वा तस्य ततस्ते वै संमन्त्र्याथार्वचोऽब्रवीत् ॥ ३० अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ३१ ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च । वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥ ३२ ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः । अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ३३ भार्गवोऽङ्गिगरसो(?) वाऽयं भवत्वेषैव नो गुरुः । स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ॥ ३४ एवमुक्त्वाऽसुराः सर्वे नापद्यन्त बृहस्पतिम् । यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥ ३५ चुकोप भार्गवस्तेषामवलेपेन वै तदा । बोधिताऽपि मया यस्मान्न मां भजत दानवाः ॥ ३६ तस्मात्प्रनष्टसंज्ञा वै पराभवं गमिष्यथ । इति व्याहृत्य तान्काव्यो जगामाथ मथागतम् ॥ ३७ ज्ञात्वाऽभिशस्तानसुरान्काव्येन तु बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥ बुद्ध्वाऽसुरांस्तदा भ्रष्टान्कृतार्थोऽन्तरधीयत ॥ ३८ ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा । अहो धिग्वञ्चितास्तेन परस्परमथाब्रुवन् ॥ ३९ पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम् । दग्धाश्चैवोपयोगाच्च स्वे स्वे चार्थेषु मायया ॥ ४० ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ ४१ ततः काव्यं समासाद्य अभितस्थुरवाङ्मुखाः । तानागतानपुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ४२ मयाऽपि बोधिताः काले यतो मां नाभिनन्दथ । ततस्तेनावलेपेन गता यूयं पराभवम् ॥ ४३ प्रह्लादस्तमथोवाच मानं स्वं त्यज भार्गव । स्वान्याज्यान्मज्जमानांश्च भक्तांश्चैव विशेषतः ॥ ४४ त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ ४५ यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया सद्य प्रवेक्ष्यामो रसातलम् ॥ ४६
सूत उवाच--
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया । एवं शुक्रेऽनुनीतः स ततः कोषं न्ययच्छत ॥ ४७ उवाचेदं न भेतव्यं न गंतव्यं रसातलम् । अवश्यंभावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ ४८ न शक्यमन्यथाकर्तुमदृष्टं हि बलवत्तरम् । संज्ञां प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥ ४९ प्राप्तः पर्यांयकालो व इति ब्रह्माऽभ्यभाषत । मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ५० युगाख्या दश संपूर्णा देवानाक्रम्य मूर्धनि । तावन्तमेवं कालं वै ब्रह्मा राज्यमभाषत ॥ ५१ साधार्णिके पुनस्तस्यं राज्यं किल भविष्यति । लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ ५२ एवं किमहमं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् । तथा हतेषु लोकेषु तपोऽस्य न किलाभवत् ॥ ५३ यस्मात्प्रवृत्तश्चास्य न कामानाभिसंधिताः । तस्मादजेन प्रीतेन दत्तं सावार्णिकेऽन्तरे ॥ ५४ द्वराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ ५५ प्रीतेन चामरत्वं वै दत्तं तुभ्वं स्वयंभुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सह माकुलः ॥ ५६ नच शक्यं ममा तुभ्वं पुरस्ताद्वै विसर्जितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ ५७
[अ० ९८ श्लो० ५८-७९] वायुपुराणम् । ३६७ ( विष्णुमाहात्म्यकथनम् ) इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः । ५८
सूत उवाच—
एवमुक्तास्तु दैतेयाः काव्येनाक्लिष्टकर्मणा । ततस्ताभ्यां ययुः सार्धं प्रह्लादप्रमुखस्तदा ॥ ५९ अवश्यंभावमर्थत्वं(?) श्रुत्वा शुक्राच्च दानवाः । सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥ ६० दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् । अथ देवा*सुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ ६१ ततः संवृत्तसंन्नाहा देवास्तान्समयोधयन् । दैतासुरे ततस्तस्मिन्वर्तमाने शतं समाः ॥ अजयन्नसुरा देवान्भग्ना देवा अमन्त्रयन् ॥ ६२
देवा ऊचुः—
