वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 13, कुल 465 में से
संदर्भ में पढ़ें४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १श्लो० ७५–१०४]
( अनुक्रमणिका )
यथा च तैर्व्याप्तमिदं त्रैलोक्यं सचराचरम् । भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ॥ ७५
*वाशिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्तनम् । अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्तिता ॥
पितॄणां द्विपकाराणां स्वधायास्तदनन्तरम् । पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात् ॥ ७७
दक्षस्य शापः सत्यर्थे भृग्वादीनां च धीमताम् । प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः ॥ ७८
प्रतिषेधश्च वैरस्य कीर्त्यते (+दोषदर्शनात् । मन्वन्तरप्रङ्गेन कालज्ञानं च कीर्त्यते ॥ ७९
प्रजापतेः कर्दमस्य कन्या या शुभलक्षणा । प्रियव्रतस्य पुत्राणां कीर्त्यते ) यत्र विस्तरः ॥ ८०
तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् । स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्तनम् ॥ ८१
उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः । द्वीपानां ससमुद्राणां पर्वतानां च कीर्तनम् ॥ ८२
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः । द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु ॥ ८३
विस्तरान्मण्डलांश्चैव जम्बुद्वीपसमुद्रयोः । प्रमाणं योजनाग्रेण कीर्त्यते पर्वतैः सह ॥ ८४
हिमवान्हेमकूटस्तु निषधो मेरुरेव च । नीलः श्वेतः शृङ्गवांश्च कीर्त्यन्ते वर्षपर्वताः ॥ ८५
तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः । कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ॥ ८६
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा । भूतैश्चोपनिविष्टानि गतिमन्द्धिर्ध्रुवैस्तथा ॥ ८७
जम्बुद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः । ततश्चाप्यमयी भूमिलोंकालोकश्च कीर्त्यते ॥ ८८
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूरादयश्च कीर्त्यन्ते वरणैः प्राकृतैः सह ॥ ८९
सर्वं च तत्प्रधानस्य परिमाणैकदेशिकम् । सव्यासपरिमाणं च संक्षेपेणैव कीर्त्यते ॥ ९०
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः । प्रमाणं योजनाग्रेण सांप्रतैराभिमानिभिः ॥ ९१
महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्धनि । अत ऊर्ध्वं गतिश्वोक्ता स्वर्गस्यालातचक्रवत् ॥ ९२
नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्यते । काष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ॥ ९३
लोकालोकस्य संध्याया अह्नो विषुवतस्तथा । लोकपालाः स्थिताश्चोर्ध्वं कीर्त्यन्ते ये चतुर्दिशम् ॥
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ । गृहिणां न्यासिनां चोक्तौ रजःसत्त्वसमाश्रयात् ॥ ९५
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः । सूर्यचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ॥ ९६
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम् । ब्रह्मणा निर्मितः सौरः स्यन्दनोऽश्वंवास्तात्स्वयम्
कीर्त्यते भगवान्येन प्रसर्पति दिवि स्वयम् । स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा ॥ ९८
( +गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः । अपां सारमयश्चन्दोः कीर्त्यते च रथस्तथा ) ॥ ९९
वृद्धिक्षयौ च सोमस्य कीर्त्येते सूर्यकरितौ । सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्तनम् ॥ १००
कीर्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः । तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ॥ १०१
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकारिणाम् । सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः ॥ १०२
प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः । परिणामगतौ चोक्तं ग्रहाणां सूर्यसंश्रयात् ॥ १०३
यथा चाऽऽशु विषात्मासा शंभोः कण्ठस्य नीलता । ब्रह्मप्रसादितस्याऽऽशु विषादः शूलपाणिनः
* इदधमं नास्ति घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।