वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
इस चित्र में कोई पाठ्य सामग्री (टेक्स्ट/श्लोक) उपलब्ध नहीं है। यह केवल पुस्तक की जिल्द (बाइंडिंग/स्पाइन) का भाग है।
इस चित्र में कोई पाठ्य सामग्री (टेक्स्ट/श्लोक) उपलब्ध नहीं है। यह केवल पुस्तक की जिल्द (बाइंडिंग/स्पाइन) का भाग है।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ पूरी तरह से रिक्त (blank) है।
आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः
[ ४९ ]
महामुनिश्रीमद्व्यासप्रणीतं
वायुपुराणम् ।
एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
तच्च
आनन्दाश्रमविश्वस्तैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
नूतनावृत्तिः ।
शालिवाहनशकाब्दाः १९०५
ख्रिस्ताब्दाः १९८३
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) ।
मूल्यम्-पञ्चाशद्रूप्यकाः । [ रु. ५० ]
॥ श्रीगोपालचरणौ शरणं मम ॥
ग्रन्थाङ्कः [ ४४ ]
श्रीशौनकमुनिविरचिता ॥ माण्डूकीशिक्षा ॥
। सुबोधिनीटीका-नेपालभाषानुवादसहिता ॥
सम्पादक पण्डितश्री... नेपाल
...
आदर्शपुस्तकोल्लेखपत्रिका ॥
अथैतस्य वायुपुराणस्य पुस्तकानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते--
( क. ) इति संज्ञितम्--कलिकत्तास्थं मुद्रितम् ।
( ख. ) इति संज्ञितम्--बटोदरग्रामनिवासिनां रा. रा. 'बाप्यासा० मैराळ' इत्येतेषाम् ।
( ग. ) इति संज्ञितम्--पुण्यपत्तननिवासिनां रा. रा. 'तात्यासा० खाजगीवाले ।
इत्येतेषाम् ।
( घ. ) इति संज्ञितम्--रा. रा. 'शिवराव माधवराव पोतनीस' इत्येतेषाम् ।
( ङ ) इति संज्ञितम्--संस्थान मिरजमळास्थं रा. रा. 'गङ्गाधर गोविन्द पटवर्धन
इत्येतेषाम् ।
समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।
(इस पृष्ठ पर छपा हुआ पाठ अत्यधिक धुंधला/अति-उजागर (overexposed) होने के कारण अपठनीय है। / The text on this scanned page is completely faded/overexposed and illegible.)
[ ८ ]
वायुपुराणम्।
अनुक्रमणिका।
| अध्यायक्रमः | शीर्षकम्। | श्लोकाः | अध्यायक्रमः | शीर्षकम्। | श्लोकाः |
|---|---|---|---|---|---|
| १ | अनुक्रमणिका | २०५ | ३० | दक्षशापः | १२१ |
| २ | द्वादशवार्षिकं सत्रम् | ४५ | ३१ | देववंशः | ६१ |
| ३ | प्रजापतिसृष्टिकथनम् | २४ | ३२ | युगधर्मः | ६६ |
| ४ | सृष्टिप्रकरणम् | ९२ | ३३ | स्वायंभुववंशः | ६५ |
| ५ | सृष्टिप्रकरणम् | ५४ | ३४ | जम्बुद्वीपवर्णनम् | ९६ |
| ६ | सृष्टिप्रकरणम् | ७९ | ३५ | जम्बुद्वीपम् | ४६ |
| ७ | प्रतिसंधिकीर्तनम् | ८० | ३६ | भुवनविन्यासः | ३३ |
| ८ | चतुराश्रमविभागः | २०९ | ३७ | भुवनविन्यासः | ३० |
| ९ | देवादिसृष्टिः | २२२ | ३८ | भुवनविन्यासः | ७८ |
| १० | मन्वंतरवर्णनम् | ९४ | ३९ | भुवनविन्यासः | ६४ |
| ११ | पाशुपतयोगः | ६३ | ४० | भुवनविन्यासः | २६ |
| १२ | योगोपसर्गः | ४२ | ४१ | भुवनविन्यासः | ९० |
| १३ | योगैश्वर्यनिरूपणम्ः | २४ | ४२ | भुवनविन्यासः | ८१ |
| १४ | पाशुपतयोगनिरूपणम् | ४२ | ४३ | भुवनविन्यासः | ३८ |
| १५ | पाशुपतयोगनिरूपणम् | १७ | ४४ | भुवनविन्यासः | २५ |
| १६ | शौचाचारलक्षणम् | २४ | ४५ | भुवनविन्यासः | १३७ |
| १७ | परमाश्रमविधिः | ८ | ४६ | भुवनविन्यासः | ३७ |
| १८ | यतिप्रायश्चित्तविधिः | २३ | ४७ | भुवनविन्यासः | ८० |
| १९ | अरिष्टनिरूपणम् | ४३ | ४८ | भुवनविन्यासः | ४१ |
| २० | ॐकारप्राप्तिलक्षणम् | ३९ | ४९ | भुवनविन्यासः | १८६ |
| २१ | कल्पनिरूपणम् | ८१ | ५० | ज्योतिषप्रचारः | २२१ |
| २२ | कल्पसंख्यानिरूपणम् | ३० | ५१ | ज्योतिषप्रचारः | ७९ |
| २३ | माहेश्वरावतारयोगः | ४२ | ५२ | ज्योतिषप्रचारः | ९९ |
| २४ | शार्वस्तवः | १६ | ५३ | ज्योतिःसंनिवेशः | १२३ |
| २५ | मधुकैटभोत्पत्तिविनाशः | ९२ | ५४ | नीलकंठस्तवः | ११७ |
| २६ | स्वरोत्पत्तिः | ४२ | ५५ | लिङ्गोद्भवस्तवः | ६८ |
| २७ | महादेवतनुवर्णनम् | ६० | ५६ | पितृवर्णनम् | ९३ |
| २८ | ऋषिवंशानुकीर्तनम् | ३९ | ५७ | यज्ञवर्णनम् | १२५ |
| २९ | अग्निवंशः | ४८ | ५८ | चतुर्युगाख्यानम् | १२५ |
[ २ ]
| अध्यायक्रमः | शीर्षकम् । | श्लोकाः | अध्यायक्रमः | शीर्षकम् । | श्लोकाः |
|---|---|---|---|---|---|
| ५९ | ऋषिलक्षणम् | १४२ | ८६ | तत्र वैवस्वतमनुवंशगांधर्वमूर्छनाकथनम् | ६९ |
| ६० | महास्थानतीर्थवर्णनम् | ७५ | ८७ | गीतालंकारनिर्देशः | ४६ |
| ६१ | प्रजापतिवंशः | १८६ | ८८ | वैवस्वतमनुवंशवर्णनम् | २१५ |
| ६२ | पृथिवीदोहनम् | १९२ | ८९ | वैवस्वतमनुवंशकीर्तनम् | २३ |
| ६३ | पृथुवंशः | ५६ | ९० | सोमजन्मविवरणम् | ४९ |
| ६४ | वैवस्वतसर्गः | ३० | ९१ | चंद्रवंशकीर्तनम् | ११ |
| ६५ | प्रजापतिवंशः | १५८ | ९२ | चंद्रवंशकीर्तनम् | ९० |
| ६६ | कश्यपीयप्रजासर्गः | १५२ | ९३ | चंद्रवंशवर्णनम् | १०० |
| ६७ | कश्यपीयप्रजासर्गः | १३५ | ९४ | कार्तवीर्यार्जुनोत्पत्तिवर्णनविवरणम् | ५६ |
| ६८ | कश्यपीयप्रजासर्गः | ३९ | ९५ | ज्यामघवृत्तांतकथनम् | ४५ |
| ६९ | कश्यपीयप्रजासर्गः | ३५५ | ९६ | विष्णुवंशवर्णनम् | २५ |
| ७० | ऋषिवंशानुकीर्तनम् | ९१ | ९७ | विष्णुमाहात्म्यकीर्तनम् | २० |
| ७१ | श्राद्धप्रक्रियारंभः | ७६ | ९८ | विष्णुमाहात्म्यकीर्तनम् | १२६ |
| ७२ | श्राद्धकल्पः | ५० | ९९ | तुर्वस्वादिंवंशवर्णनम् | ४६४ |
| ७३ | श्राद्धकल्पः | ७३ | १०० | मन्वंतरनिसर्गवर्णनम् | २४६ |
| ७४ | श्राद्धकल्पः | ३२ | १०१ | भूर्लोकादिव्यवस्थावर्णनम् | ३५५ |
| ७५ | श्राद्धकल्पः | ७७ | १०२ | प्रतिसर्गवर्णनम् | १३४ |
| ७६ | श्राद्धकल्पः | ४३ | १०३ | अथ सृष्टिवर्णनम् | ७३ |