षण्डामर्कप्रभावं न जानीमस्त्वसुरैर्यथम् । तस्माद्यज्ञं समुद्दिश्य कार्यं चाऽऽत्माहितं च यत् ॥ ६३ तज्ज्ञानापहतावेतौ कृत्वा जेष्यामहेऽसुरान् । अथोपामन्त्रयन्देवाः षण्डामकौँ तु तावुभौँ ॥ ६४ यज्ञे समाह्वयिष्यामस्त्यजतमसुरान्द्विजौ । ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥ ६५ एवं तत्यजतुस्तौ तु षण्डामकौँ तदाऽसुरान् । ततो देवा जयं प्राप्ता दानवाश्च पराभवन् ॥ ६६ +देवाऽसुरानपराभाव्य षण्डामर्कावुपागमन् । काव्यशापाभिभूताश्च अनाधाराश्च ते पुनः ॥ ६७ बध्यमानास्तदा देवैर्विविविशुस्ते रसातले । एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः ॥ ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ ६८ जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः । कर्तुं धर्मव्यवस्थानमधर्मस्य च नाशनम् ॥ ६९ प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः । मनुष्यवध्यांस्तान्सर्वान्प्रह्लाऽनुव्याहरत्प्रभुः ॥ ७० धर्मात्मानारायणस्तस्मात्सम्भूतश्चाक्षुषेऽन्तरे । यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥ ७१ प्रादुर्भावे तदाऽन्यस्य बलेरासीत्पुरोहितः । चतुर्थ्यां तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥ ७२ संभूदः स समुद्रान्तहिरण्यकशिपोर्वधे । द्वितीयो नरसिंहोऽभूद्रुद्रः सुरपुरस्सरः ॥ ७३ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे । दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥ ७४ संक्षिप्याऽऽत्मानमङ्गेषु बृहस्पतिपुरस्सरम् । यजमानं तु दैत्येन्द्रमदित्याः कुलन्दनः ।! द्विजो भूत्वा शुभे काले बलिं वैरोचनं पुरा ॥ ७५ त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् । दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ ७६ ददामीत्येव तं राजा बलिवैरोचनोऽब्रवीत् । वामनं तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥ ७७ स वामनो दिवं खं च पृथिवीं च द्विजोत्तमः । त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ ७८ अत्यरिच्यत भूतात्मा भास्करं स्वेन वेजसा । प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ ७९
* अत्र संधिरार्षः । + अत्र संधिरार्षः ।
३६८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९८-श्लो० ८०-१०५] (विष्णुमाहात्म्यकथनम्)
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः ॥ ८० सपुत्रपौत्रानसुरान्पातालतलमिनयत् ॥ ८० नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना । क्रूरा हता विनिर्धूता दिशः संप्रतिपेदिरे ॥ ८१ महाभूतानि भूतात्मा सविशेषाणि माधवः । कालं च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥ ८२ तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किंचिदस्ति लोकेषु यद्व्याप्तं महात्मना ॥ ८३ तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः । दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥ ८४ बलिः सितो महापाशैः सबन्धुः ससुहृद्गणः । विरोचनकुलं सर्वं पाताले संनिवेशितम् ॥ ८६ ततः सर्वार्मरैश्वर्यं दत्त्वेन्द्राय महात्मने । मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥ ८७ एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत॥८८ त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥ ८९ ( *पञ्चमः पञ्चदश्यां तु त्रेतायां संभव ह । मांधातुश्चक्रवर्तित्वे तस्थौ तथ्यपुरःसरः ॥ ९० एकोनविंशे त्रेतायां सर्वक्षत्रान्तकोऽभवत् । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसर ) ॥ ९१ चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ ९२ अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातुकर्णपुरःसरः ॥ ९३
