भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 12, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 12

[अ० १ श्लो० ४७-७४] वायुपुराणम् । ३

( अनुक्रमणिका )

सर्वज्ञात्सर्ववेदेषु पूजिताद्दीपितेजसः । पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥ ४७ पृष्टेन मुनिभिः पूर्वे नैमिषीयैर्महात्मभिः । महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः ॥ ४८ अचिन्त्यश्चाप्रमेयश्च स्वयंभूर्हेतुरीश्वरः । अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम् ॥ ४९ महदादिविशेषान्तं सृजतीति विनिश्चयः । अण्डं हिरण्मयं चैव बभूवापातिभं ततः ५० अण्डस्याऽऽवरणं चाद्भिरपामपि च तेजसा । वायुना तत्स नभसा नभो भूतादिनाऽऽवृतम् ५१ भूतादिर्महता चैव ) अव्यक्तेनाऽऽवृतो महान् । अतोऽत्र विश्वेदेवानाम्ऋषीणां चोपवर्णितम् ॥ ५२ नदीनां पर्वतानां च प्रादुर्भावोऽत्र शस्यते । मन्वन्तराणां सर्वेषां कल्पानां चोपवर्णनम् ॥ ५३ कीर्तनं ब्रह्मक्षत्रस्य ब्रह्मजन्म च कीर्त्यते । अतो ब्रह्माणि सृष्ट्वैवं प्रजासर्गोपवर्णनम् ॥ ५४ अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वत्सरं चैव जगतः स्थापनं तथा ॥ ५५ शयनं च हरेरत्र पृथिव्युद्धरणं तथा । संनिवेशः पुरादीनां वर्णाश्रमविभागशः ॥ ५६ वृक्षाणां गृहसंस्थानां सिद्धीनां च विनाशनम् । योजनानां पथां चैव संचरं बहुविस्तरम् ॥ ५७ स्वर्गे स्थानविभागं च मर्त्यानां शुभचारिणाम् । वृक्षाणामोषधीनां च वीरुधां च प्रकीर्तनम् ॥ ५८ वृक्षनारकिकीटत्वं मर्त्यानां परिकीर्तनम् । *देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥ ५९ अन्नादीनां तनूनां च सृजनं त्यजनं तथा । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ६० अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ६१ पशूनां पुरुषाणां च संभवः परिकीर्तितः । तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ॥ ६२ नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः । त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत् ६३ ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः । य द्वादशः प्रसूयन्ते प्रजाकल्पे पुनः पुनः ॥ ६४ कल्पयोरन्तरं प्रोक्तं प्रतिसंधिश्च यस्तयोः । तमोमात्रामृतत्वाच्च ब्रह्मणोऽधर्मसंभवः ॥ ६५ तथैव शतरूपायाः संभवश्च ततः परम् । प्रियव्रतोत्तानपादौ प्रसूत्याकृतयश्च ताः ॥ ६६ कीर्त्यन्ते धुतपाप्मानो येषु लोकाः प्रतिष्ठिताः । रुचेः प्रजापतेश्चोर्ध्वमाकृत्यां मिथुनोद्भवः ॥ ६७ प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः । दाक्षायणीषु चाप्यूर्ध्वं श्रद्धाद्यासु महात्मनाम् ॥ ६८ धर्मस्य कीर्त्यते सर्गः सात्विकस्य सुखोदयः । तथाऽधर्मस्य हिंसायां तामसोऽशुभलक्षणः ॥ ६९ महेश्वरस्य सत्यां च प्रजासर्गः प्रकीर्तितः । निरामयं च ब्रह्माणं तादृशं कीर्तितं पुनः ॥ ७० योगं योगनिधिः प्राह द्विजानां मुक्तिकाङ्क्षिणाम् । अवतारश्च रुद्रस्य महाभाग्यं तथैव च ॥ ७१ त्रैवेदिका कथा चापि संवादः परमो महान् । ब्रह्मनारायणाभ्यां च यत्र स्तोत्रं प्रकीर्तितम् ॥ ७२ स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान्शिवः । प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः ॥ ७३ कीर्त्यते नामहेतुश्च यथाऽरोदीन्महामनाः । रुद्रादीनि यथा सृष्टौ नामान्याप्नोत्स्वयंभुवः ॥ ७४


* इदमर्धं नास्ति घ. पुस्तके ।

वायु पुराण · पृष्ठ 12, कुल 465 में से · BharatKosha