भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 378, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 378

[अ० ९८-९९श्लो० १०७-१२५।१-३] वायुपुराणम् । ३६९

( तुर्वस्वादि वंशकथनम् )
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारान्पारदांश्चैव पल्हवान्यवनाञ्शकान् ॥ १०७
तुषारान्बर्बरांश्चैव पुलिन्दान्दरदान्खसान् । लम्पकानन्ध्रकान्रुद्धान्विकरातांश्चैव स प्रभुः ॥ १०८
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्वली । अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ १०९
मानवः स तु संजज्ञे देवस्यांशेन धीमतः । पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ॥ ११०
गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत् । इत्येतास्तस्य देवस्य दश संभूतयः स्मृताः ॥ १११
तं तं कालं च कार्यं च तत्तदुद्दिश्य कारणम् । अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ॥
पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः । विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ॥ ११३
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा । संघातयित्वा वृषलान्प्रायशास्तानधार्मिकान् ॥ ११४
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः । कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ॥
अकस्मात्कुपिताऽन्योन्यं भविष्यन्ति च मोहिताः । क्षपयित्वा तु तान्सर्वान्भाविनाऽर्थेन चोदितान् ॥
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः । ततो व्यतीते कल्कौ तु सामान्यैः(त्यै) सह सैनिकैः ॥
नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः । रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ॥ ११८
परास्परहताश्वासा निराक्रन्दाः सुदुःखिताः । पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ॥
प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा । ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ॥ १२०
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः । चीरपत्राजिनधराः संकरं घे र्मास्थिताः ॥ १२१
अल्पायुषो नष्टवार्ता बह्वाबाधाः सदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसंध्यांशके तदा ॥ १२२
प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन तु । क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ॥ १२३
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा । इत्येतत्कीर्तितं सर्वं देवासुरविचेष्टितम् ॥ १२४
यदुवंशप्रसङ्गेन महद्भो वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पुरोर्दुह्योरनोस्तथा । १२५

इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमहात्म्यकथनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-९०८


अथ नवनवतितमोऽध्याय ।

तुर्वस्वादि वंशवर्णनम् ।

तुर्वसोस्तु सुतो बह्निर्वह्नेर्गर्भोऽनुरात्मजः । गोभानोस्तु सुतो वीरास्त्रिसानुरपराजितः ॥ १
करन्धमस्त्रिसानोस्तु मरुत्तस्य तु चाऽऽत्मजः । अन्येस्त्वविक्षितो राजा मरुत्तः कथितः पुरा ॥ २
अनपत्यो मरुत्तस्तु स राजाऽऽसीदिति श्रुतः । दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ॥ ३

४७