- तथैव नवमो विष्णुरदित्याः कश्यपात्मजः । देवक्यां वसुदेवात्तु ब्रह्मन्गार्ग्यपुरःसरः ॥ ९४ अप्रमेयो नियोज्यश्च यत्र कामचरो वशी । क्रीडते भगवाँल्लोके बालः क्रीडनकैरिव ॥ ९५ न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः । परं परममेतस्माद्विश्वरूपान्न विद्यते ॥ ९६ अष्टविंशतितमे तद्वद्द्वापरस्यांशसंक्षये । नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥ ९७ कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ ९८ प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् । विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥ ९९ यत्र कंसं च साल्वं च द्विविदं च महासुरम् । अरिष्टं वृषभं चैव पूतनां केशिनं हयम् ॥ १०० नागं कुवलयापीडं मल्लराजगृहाधिपम् । दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥ १०१ छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकेश्च हतः संख्ये यवनश्च महाबलः ॥ १०२ हतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश्च निहता पार्थिवा ये रसातले ॥ १०३ एते लोकहितार्थाय प्रादुर्भावा महात्मनः । अस्मिन्नेव युगे क्षीणे संध्याश्लिष्टे भविष्यति ॥ कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥ १०४ अनुकर्षन्सर्वसेनां हस्त्यश्वरथसंकुलाम् । प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥ १०५ नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् । उदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥
* एतच्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अयं श्लोको न विद्यते घ. ङ पुस्तकयोः ।
[अ० ९८-९९श्लो० १०७-१२५।१-३] वायुपुराणम् । ३६९
( तुर्वस्वादि वंशकथनम् )
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारान्पारदांश्चैव पल्हवान्यवनाञ्शकान् ॥ १०७
तुषारान्बर्बरांश्चैव पुलिन्दान्दरदान्खसान् । लम्पकानन्ध्रकान्रुद्धान्विकरातांश्चैव स प्रभुः ॥ १०८
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्वली । अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ १०९
मानवः स तु संजज्ञे देवस्यांशेन धीमतः । पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥ ११०
गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत् । इत्येतास्तस्य देवस्य दश संभूतयः स्मृताः ॥ १११
तं तं कालं च कार्यं च तत्तदुद्दिश्य कारणम् । अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥
पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः । विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ॥ ११३
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा । संघातयित्वा वृषलान्प्रायशास्तानधार्मिकान् ॥ ११४
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः । कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥
अकस्मात्कुपिताऽन्योन्यं भविष्यन्ति च मोहिताः । क्षपयित्वा तु तान्सर्वान्भाविनाऽर्थेन चोदितान् ॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः । ततो व्यतीते कल्कौ तु सामान्यैः(त्यै) सह सैनिकैः ॥
नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः । रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥ ११८
परास्परहताश्वासा निराक्रन्दाः सुदुःखिताः । पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥
प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा । ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ॥ १२०
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः । चीरपत्राजिनधराः संकरं घे र्मास्थिताः ॥ १२१
अल्पायुषो नष्टवार्ता बह्वाबाधाः सदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसंध्यांशके तदा ॥ १२२
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन तु । क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ॥ १२३
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा । इत्येतत्कीर्तितं सर्वं देवासुरविचेष्टितम् ॥ १२४
यदुवंशप्रसङ्गेन महद्भो वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पुरोर्दुह्योरनोस्तथा । १२५
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमहात्म्यकथनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-९०८
अथ नवनवतितमोऽध्याय ।
तुर्वस्वादि वंशवर्णनम् ।
तुर्वसोस्तु सुतो बह्निर्वह्नेर्गर्भोऽनुरात्मजः । गोभानोस्तु सुतो वीरास्त्रिसानुरपराजितः ॥ १
करन्धमस्त्रिसानोस्तु मरुत्तस्य तु चाऽऽत्मजः । अन्येस्त्वविक्षितो राजा मरुत्तः कथितः पुरा ॥ २