| ७७ | श्राद्धकल्पः | १३३ | १०४ | व्याससंशयापनोदनम् | ११० |
| ७८ | श्राद्धकल्पः | ७८ | १०५ | गयामाहात्म्यम् | ४९ |
| ७९ | श्राद्धकल्पः | ९५ | १०६ | गयामाहात्म्यम् | ८६ |
| ८० | श्राद्धकल्पे दानफलम् | ६२ | १०७ | गयामाहात्म्यम् | ५८ |
| ८१ | श्राद्धकल्पे तिथिविशेषे श्राद्धफलम् | २४ | १०८ | गयामाहात्म्यम् | ९१ |
| ८२ | श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषः, गयाश्राद्धादिफलम्, ब्राह्मणपरीक्षादिकथनम् | १२९ | १०९ | गयामाहात्म्यम् | ५५ |
| ८४ | श्राद्धकल्पे वरुणवंशवर्णनम् | ८६ | ११० | गयामाहात्म्यम् | ६६ |
| ८५ | श्राद्धकल्पे वैवस्वतमनुवंशवर्णनम् | २८ | १११ | गयामाहात्म्यम् | ८४ |
| ११२ | गयामाहात्म्यम् | ६८ |
प्रथमोऽध्यायः ।
ॐ तत्सद्ब्रह्मणे नमः ।
श्रीमद्वैपायनमुनिप्रणीतम्
वायुपुराणम् ।
तत्र प्रक्रियापादे
प्रथमोऽध्यायः ।
अनुक्रमणिका ।
* नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्याऽऽस्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २
प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् । महादेवं महात्मानं सर्वस्य जगतः पतिम् ॥ ३
ब्रह्माणं लोकर्तारं सर्वज्ञमपराजितम् । प्रभुं भूतभविष्यस्य सांप्रतस्य च सत्पतिम् ॥ ४
ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ ५
य इमान्पश्यते भावान्नित्यं सदसदात्मकान् । आविशन्ति पुनस्तं वै क्रियाभावार्थमीश्वरम् ॥ ६
लोकअलोकतत्त्वज्ञो योगमास्थाय तत्त्ववित् । असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम् । पुराणाख्यानाजिज्ञासुर्व्रजामि शरणं प्रभुम् ॥ ८
ब्रह्मवायुमहेन्द्रेभ्यो नमस्कृत्य समाहितः । ऋषीणां च वरिष्ठाय वासिष्ठाय महात्मने ॥ ९
तन्नप्त्रे चातियशसे जातूकर्णा( र्ण्या )य चर्षये । वसिष्ठायैव शुचये कृष्णद्वैपायनाय च ॥ १०
पुराणं संप्रवक्ष्यामि ब्रह्मलोकं वेदसंमितम् । धर्मार्थन्यायसंयुक्तैरागमैः सुविभूषितम् ॥ ११
असीमकृष्णे विक्रान्ते राजन्येऽनुपमत्विषि । प्रशासतीमां धर्मेण भूमिं भूमिसत्तमे ॥ १२
ऋषयः संशितात्मानः सत्यव्रतपरायणाः । ऋजवो नष्टरजसः शान्ता दान्ता जितेन्द्रियाः ॥ १३
धर्मक्षेत्रे कुरुक्षेत्रे दीर्घसत्रं तु ईजिरे । नद्यास्ती दृषद्वत्याः पुण्यायाः शुचिरोधसः ॥ १४
दीक्षितास्ते यथाशास्त्रं नैमिष्यारण्यगोचराः । द्रष्टुं तान्स महाबुद्धिः सूतः पौराणिकोत्तमः ॥ १५
लोमानि हर्षयांचक्रे श्रोतॄणां यत्सुभाषितैः । कर्मणा प्रथितस्तेन लोकेऽस्मिंल्लोमहर्षणः ॥ १६
तपःश्रुताचारनिधेर्वेदव्यासस्य धीमतः । शिष्यो बभूव मेधावी त्रिषु लोकेषु विश्रुतः ॥ १७
* एतच्छ्लोकद्वयं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
२ श्रीमद्वैपायनमुनिप्रणीतम्- [ अ ० १ श्लो ० १८-४६] ( अनुक्रमणिका )
पुराणवेदो ह्यखिलस्तस्मिन्सम्पक्प्रतिष्ठितः । ( * भारती चैव विपुला महाभारतवर्धिनी ॥ १८ धर्मार्थकाममोक्षार्थाः कथा यस्मिन्प्रतिष्ठिताः । ) सूक्ताः सुपरिभाषाश्च भूमावोषधयो यथा ॥ १९ स तान्नयायेन सुधियो न्यायविन्मुनिपुंगवान् । अभिगम्योपसंसृत्य नमस्कृत्य कृताञ्जलिः ॥ २० तोषमायास्स मेधावी प्रणिपातेन तानृषीन् । ते चापि सत्रिणः प्रीताः ससदस्या महौजसः ॥ २१ तस्मै साम च पूजां च यथावत्प्रतिपेदिरे । अथ तेषां पुराणस्य शुश्रूषा समपद्यत ॥ २२ दृष्ट्वा तमतिविश्वस्तं विद्वांसं लोमहर्षणम् । तस्मिन्सत्रे गृहपतिः सर्वशास्त्रविशारदः ॥ २३ इङ्गितेर्भावमालक्ष्य तेषां सूतमचोदयत् । त्वया सूत महाबुद्धिर्भगवान्ब्रह्मवित्तमः ॥ २४ इतिहासपुराणार्थं व्यासः सम्यगुपासितः । दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम् ॥ २५ एषां च ऋषिमुख्यानां ( णां ) पुराणं प्रति धीमताम् । शुश्रूषाऽस्ति महाबुद्धे तच्छ्रावयितुमर्हसि ॥ २६ सर्वे हीमे महात्मानो नानागोत्राः समागताः । स्वान्स्वान्वंशान्पुराणैस्तु शृणुयुर्ब्रह्मवादिनः ॥ २७ सपुत्रान्दीर्घसत्रेऽस्मिञ्श्रावयेथा मुनीनथ । दीक्षिष्यमाणैरस्माभिस्तेन प्रागासि संस्मृतः ॥ २८ इति संनोदितः सूतः प्रत्युवाच शुभां गिराम् । श्लक्ष्णां च न्यायसंयुक्तां यां ब्रूयाल्लोमहर्षणः ॥ २९
सूत उवाच--
पूतोऽस्म्यनुगृहीतश्च भवद्भिर्ह्यभिनोदितः । पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः ॥ ३० स्वधर्म एष सूतस्य सन्दिष्टष्टः पुरातनैः । देवतानामृषीणां च राज्ञां चामिततेजसाम् ॥ ३१ वंशानां धारणं कार्यं श्रुतानां च महात्मनाम् । इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः ॥ ३२ न हि वेदेष्वधिकारः कश्चित्सूतस्य दृश्यते । वैन्यस्य हि पृथोर्यज्ञे वर्तमाने महात्मनः ॥ ३३ सुत्यायामभवत्सूतः प्रथमं वर्णवैकृतः । ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः ॥ ३४ जुहावेन्द्राय देवाय ततः सूतो व्यजायत । प्रमादात्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु ॥ ३५ शिष्यहस्त्येन यत्पृक्तमभिभूतं गुरोर्हविः । अधरोत्तरचारेण ( ÷ जज्ञे तद्वर्णवैकृतः ॥ ३६ यच्च क्षत्रात्समवद्व्रह्मण्यवरयोनितः । ततः पूर्वेण साधर्म्यात्तुल्यधर्मा प्रकीर्तितः ॥ ३७ मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥ ३८ तत्स्वधर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः । कस्मात्सम्ब्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ३९ पितॄणां मानसी कन्या वासवी समपद्यत । अपध्याता च पितृभिर्मत्स्ययोनौ बभूव सा ॥ ४० अरणीव हुताशस्य निमित्तं यस्य जन्मनः । तस्यां जातो महायोगी व्यासो वेदविदां वरः ॥ ४१ तस्मै भगवते कृत्वा नमो व्यासाय वेधसे । पुरुषाय पुराणाय भृगुवाक्यप्रवर्तिने ॥ ४२ मानुषच्छद्मरूपाय विष्णवे प्रभविष्णवे । जातमात्रं च यं वेद उपतस्थे ससंग्रहः ॥ ४३ धर्ममेव पुरस्कृत्य जातूकण्यादवाप तम् । मतिं मन्थानमाविध्य येनासौ श्रुतिसागरात् ॥ ४४ प्रकाशं जनितो लोके महाभारतचन्द्रमाः । वेदद्रुमश्च यं प्राप्य सशाखः समपद्यत ॥ ४५ भूमिकालगुणान्प्राप्य बहुशाखो यथा द्रुमः । तस्मादहमुपश्रुत्य पुराणं ब्रह्मवादिनः ॥ ४६