अनपत्यो मरुत्तस्तु स राजाऽऽसीदिति श्रुतः । दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥ ३
४७
३७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-२९] ( तुर्वस्वादिवांशकथनम् )
एवं ययातिशांपेन जरायाः संक्रमेण तु । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ४
दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः । शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥ ५
पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च । तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६
द्रुह्यस्य तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ । । अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥ ७
यौवनाश्वेन समिति कृच्छ्रेण निहतो बली । युद्धं सुमहदासीत्तु मासान्परि चतुर्दश ॥ ८
अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः । ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ ९
गान्धारदेशजाश्चापि तुरगा वाजिनां वराः । गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ १०
धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चाऽऽत्मजः । प्रचेतः पुत्रशतं राजानः सर्व एव ते ॥ ११
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः । अनोः पुत्रा महात्मानस्त्रयः परमधार्मिकाः ॥ १२
सभानरश्च पक्षश्च परपक्षस्तथैव च । सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३
* कालानलस्य धर्मात्मा सृञ्जयो नाम धार्मिकः । सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरंजयः ॥ १४
जनमेजयो महासत्त्वः पुरंजयसुतोऽभवत् । जनमेजयस्य राजर्षेर्महाशालोऽभवन्नृपः ॥ १५
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाः दिवि । महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ १६
÷ सप्तद्वीपेश्वरो राजा चक्रवर्ती महायशाः । महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥ १७
उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् । उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १८
मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥ १९
मृगायास्तु मृगः पुत्रो नवाया नव एव तु । कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥ २०
दृषद्वतीसुतश्चापि शिबिरौशीनरो द्विजः । शिबेः शिवपुरं ख्यातं यौधेयं तु मृगस्य तु ॥ २१
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाऽऽम्बष्ठा शिविपुत्रान्निबोधत ॥ २२
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः । वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥ २३
तेषां जनपदाः स्फीताः केकया मद्रकस्तथा । वृषदभीः सूचिदर्भास्तितिक्षोः शृणुत प्रजाः ॥ २४
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥ २५
हेमस्य सुतपा जज्ञे सुतः सुतयशा बली । जातो मनुष्ययोन्यां वै क्षीण वंशे प्रजेप्सया ॥ २६
महायोगी स तु बलिवंशदो यः स महामनाः । पुत्रानुत्पादयामास चातुर्वर्ण्यकरान्भुवि ॥ २७
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कालिङ्गं च तथा बालेयं क्षत्रमुच्यते ॥ २८
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः । बलेस्तु ब्रह्मणा दत्ताः वराः प्रीतेन धर्मतः ॥ २९
* एतदादिश्लोकद्वयं ग पुस्तके नास्ति । ÷ अयं श्लोको न विद्यते ख पुस्तके ।
[अ० ९९ श्लो० ३०–५५] वायुपुराणम् । ३७१ ( तुर्वस्वादि वंशकथनम् ) माहैद्योगित्वमायुश्च कल्पाद्युःपरिमाणकम् । सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥ ३० त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३१ चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति च । इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ॥ ३२ कालेन महता विद्वांस्त्वं वै स्थानमुपागतः । तेषां जनपदाः स्फीता वङ्गाङ्गसुलकास्तथा ॥ ३३ पुण्ड्राः कालिङ्गाश्च तथा तेषां वंशं निबोधत । तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ॥ संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ ३४ ऋषय ऊचुः— कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो । ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥ ३५ सूत उवाच— अशिजो नाम विख्यातः आसीद्धीमानृषिः पुरा । भार्या वै ममता नाम बभूवास्य महात्मनः ॥ ३६ अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ ३७ उवाच ममता तं तु बृहस्पतिमनिच्छती । अन्तर्वत्न्यास्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति* ॥ ३८ अयं हि मे महागर्भो रोचतेऽति बृहस्पते । अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमृद्धिरन् ॥ ३९ अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥ ४० एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं महात्माऽपि नाऽऽत्मानं सोऽभ्यधारयत् ॥ ४१ संबभूवव धर्मात्मा तथा सार्धं बृहस्पतिः । +(उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥ ४२ नोत्खातक न्यसे (?) ह्यस्मिन्द्दयोर्नेहास्ति संभवः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहाऽऽगतः ॥ ४३ शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । ] उशिजं तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४४ यस्मत्त्वमीदृशे काले सर्वभूतेप्सिते सति । मामेवमुक्तवान्मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥ ४५ ततो दीर्घतमा नाम शापादृषिरजायत । अथाशिजो बृहत्कीर्तिर्बृहस्पतिरिवौजसा ॥ ४६ ऊर्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे । गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान्प्रभो ॥ ४७ तस्य भ्राता पितृव्यस्तु चकार भवनं तदा । तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ ४८ दर्शार्थमाहतान्दभ्रींश्चचार सुरभीवृतः । जग्राह तं दीर्घतमा विस्फुरन्तं च शृङ्गयोः ॥ ४९ स तेन निगृहीतस्तु न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ५० न मयाऽऽसादितस्तात बलवांस्त्वद्विधः क्वचित् । त्र्यम्बकं वहता देवं यतो जातोऽस्मि(सि)भूतले ॥ ५१ मुञ्च मां बलिनां श्रेष्ठ प्रीतस्तेऽहं वरं वृणु । एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ ५२ तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् । ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ ५३ नास्माकं विद्यते तात पातकं स्तेयमेव वा । भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ ५४ कार्याकार्यं न वै विद्मो गम्यागम्यं तथैव च । न पाप्मानो वयं विप्र धर्मो ह्येष गवां स्मृतः ॥ ५५
* ज्येष्ठस्येत्यादिपादस्त्रुटितो ग. घ. ङ. पुस्तकेषु ।
+ एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति ।
| ३७२ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० १९ श्लो० ५६-७९] |
|---|---|---|
| ( तुर्वस्वादिवंशकथनम् ) |
गवां नाम स वै श्रुत्वा संभ्रान्तस्त्वनुमुच्य तम् । भक्त्या चाऽऽनुश्रविक्या गोषु तं वै प्रसादयत् ॥ ५६
प्रसादिते गते तस्मिन्गोधर्मं भक्तितस्तु तम् । मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ॥ ५७
ततो यवीयसः पत्नीमोतथ्यस्याभ्यमन्यत । विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥ ५८
अवलेपं तु तं मत्वा शरद्वांस्तस्य नाक्षमत् । गोधर्मं वै बलं कृत्वा स्नुषां स सममन्यत ॥ ५९
विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रत्यचिन्तयत् । भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ॥
प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः । गम्यागम्यं न जानीषे गोधर्मान्प्रार्थयन्स्नुषाम् ॥ ६१
दुर्वृत्तस्त्वं त्यजाम्येष गच्छ त्वं सेन कर्मणा । यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥
तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ॥ ६२
सूत उवाच--
कर्मण्यास्मिंस्ततः क्रूरे तस्य बुद्धिरजायत । निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च ॥
कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ॥ ६३
उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा । तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥
अपश्यन्मज्जमानं तु सोऽयसाऽभ्याशमागतम् ॥ ६४
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा । अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ॥ ६५
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् । स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः ॥ ६६
बलिरुवाच--
संतानार्थं महाभाग भार्यायां मम मानद । पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ॥ ६७
एवमुक्तस्तु तेनर्षिस्तथाऽस्त्वित्युक्तवान्हितम् । सुदेष्णां नाम भार्या स्वां राजाऽस्मै प्राहिणोत्तदा ॥ ६८
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह । स्वां च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ॥ ६९
कक्षीवच्छुकुषौ तस्यां शूद्रयोन्यास्मृषिर्वशी । जनयामास धर्मात्मा पुत्रावेतौ महौजसौ ॥ ७०
कक्षीवच्छुकुषौ तौ तु दृष्ट्वा राजा बलिस्तदा । प्राधीतौ विधिवत्सम्यगधिरौ ब्रह्मवादिनौ ॥ ७१
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमाषपि । ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ॥ ७२
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् । उत्पन्नौ शूद्रयोनौ तु भवञ्छद्मासुरोत्तमौ ॥ ७३
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ॥ ७४
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः ॥ ७५
पुनश्चैनामलंकृत्य ऋषये प्रत्यपादयत् । तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ॥ ७६
दध्ना लवणमिश्रेण स्व (सु) व्यक्तं नग्नकं तथा । लिहिष्यस्यजुगुप्सन्ती आपादतलमस्तकम् ॥ ७७
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् । तस्य सा तद्वचो देवी सर्वं कृतवती तथा ॥ ७८
अपानं च समासाद्य जुगुप्सन्ती न्यवर्जयत् । तामुवाच ततः सर्षिर्यंते परिहृतं शुभे ॥
विनाऽपानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ ७९
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह । नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ८०
[अ० १९ श्लो० ८०-१०३] वायुपुराणम् । ३७३ ( तुर्वस्वादि वंशकथनम् )
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह । नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ ८० ( * ऋषिरुवाच— तवापराधो देव्येष नान्यथा भविता नु वै । देवीदानीं च ते पुत्रमहं दास्यामि सुव्रते ॥ ८१ तस्यापानं विना चैव योग्याभावो (?) भविष्यति ।) तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ८२ प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते । तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ ८३ भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः । तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ ८४ ततोऽङ्गरस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत । वङ्गस्तस्मात्कलिङ्गरस्तु पुण्ड्रो ब्रह्मस्तथैव च ॥ ८५ वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा । + इत्येतं दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ ८६ प्रजास्त्वपहतास्तस्य ब्रह्मणो कारणं प्रति । अपत्यमस्य दारेषु स्वेषु मा भून्महात्मनः ॥ ८७ ततो मनुष्ययोन्यां वै जनयामास स प्रजाः । सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ॥ ८८ विचार्य यस्माद्धर्मं त्वमेवं कृतवानसि । तेन न्यायेन मुमुचे अहं प्रीतोऽस्मि तेन ते ॥ ८९ तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै । बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ ९० जरामृत्युभयं चैव आघ्राय प्रणुदामि ते । आघ्रातमात्रः सोऽपश्यत्सद्यस्तमसि नाशिते ॥ ९१ आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् । गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ॥ ९२ कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम् । यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ॥ ९३ ततः कालेन महता तपसा भावितः स वै । विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥ ९४ ततोऽब्रवीत्पिता चैनं पुत्रवानस्म्यहं प्रभो । सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ॥ ९५ युक्तात्मा हि ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् । ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥ ९६ कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः । इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ ९७ समागमः समाख्यातः संतानं चोभयोस्तयोः । बलिस्तानमिसिच्च्येह पञ्च पुत्रानकल्मषान् ॥ ९८ कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः । अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ॥ तत्राङ्गस्य तु राजर्षे राजाऽऽसीद्दधिवानः । सापराधसुदेष्णाया अनपानोऽभवन्नृपः ॥ १०० अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः । पुत्रो दिविरथस्याऽऽसीद्विद्वान्धर्मरथो नृपः ॥ १०१ × स वै धर्मरथः श्रीमान्येन विष्णुपदे गिरौ । सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ॥ १०२ सूनुर्धर्मरथस्यापि राजा चित्ररथोऽभवत् । ( अथ चित्ररथस्यापि राजा दशरथोऽभवत् ॥ लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ॥ १०३
* एतच्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इत्येत इत्यारभ्य संतानं चोभयोस्तयोरित्यन्त-ग्रन्थ ख. घ. पुस्तकयोर्नास्ति । × इत आरभ्य अन्यश्च भविता नृप इत्यग्रन्थो न विद्यते ग. पुस्तके । ( इदमर्धं न विद्यते क. घ. पुस्तकयोः ।
| ३७४ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ०१९श्लो०१०४-१२७] |
|---|---|---|
| (तुर्वस्वादिवंशकथनम्) |
[ *स तु दाशरथिर्वीरश्चतुरङ्गो महामनाः । ऋष्यशृङ्गप्रसादेन जज्ञेऽथ कुलवर्धनः ॥ १०४
चतुरङ्गश्च पुत्रस्तु पृथुलाक्ष इति श्रुतः । पृथुलाक्षसुतश्चापि चम्पो नाम बभूव ह ॥
चम्पस्य तु पुरी रम्या रम्या या मालिनी भवत् ॥ ] १०५
+ चम्पावती पुरी चम्पा चतुर्वर्णा च वै वसत् । षष्टिवर्षसहस्राणि चम्पावत्यां पुराऽवसत् ॥ १०६
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वै स्वधर्मनुष्ठिते । सर्वे धर्मं वै तपसा सर्वे विष्णुपरायणाः(?) ॥
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ १०७
जज्ञे वै ताण्डिकरतस्य वारणं शुक्रवारणम् । आनयामास स महीं मन्त्रैर्वाहनमुत्तमम् ॥ १०८
हर्यङ्गस्य तु राजा दायादो भद्ररथः किल । अथ भद्ररथस्याऽऽसीद्बृहत्कर्मा प्रजेश्वरः ॥ १०९
बृहद्रथः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः । बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥ ११०
नाम्ना जयद्रथं नाम तस्माद्दढरथो नृपः । आसीद्दढरथस्यापि विश्वाजिज्जनमेजयः ॥ १११
दायादस्तस्य चाङ्गेभ्यो यस्मात्कर्णोऽभवन्नृपः । कर्णस्य सुरसेनस्तु द्विजस्तस्याऽऽत्मजः स्मृतः ॥११२
ऋषय ऊचुः—
सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः । एतदिच्छाम वै श्रोतुमत्यर्थं कुशलो ह्यसि ॥ ११३
सूत उवाच—
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः । तस्य पत्नीद्वयं चाऽऽसीच्चैद्यस्योभे च ते सुते ॥
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते । जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ॥ ११५
ब्रह्मक्षत्रान्तरः सत्यविजयो नाम विश्रुतः । विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ॥ ११६
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः । सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ॥ ११७
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः । एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ॥ ११८
सूत उवाच—
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । विस्तरेणाऽनुपूर्व्या च पुरोस्तु शृणुत प्रजाः ॥ ११९
पुरोः पुत्रो महाबाहुराजाऽऽसीज्जनमेजयः । अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ॥ १२०
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः । राजाऽथो जयदो नाम मनस्योरभवत्सुतः ॥ १२१
(÷दायादस्तस्य चाप्यासीद्दुन्धुर्नाम महीपतिः । धुन्धोर्बहुगवी पुत्रः संजातिस्तस्य चाऽऽत्मजः ॥ १२२
संजातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत ) । रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ १२३
राजेयुश्च कृतेयुश्च कक्षेयुः स्थण्डिलेयु च । धृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ॥ १२४
धर्मेयुः संनतेयुश्च वनेयुर्दशमस्तु सः । रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ॥ १२५
तला खला च सम्पैता या च गोपजला स्मृता । तथा ताम्ररसा चैव रत्नकूटी च ता दश ॥ १२६
आत्रेयो वंशतस्तासां भर्ता नाम्ना प्रभाकरः । अनाधृष्टस्तु राजर्षी रिवेयुस्तस्य चाऽऽत्मजः ॥ १२७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेष्वेव ।
+ एतच्छ्लोकद्वयं घ. ङ. पुस्तकयोर्न ।
÷ एतच्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ०९९श्लो०१२८-१५३] वायुपुराणम् । ३७५
( तुर्वस्वादि वंशकथनम् )
रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा । यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ॥ १२८ रन्तिनारः सरस्वत्यां पुत्रानजनयच्छुभान् । त्रसुं तथाऽप्रतिरथं ध्रुवं चैवातिधार्मिकम् ॥ १२९ गौरी कन्या च विख्याता मांधातुर्जननी शुभा । धुर्योऽप्रतिरथस्यापि कण्ठस्तस्याभवत्सुतः ॥ १३० मेधातिथिः सुतस्तस्य यस्मात्काण्ठायना द्विजाः । इतिनानुयम (?) स्याऽऽसीत्कन्या साऽजनयत्सुतान् त्रसोः सुदायितं पुत्रं मलिनं ब्रह्मवादिनम् । उपदान्तं ततो लेभे चतुरस्तिवति साऽऽत्मजान् ॥ १३२ सुष्मन्तमथ दुष्म (ष्य)न्तं प्रवीरमनघं तथा । चक्रवर्ती ततो जज्ञे दौष्म (ष्य)न्तिर्नृपसत्तमः ॥ १३३ शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् । दुष्म (ष्य)न्तं राजानं प्रति वागुवाचाशरीरिणी ॥ १३४ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भर स्वपुत्रं दुष्मन्त सत्यमाह शकुन्तला ॥ १३५ रेतोधाः पुत्रं नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य माऽवमंस्थाः शकुन्तलाम् ॥ १३६ भरतस्त्विषु स्त्रीषु नव पुत्रानजीजनत् । नाभ्यनन्दच्च तान्राजा नानुरूपान्ममेत्युत ॥ १३७ ततस्ता मातरः क्रुद्धाः पुत्रान्निन्पुर्यमक्षयम् । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥ १३८ ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ॥ १३९ तत्रैवोदाहरन्तीदं भरद्वाजस्य धीमतः । जन्मसंक्रमणं चैव मरुद्भिर्भरताय वै ॥ १४० पत्न्यामासन्नगर्भायामुसिजः संस्थितः किल । भ्रातृभार्यां स दृष्ट्वाऽथ बृहस्पतिरुवाच ह ॥ अलंकृत्यो तनुं स्वां तु मैथुनं देहि मे शुभे ॥ १४१ एवमुक्ताऽब्रवीद्दे [* नमन्तर्वत्नी ह्यहं विभो । गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ॥ १४२ अमोघरेतास्त्वं चापि धर्मश्चैव विगर्हितः । एवमुक्तोऽब्रवीदेनां ] स्मयमानो बृहस्पतिः ॥ १४३ विनयो नोपदेष्टव्यस्ततया मम कथं चन । हर्षमाणः प्रसभैनां मैथुनायोपचक्रमे ॥ १४४ ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह । संनिविष्टो ह्यहं पूर्वमिह तात बृहस्पते ॥ १४५ अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः । एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ॥ १४६ यस्मान्मामीदृशे काले सर्वभूतोप्सिते सति । प्रतिषेधसि तत्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ १४७ पादाभ्यां तेन तच्छन्नं मातृद्वारं बृहस्पतेः । तदस्तस्तु तयोर्मध्येऽनिवार्यः शिशुकोऽभवत् ॥ १४८ सद्योजातं कुमारं तं दृष्ट्वाथ ममताऽब्रवीत् । गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ॥ १४९ एवमुक्त्वा गतायां स पुत्रं त्यजति तत्क्षणात् । भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ॥ १५० (+मातापितृभ्यां संत्यक्तं दृष्ट्वाऽथ मरुतः शिशुम् । गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ॥ १५१ तस्मिन्काले तु भरतो मरुद्भिः क्रतुभिः क्रमात् । ) काम्यनैमित्तिकैर्यज्ञैर्यजतेते पुत्रलिप्सया ॥ १५२ यदा स यजमानो वै पुत्रान्नाऽऽसादयत्प्रभुः । यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ॥ १५३
* धनुश्चिह्नान्तर्गतपन्यः ख. पुस्तके न । + धनुश्चिह्नान्तर्गतपन्थो न घ. पुस्तके ।