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ० १ श्लो० ४७-७४] वायुपुराणम् । ३
( अनुक्रमणिका )
सर्वज्ञात्सर्ववेदेषु पूजिताद्दीपितेजसः । पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥ ४७ पृष्टेन मुनिभिः पूर्वे नैमिषीयैर्महात्मभिः । महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः ॥ ४८ अचिन्त्यश्चाप्रमेयश्च स्वयंभूर्हेतुरीश्वरः । अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम् ॥ ४९ महदादिविशेषान्तं सृजतीति विनिश्चयः । अण्डं हिरण्मयं चैव बभूवापातिभं ततः ५० अण्डस्याऽऽवरणं चाद्भिरपामपि च तेजसा । वायुना तत्स नभसा नभो भूतादिनाऽऽवृतम् ५१ भूतादिर्महता चैव ) अव्यक्तेनाऽऽवृतो महान् । अतोऽत्र विश्वेदेवानाम्ऋषीणां चोपवर्णितम् ॥ ५२ नदीनां पर्वतानां च प्रादुर्भावोऽत्र शस्यते । मन्वन्तराणां सर्वेषां कल्पानां चोपवर्णनम् ॥ ५३ कीर्तनं ब्रह्मक्षत्रस्य ब्रह्मजन्म च कीर्त्यते । अतो ब्रह्माणि सृष्ट्वैवं प्रजासर्गोपवर्णनम् ॥ ५४ अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वत्सरं चैव जगतः स्थापनं तथा ॥ ५५ शयनं च हरेरत्र पृथिव्युद्धरणं तथा । संनिवेशः पुरादीनां वर्णाश्रमविभागशः ॥ ५६ वृक्षाणां गृहसंस्थानां सिद्धीनां च विनाशनम् । योजनानां पथां चैव संचरं बहुविस्तरम् ॥ ५७ स्वर्गे स्थानविभागं च मर्त्यानां शुभचारिणाम् । वृक्षाणामोषधीनां च वीरुधां च प्रकीर्तनम् ॥ ५८ वृक्षनारकिकीटत्वं मर्त्यानां परिकीर्तनम् । *देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥ ५९ अन्नादीनां तनूनां च सृजनं त्यजनं तथा । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ६० अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ६१ पशूनां पुरुषाणां च संभवः परिकीर्तितः । तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ॥ ६२ नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः । त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत् ६३ ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः । य द्वादशः प्रसूयन्ते प्रजाकल्पे पुनः पुनः ॥ ६४ कल्पयोरन्तरं प्रोक्तं प्रतिसंधिश्च यस्तयोः । तमोमात्रामृतत्वाच्च ब्रह्मणोऽधर्मसंभवः ॥ ६५ तथैव शतरूपायाः संभवश्च ततः परम् । प्रियव्रतोत्तानपादौ प्रसूत्याकृतयश्च ताः ॥ ६६ कीर्त्यन्ते धुतपाप्मानो येषु लोकाः प्रतिष्ठिताः । रुचेः प्रजापतेश्चोर्ध्वमाकृत्यां मिथुनोद्भवः ॥ ६७ प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः । दाक्षायणीषु चाप्यूर्ध्वं श्रद्धाद्यासु महात्मनाम् ॥ ६८ धर्मस्य कीर्त्यते सर्गः सात्विकस्य सुखोदयः । तथाऽधर्मस्य हिंसायां तामसोऽशुभलक्षणः ॥ ६९ महेश्वरस्य सत्यां च प्रजासर्गः प्रकीर्तितः । निरामयं च ब्रह्माणं तादृशं कीर्तितं पुनः ॥ ७० योगं योगनिधिः प्राह द्विजानां मुक्तिकाङ्क्षिणाम् । अवतारश्च रुद्रस्य महाभाग्यं तथैव च ॥ ७१ त्रैवेदिका कथा चापि संवादः परमो महान् । ब्रह्मनारायणाभ्यां च यत्र स्तोत्रं प्रकीर्तितम् ॥ ७२ स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान्शिवः । प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः ॥ ७३ कीर्त्यते नामहेतुश्च यथाऽरोदीन्महामनाः । रुद्रादीनि यथा सृष्टौ नामान्याप्नोत्स्वयंभुवः ॥ ७४
* इदमर्धं नास्ति घ. पुस्तके ।
४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १श्लो० ७५–१०४]
( अनुक्रमणिका )
यथा च तैर्व्याप्तमिदं त्रैलोक्यं सचराचरम् । भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ॥ ७५
*वाशिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्तनम् । अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्तिता ॥
पितॄणां द्विपकाराणां स्वधायास्तदनन्तरम् । पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात् ॥ ७७
दक्षस्य शापः सत्यर्थे भृग्वादीनां च धीमताम् । प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः ॥ ७८
प्रतिषेधश्च वैरस्य कीर्त्यते (+दोषदर्शनात् । मन्वन्तरप्रङ्गेन कालज्ञानं च कीर्त्यते ॥ ७९
प्रजापतेः कर्दमस्य कन्या या शुभलक्षणा । प्रियव्रतस्य पुत्राणां कीर्त्यते ) यत्र विस्तरः ॥ ८०
तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् । स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्तनम् ॥ ८१
उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः । द्वीपानां ससमुद्राणां पर्वतानां च कीर्तनम् ॥ ८२
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः । द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु ॥ ८३
विस्तरान्मण्डलांश्चैव जम्बुद्वीपसमुद्रयोः । प्रमाणं योजनाग्रेण कीर्त्यते पर्वतैः सह ॥ ८४
हिमवान्हेमकूटस्तु निषधो मेरुरेव च । नीलः श्वेतः शृङ्गवांश्च कीर्त्यन्ते वर्षपर्वताः ॥ ८५
तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः । कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ॥ ८६
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा । भूतैश्चोपनिविष्टानि गतिमन्द्धिर्ध्रुवैस्तथा ॥ ८७
जम्बुद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः । ततश्चाप्यमयी भूमिलोंकालोकश्च कीर्त्यते ॥ ८८
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूरादयश्च कीर्त्यन्ते वरणैः प्राकृतैः सह ॥ ८९
सर्वं च तत्प्रधानस्य परिमाणैकदेशिकम् । सव्यासपरिमाणं च संक्षेपेणैव कीर्त्यते ॥ ९०
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः । प्रमाणं योजनाग्रेण सांप्रतैराभिमानिभिः ॥ ९१
महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्धनि । अत ऊर्ध्वं गतिश्वोक्ता स्वर्गस्यालातचक्रवत् ॥ ९२
नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्यते । काष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ॥ ९३
लोकालोकस्य संध्याया अह्नो विषुवतस्तथा । लोकपालाः स्थिताश्चोर्ध्वं कीर्त्यन्ते ये चतुर्दिशम् ॥
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ । गृहिणां न्यासिनां चोक्तौ रजःसत्त्वसमाश्रयात् ॥ ९५
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः । सूर्यचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ॥ ९६
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम् । ब्रह्मणा निर्मितः सौरः स्यन्दनोऽश्वंवास्तात्स्वयम्
कीर्त्यते भगवान्येन प्रसर्पति दिवि स्वयम् । स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा ॥ ९८
( +गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः । अपां सारमयश्चन्दोः कीर्त्यते च रथस्तथा ) ॥ ९९
वृद्धिक्षयौ च सोमस्य कीर्त्येते सूर्यकरितौ । सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्तनम् ॥ १००
कीर्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः । तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ॥ १०१
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकारिणाम् । सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः ॥ १०२
प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः । परिणामगतौ चोक्तं ग्रहाणां सूर्यसंश्रयात् ॥ १०३
यथा चाऽऽशु विषात्मासा शंभोः कण्ठस्य नीलता । ब्रह्मप्रसादितस्याऽऽशु विषादः शूलपाणिनः
* इदधमं नास्ति घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६
[अ० १ श्लो० १०५-१३३] वायुपुराणम् । ५
( अनुक्रमणिका )
स्तूयमानः सुरैर्विष्णुः स्तौति देवं महेश्वरम् । लिङ्गोद्भवकथां पुण्यां सर्वपापप्रणाशिनीम् ॥ १०५ विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६ पितॄणां द्विमकाराणां तर्पणं चामृतस्य वै । ततः पर्वाणि कीर्त्यन्ते पर्वाणां चैव संधयः ॥ १०७ स्वर्गलोकगतानां च प्राप्तानां चाप्यधोगतिम् । पितॄणां द्विमकाराणां श्राद्धेनानुग्रहो महान् ॥ १०८ युगसंख्या प्रमाणं च कीर्त्यते च कृतं युगम् । त्रेतायुगे चापकर्षाद्वार्तायाः संप्रवर्तनम् ॥ १०९ * वर्णानामाश्रमाणां च संख्यानां च प्रवर्तनम् । वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥ ११० यज्ञप्रवर्तनं चैव संवादो यत्र कीर्त्यते । ऋषीणां वसुना सार्धं वसोश्चाधः पुनर्गतिः ॥ १११ प्रश्नानां दुर्वचस्त्वं च स्वायंभुवमृते मनुम् । प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः ॥ ११२ द्वापरस्य कलेश्चात्र संक्षेपेण प्रकीर्तनम् । देवतिर्यङ्मनुष्याणां प्रमाणानि युगे युगे ॥ ११३ कीर्त्यन्ते युगसामर्थ्यात्परिणाहोच्छ्रयायुषः । शिष्टादीनां च निर्देशः प्रादुर्भावश्च कीर्त्यते ॥ ११४ ( +मन्त्राणां ब्राह्मणानां च लक्षणं परिकीर्तितम् । ईश्वराणामृषीणां च मनोः पितृगणस्य च ॥) ११५ ( ×वेदस्य तद्विजातानां मन्त्राणां च प्रकीर्तनम् । शाखानां परिमाणं च वेदव्यासा दिशब्ददनम्॥ ११६ मन्वन्तराणां संहारः संहारान्ते च संभवः । देवातानामृषीणां च मनोः पितृगणस्य च ॥ ११७ न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः । मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता ॥ ११८ मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् । अतीतानागतानां च वर्तमानेन कीर्त्यते ॥ ११९ तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् । अतीतानागतानां च मोक्तं स्वायंभुवेऽन्तरे ॥ १२० मन्वन्तरत्रयं चैव कालज्ञानं च कीर्त्यते । मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम् ॥ १२१ दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुता । ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ १२२ साववर्ण्याद्याश्च कीर्त्यन्ते मनवो मेरुताश्रिताः । ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम् ॥ १२३ पृथुना वाऽपि वैन्येन भूमेर्दोहप्रवर्तनम् । पात्राणां पयसां चैव वंशानां च विशेषणम् ॥ १२४ ब्रह्मादिभिः पूर्वमेव दुग्धा चयं वसुंधरा । दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतेः ॥ १२५ दक्षस्य कीर्त्यते जन्म सोमस्यांशेन धीमतः । भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते ॥ १२६ मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्वृताः । वैवस्वतस्य च मनोः कीर्त्यते सर्वविस्तरः १२७ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । ब्रह्मशुक्रात्समुत्पत्तिर्भृग्वादीनां च कीर्त्यते ॥ १२८ विनिवृत्ते प्रजासर्गे चाक्षुषस्य मनोः शुभे । दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतेऽन्तरे ॥ १२९ नारदः प्रियसंवादो दक्षपुत्रान्महाबलान् । नाशयामास शापाय आत्मनो ब्रह्मणः सुतः ॥ १३० ततो दक्षोऽसृजत्कन्या वीरिण्यामेव विश्रुताः । कीर्त्यते धर्मसर्गश्च कश्यपस्य च धीमतः ॥ १३१ अत ऊर्ध्वं ब्रह्मणश्च विष्णोश्चैव भवस्य च । एकत्वं च पृथक्त्वं च विशेषत्वं च कीर्त्यते ॥ १३२ ईशत्वाच्च यथा शप्ता जाता देवाः स्वयंभुवा । मरुत्प्रसादो मरुतां दित्या देवाश्च संभवाः ॥ १३३
* इदमर्धं नास्ति ख. घ. ङ. पुस्तकेषु । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति घ. पुस्तके ।
६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०श्लो० १३४-१६१]
( अनुक्रमणिका )
कीर्त्यन्ते मरुतां चाथ गणास्ते सप्तसप्तकाः। देवत्वं पितृवाक्येन(ण) वायुस्कन्धेन चाऽऽश्रयः ॥१३४
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम् ॥ १३५
उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तराः । समुद्रसंयोगकृतं जन्मैरावतहस्तिनः ॥ १३६
वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम् । भृगूणां विस्तरचोक्तस्तथा चाऽङ्गिरसामपि ॥ १३७
कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः । पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥ १३८
देवतानामृषीणां च प्रजोत्पत्तिस्ततः परम् । तिस्रः कन्याः प्रकीर्त्यन्ते यासु लोकाः प्रतिष्ठिताः ॥
पितृदौहित्रनिर्देशो देवानां जन्म चोच्यते । विस्तरते भगवतः पञ्चानां सुमहात्मनाम् ॥ १४०
इलाया विस्तरश्चोक्त आदित्यस्य ततः परम् । विकुक्षिचरितं चोक्तं धुन्धोश्चैव निबर्हणम् ॥ १४१
बृहद्बलबलान्तसंक्षेपादिक्ष्वाकाद्याः प्रकीर्तिताः । निम्यादीनां क्षितीशानां यावज्जह्नुगुणादिति ॥ १४२
कीर्त्यते विस्तरो यश्च ययातेरपि भूपतेः । यदुवंशसमुद्देशो हैहयस्य च विस्तरः ॥ १४३
क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः । ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते ॥ १४४
देवावृधस्य त्वर्कस्य वृष्णेचैव महात्मनः । (* अनमित्रान्वयश्चैव विष्णो[+ र्दिव्याभिशंसनम् ॥ १४५
विवस्वतोऽथ संपाप्तिर्मणिरत्नस्य धीमतः । युधाजितः प्रजासर्गः कीर्त्यते च महात्मनः ) ॥ १४६
कीर्त्यते चान्वयः श्रीमान्राजर्षेर्देवमीढुषः । पुनश्च जन्म चाप्युक्तं चरितं च महात्मनः ॥ ] १४७
कंसस्य चापि दौरात्म्यमेकान्तेन समुद्भवः । वासुदेवस्य देवक्यां विष्णोर्जन्म प्रजापतेः ॥ १४८
विष्णोरनन्तरं चापि प्रजासर्गोपवर्णनम् । देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥ १४९
संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः । भृगोश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥ १५०
देवानामसुरारणां च सङ्ग्रामा द्वादशाद्भुताः । नारसिंहप्रभृतयः कीर्त्यन्ते प्राणनाशनाः ॥ १५१
शुक्रेणाऽऽराधनं स्थाणोर्धीरेण तपसा कृतम् । वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः ॥ १५२
अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम् । जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि ॥ १५३
आसुरान्मोहयामास शुकरूपेण बुद्धिमान् । बृहस्पतिस्तु तान्द्रुब्धः शशाप समहाद्युतिः ॥ १५४
उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम् । तुर्वसुः शुक्रदौहित्रो देवयांन्यां यदोरभूत् ॥१५५
अनुर्द्रुह्युस्तथा पूरुर्ययातेतनया नृपाः । अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः ॥ १५६
कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः । कुशिकस्य च विप्रर्षेः सम्यग्ग्यो धर्मसंश्रयः ॥ १५७
बार्हस्पत्यं तु सुरभिर्यत्र शापमिहानुदत् । कीर्तनं जह्नुवंशस्य शांतनोर्वीर्यशब्दनम् ॥ १५८
भविष्यतां तथा राज्ञामुपसंहारशब्दनम् । अनागतानां सप्तानां मनूनां चोपवर्णनम् ॥ १५९
भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम् । परार्ध्यपर्ययोश्चैव लक्षणं परिकीर्त्यते ॥ १६०
ब्रह्मणो योजनायेण पारिमाणविनिर्णयः । नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिकः स्मृत ॥ १६१
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[ अ०१श्लो० १६२-१९० ] वायुपुराणम् ७
( अनुक्रमणिका )
त्रिविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः । अनावृष्टिर्भास्कराच्च घोरः संवर्तकोऽनलः ॥ १६२ मेवो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः । संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः ॥ १६३ भूरादीनां च लोकानां समानामुपवर्णनम् । कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः ॥ १६४ ब्रह्मलोकोपरिष्ठात्तु शिवस्य स्थानमुत्तमम् । यत्र संहारमायान्ति सर्वभूतानि संक्षये ॥ १६५ सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः । ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम् ॥ १६६ अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च । गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात् ॥ १६७ कल्पे कल्पे च भूतानां महतामपि संक्षयः । प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥ १६८ दौरात्म्यं चैव भोगानां परिणामविनिर्णयः । दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम् ॥ १६९ व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् । नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्तते ॥ १७० ततस्तापत्रयातीतो नीरूपारूख्यो निरञ्जनः । आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन ॥ १७१ कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् । कीर्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः ॥ १७२ इतिकृत्यसमुद्देशः पुराणस्योपवर्णितः । कीर्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः ॥ १७३ प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च । प्रादुर्भावो वशिष्ठस्य शक्तेर्जन्म तथैव च ॥ १७४ सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च । पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः ॥ १७५ जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः। शुकस्य च तथा जन्म सह पुत्रस्य धीमत. ॥ १७६ पराशरस्य मद्द्वेषो विश्वामित्रकृतो यथा । वशिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया ॥ १७७ संतानहेतोर्विभुना चोर्णिः स्कन्देन धीमता । दैवेन विधिना विप्र विश्वामित्रहितैषिणा ॥ १७८ एकं वेदं चतुष्पादं चतुर्धा पुनरीश्वरः । यथा बिभेद भगवान्व्यासः सर्वान्स्वबुद्धितः ॥ १७९ तस्य शिष्यैः प्रशिष्यैश्च शाखाभेदाः पुनः कृताः । प्रयोगैः षड्गुणैश्च यथा पृष्टः स्वयंभुवा ॥ पृष्टेन चानुपृष्टास्ते मुनयो धर्मकाङ्क्षिणः । देशं पुण्यमभीप्सन्तो विभुना तद्धितेषिणा ॥ १८१ सुनाभं दिव्यरूपारख्यं सत्याङ्गं शुभविक्रमम् । अनौपम्यमिदं चक्रं वर्तमानमतन्द्रिताः ॥ १८२ पृष्ठतो यात नियतास्ततः प्राप्स्यथ यद्धितम् । गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते ॥ १८३ पुण्यः स देशो मन्तव्य इत्युवाच तदा प्रभुः । उक्त्वा चैवमृषीन्ब्रह्मा ह्यदृश्यत्वमगात्पुनः ॥ २८४ गङ्गागर्भसमाहारं नैमिषेयत्वमेव च । ईजिरे चैव सत्रेण मुनयो नैमिषे तदा ॥ १८५ मृते शरद्वति तथा तस्य चोत्थापनं कृतम् । ऋषयो नैमिषेयास्तु श्रद्धया परया पुनः ॥ १८६ निःसीमा गामिमां कृत्स्नां कृत्वा राजानमाहरन् । यथाविधि यथाशास्त्रं तमातिथ्यैरपूजयन् ॥ १८७ पीतं चैव कृतातिथ्यं राजानं विधिवत्तदा । अन्तर्धानगतः क्रूरः स्वर्भानुरसुरोऽहरत् ॥ १८८ अनुसङ्ग्रह्वंतं चापि नृपमैडं यथा पुरा । गन्धर्वसहितं दृष्ट्वा कलापग्रामवासिनम् ॥ १८९ संनिपातः पुनस्तस्य यथा यज्ञे महर्षिभिः । दृष्ट्वा हिरण्मयं सर्वं यज्ञे वस्तु महात्मनाम् ॥ १९०
| ८ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० १ श्लो० २-९] |
|---|---|---|
| {: align="center"} | ||
| ( द्वादशवार्षिकसत्रनिरूपणम् ) |
तदा वै नैमिषेयाणां सत्रे द्वादशवार्षिके । यथा विवदमानास्तु ऐडेः संस्थापितस्तु तैः ॥ १९१
जनयित्वा त्वरण्यान्त ऐलपुत्रं यथायुषम् । समापयित्वा तत्सत्रमायुषं पर्युपासते ॥ १९२
एतत्सर्वं यथावृत्तं व्याख्यातं द्विजसत्तमाः । ऋषीणां परमं चात्र लोकतत्त्वमनुत्तमम् ॥ १९३
ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम् । अवतारश्च रुद्रस्य द्विजानुग्रहकारणात् ॥ १९४
तथा पाशुपता योगाः स्थानानां चैव कीर्तनम् । लिङ्गोद्भवस्य देवस्य नीलकण्ठत्वमेव च ॥ १९५
कथ्यते यत्र विप्राणां वायुना ब्रह्मवादिना । धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् ॥ १९६
कीर्तनं श्रवणं चास्य धारणं च विशेषतः । अनेन हि क्रमेणेदं पुराणं संप्रचक्ष्यते ॥ १९७
सुखभर्थः समासेन महानप्युपलभ्यते । तस्मात्किंचित्समुद्दिश्य पश्चाद्वक्ष्यामि विस्तरम् ॥ १९८
पादमाद्यमिदं सम्यग्योऽधीयीत जितेन्द्रियः । तेनाधीतं पुराणं तत्सर्वं नास्त्यत्र संशयः ॥ १९९
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ २००
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ २०१
अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा । आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम् ॥ २०२
यस्मात्पुरा ह्यनतीदं पुराणं तेन तत्स्मृतम् । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २०३
नारायणः यर्वमिदं विश्वं व्याप्य प्रवर्तते । तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः ॥ २०४
अतश्च संक्षेपमिमं शृणुध्वं महेश्वरः सर्वमिदं पुराणम् ।
स सर्वकाले च करोति सर्गं सहारकाले पुनराददीत ॥ २०५
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादेऽनुक्रमणिका नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
द्वादशवार्षिकसत्रनिरूपणम् ।
प्रत्यब्रुवन्पुनः सूतमृषयस्ते तपोधनाः । कुत्र सत्रं समभवत्तेषामद्भुतकर्मणाम् ॥ १
कियन्तं चैव तत्कालं कथं च समवर्तत । आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्जनः ॥ २
आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः । इति संनोदितः सूतः प्रत्युवाच शुभं वचः ॥ ३
शृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम् । यावन्तं चाभवत्कालं यथा च समवर्तत ॥ ४
सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा । सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान् ॥ ५
तपोगृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत्स्वयम् । इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान् ॥ ६
मृत्युश्चक्रे महातेजास्तन्मिन्सत्रे महात्मनाम् । विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान् ॥ ७
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत । कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ८
यत्र सा गोमती पुण्या सिद्धचारणसेविता । रोहिणी सुषुवे तत्र ततः सौम्योऽभवत्सुतः ॥ ९
[ अ० २ श्लो० १०-३७ ] वायुपुराणम् ६
( द्वादशवार्षिकसत्रनिरूपणम् ) शक्तिज्येष्ठाः समभवन्वशिष्ठस्य महात्मनः । अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः ॥ १० कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना । यत्र वैरं समभवद्विश्वामित्रवशिष्ठयोः ॥ ११ अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः । पराभवो वशिष्ठस्य यस्मिञ्जातऽप्यवर्तत ॥ १२ तत्र त ईजिरे सत्रं नैमिषे ब्रह्मवादिनः । नेमिष ईजिरे यत्र नैमिषेयास्ततः स्मृताः ॥ १३ तत्सत्रमभवत्तेषां समा द्वादश धीमताम् । पुरूरवसि विक्रान्ते प्रशासति वसुंधराम् ॥ १४ अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः । तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥ १५ उर्वशी चकमे यं च देवहूतिप्रणोदिता । आजहार च तत्सत्रं स्वर्वैश्यासहसंगतः ॥ १६ तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे । यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ॥ १७ तदुल्बं पर्वते न्यस्तं हिरण्यं पत्यपद्यत । हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम् ॥ १८ विश्वकर्मा स्वयं देवो भावयँल्लोकभावनाम् । बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम् ॥ १९ ऐडः पुरूरवा भेजे तं देशं मृगयां चरन् । तं दृष्ट्वा महदाश्चर्यं यज्ञवाटं हिरण्मयम् ॥ २० लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे । नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम् ॥ २१ निजघ्नुश्चापि संक्रुद्धाः कुशवज्रैर्मनीषिणः । ततो निशान्ते राजानं मुनयो दैवनोदिताः ॥ २२ कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनूम् । और्वशेयं ततस्तस्य पुत्रं चक्रुर्नृपं भुवि ॥ २३ नहुषस्य महात्मानं पितरं यं प्रचक्षते । स तेषु वर्तते सम्यग्धर्मशीलो महीपतिः ॥ २४ आयुरायोग्यमत्युग्रं तस्मिन्स नरसत्तमः । सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः ॥ २५ सत्रमारेभिरे कर्तुं यथावद्धर्मभूतये । बभूव सत्रं तन्तेषां बह्वाश्चर्यं महात्मनाम् ॥ २६ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव । वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः ॥ २७ अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः । पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः ॥ २८ संभारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा । स्तोत्रसत्रग्रहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः ॥ २९ आनर्चुश्च यथाजाति गन्धर्वादीन्यथाविधि । आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ ॥ ३० जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः । व्याजह्रुर्मुुनयो वाचं चित्राक्षरपदां शुभाम् ॥ ३१ मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम् । वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः ॥ ३२ ऋषयस्तत्र विद्वांसः सांख्यार्थन्यायकोविदाः । न तत्र दुरितं किंचिद्दिदृक्षुर्बलराक्षसाः ॥ ३३ न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः । प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत ॥ ३४ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीत्स्वनुष्ठितः । एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः ॥ ३५ भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान्पृथक्पृथक् । चक्रिरे पृष्ठगमनान्सर्वानयुतदक्षिणान् ॥ ३६ समापयज्ञास्ते सर्वे वायुमेव महाधिपम् । पप्रच्छुरमितात्मानं भवद्भिर्र्यदहं द्विजाः ॥ ३७
२
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३ श्लो० १-८]
(प्रजापतिसृष्टिकथनम्)
प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः । शिष्यः स्वयंभुवो देवः सर्वप्रत्यक्षदृग्वशी ॥ ३८
अणिमादिभिरष्टाभिरैश्वर्यैः समन्वितः । तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्ति यः ॥ ३९
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
व्यूहांस्त्रयाणां भूतानां कुर्वंश्चैव महाबलः । तेजसश्चाप्युपध्यानं दधातीमं शरीरिणम् ॥ ४१
प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः । प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम् ॥ ४२
आकाशयोनिर्द्विगुणः शब्दस्पर्शसमन्वितः । तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः ॥ ४३
तत्राभिमानी भगवान्वायुश्चाशिक्रयात्मकः । वाताराणिः समाख्यातः शब्दशास्त्रार्थविशारदः ॥ ४४
भारत्या श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव । पुराणज्ञः सुमनसः पुराणाश्रययुक्तया ॥ ४५
इति श्रीमहापुराणे वायुप्रोक्ते द्वादशवार्षिकसत्रनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२४९
अथ तृतीयोऽध्यायः ।
प्रजापतिसृष्टिकथनम् ।
सूत उवाच—
महेश्वरायोत्तमवीर्यकर्मणे सुरर्षभायामितबुद्धितेजसे ।
सहस्रसूर्यानलवर्चसे नमस्त्रिलोकसंहाराविसृष्टये नमः ॥ १
प्रजापतीँल्लोकनमसकृतांस्तथा स्वयंभुरुद्रप्रभृतीन्महेश्वरान् ।
भृगुं मरीचिं परमेष्ठिनं मनुं रजस्तमोधर्ममथापि कश्यपम् ॥ २
वशिष्ठदक्षात्रिपुलस्त्यकर्दमान्रुचिं विवस्वन्तमथापि च क्रतुम् ।
मुनिं तथैवाङ्गिरसं प्रजापतिं प्रणम्य मूर्ध्ना पुलहं च भावतः ॥ ३
तथैव चु( च ? )क्रोधनमेकविंशतिं प्रजाविवृद्ध्याऽर्पितकार्यशासनम् ।
पुरातनानप्यपरांश्च शाश्वतांस्तथैव चान्यान्सगणानवस्थितान् ॥ ४
(*मनूंश्च सर्वानखिलानवस्थितां) स्तथैव चान्यानपि धैर्यशोभिनः ।
मुनीन्बृहस्पत्युशनःपुरोगमांस्तपःशुभाचारऋषीन्दयान्वितान् ॥ ५
प्रणम्य वक्ष्ये कलिपापनाशिनीं प्रजापतेः सृष्टिमिमामनुत्तमाम् ।
सुरेशदेवर्षिगणैरलंकृतां शुभामतुल्याममदामृषिप्रियाम् ॥ ६
प्रजापतीनामपि चोल्बणार्चिषां ( +विशुद्धवाग्बुद्धिशरीरतेजसाम् ।
तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूंतमाविष्कृतपौरुषश्रियम् ॥ ) ७
श्रुतौ स्मृतौ च प्रसुतामुदाहृतां परां पुराणामनिलप्रकीर्तिताम् ।
समासबन्धैर्नियतैर्यथातथं विशब्देनेनापि मनःप्रहर्षिणीम् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
〔अ० २ श्लो० ९-२३〕 वायुपुराणम् । ११
( प्रजापतिसृष्टिकथनम् )
यस्यां च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च । यतस्तमृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः ॥ ९ आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं तथैवामृतमक्षरं च । शुकं तपः सत्त्वमभिमकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम् ॥ १० तमप्रमेयं पुरुषेण युक्तं स्वयंभुवा लोकपितामहेन । उत्पादकत्वादजसोऽतिरेकात्कालस्य योगान्नियमावधेश्च ॥ ११ क्षेत्रज्ञयुक्तानियतान्विकाराँल्लोकस्य संतानविवृद्धिहेतून् । प्रकृत्यवस्था सुषुवे तथाऽष्टौ संकल्पमात्रेण महेश्वरस्य ॥ १२ देवासुराद्रिद्रुमसागराणां (*गन्धर्वयक्षोरगमानुषाणाम् । ) मनुप्रजेशर्षिपितृद्विजानां पिशाचयक्षोरगराक्षसानाम् ॥ १३ तारामहार्क्षन्निशाचराणां मासर्तुसंवत्सररात्र्यहानाम् । दिक्कालयोगादियगायनानां वनौषधीनामपि वीरुधां च ॥ १४ जलौकसामप्सरसां पशूनां विद्युत्सरिन्मेघविहङ्गमानाम् । यत्सूक्ष्मगं यद्द्भुवि यद्वियत्स्थं यत्स्थावरं यत्र यदस्ति किंचित् ॥ १५ सर्वस्य तस्यास्ति गतिर्विभक्तिराब्रह्मणो यावदियं प्रसूतिः । छन्दांसि वेदाः सकृचो यजूंषि सामानि सोमश्च तथैव यज्ञः ॥ १६ आजीव्यमेषां यदभीप्सितं च देवस्य तस्यैव च वै प्रजानाम् । वैवस्वतस्यास्य मनोः पुरस्तात्संभूतिरुक्ता प्रसवश्च तेषाम् ॥ १७ येषामिदं पुण्यकृतां प्रसृत्या लोकत्रयं लोकनमस्कृतानाम् । सुरेशवर्षमनुप्रधानमापूरितं चोपरिभूषितं च ॥ १८ रुद्रस्य शापात्पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके । वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चाप्यत्र मनुष्यलोके ॥ १९ मन्वन्तराणां परिवर्तनानि युगेषु संभूतिविकल्पनं च । ऋषित्वमार्षस्य च संभवृद्धिर्यथा युगादिष्वपि चेत्तदत्र ॥ २० ये द्वापरेषु प्रथयन्ति वेदान्व्यासाश्च तेऽत्र क्रमशो निबद्धाः । कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या ॥ २१ ÷अण्डोद्भिज्जस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा । ये यातनास्थानगताश्च जीवास्तत्केण तेषामपि च प्रमाणम् ॥ २२ आत्यन्तिकः प्राकृतिकाश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः । बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च ॥ २३
* धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके । ÷ 'अण्डोड्डिज' इत्यार्षः प्रयोगः ।
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
| १२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ०४ श्लो० १-२२] |
|---|---|---|
| (सृष्टिप्रकरणम्) |
प्रकृत्यवस्थेषु च कारणेषु या च स्थितिर्या च पुनः प्रवृत्तिः।
तच्छास्त्रयुक्त्या स्वमतिमयत्नात्समस्तमाविष्कृतधीधृतिभ्यः॥
विप्रा ऋषिभ्यः समुदाहृतं यद्यथातथं तच्छृणुतोच्यमानम्॥ २४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३
अथ चतुर्थोऽध्यायः।
सृष्टिप्रकरणम्।
ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः। प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः॥ १
भवान्वै वंशकुशलो व्यासात्प्रत्यक्षदर्शीवान्। तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय॥ २
यस्य यस्यान्वया ये ये तांस्तानीच्छाम वेदितुम्। तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः। ३
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः। विस्तरेणाऽनुपूर्व्या च कथयामास सत्तमः॥ ४
लोमहर्षण उवाच—
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्। कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ५
यश्चेमां धारयेन्नित्यं शृणुयाद्वाऽप्यभीक्ष्णशः श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः॥ ६
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च। दीर्घमायुरवाप्नोति स पुराणानुकीर्तनात्॥ ७
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते। विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्॥ ८
कीर्त्यमानं निबोधध्वं सर्वेषां कीर्तिवर्धनम्। धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्॥ ९
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकारिणाम्। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च॥ १०
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्। कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः। ११
पुराणं संप्रवक्ष्यामि मारुतं वेदसंमितम्। प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च॥ १२
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः। उपोद्घातोऽनुषङ्गश्च उपसंहार एव च॥ १३
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्। एवं हि पादाश्चत्वारः समासात्कीर्तिता मया॥ १४
वक्ष्याम्येतान्पुनस्तांस्तु विस्तरेण यथाक्रमम्। तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च॥ १५
अजाय प्रथमायैव विशिष्टाय प्रजात्मने। ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे॥ १६
महदाद्यं विशेषान्तं सर्वरूप्यं सुलक्षणम्। पञ्चप्रमाणं षट्त्वेतं पुरुषाधिष्ठितं नुत्तम्॥ १७
असंशयात्मवक्ष्यामि भूतसर्गमनुत्तमम्। अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्॥ १८
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः। गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम्॥ १९
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्। जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्॥ २०
विग्रहं सर्वभूतानामव्यक्रमभवत्किल। अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम्॥ २१
असांप्रतमविज्ञेयं ब्रह्माये समवर्तत। तस्याऽऽत्मना सर्वमिदं व्याप्यमासीत्तमोमयम्॥ २२