वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 377, कुल 465 में से
संदर्भ में पढ़ें३६८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९८-श्लो० ८०-१०५] (विष्णुमाहात्म्यकथनम्)
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः ॥ ८० सपुत्रपौत्रानसुरान्पातालतलमिनयत् ॥ ८० नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना । क्रूरा हता विनिर्धूता दिशः संप्रतिपेदिरे ॥ ८१ महाभूतानि भूतात्मा सविशेषाणि माधवः । कालं च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ॥ ८२ तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किंचिदस्ति लोकेषु यद्व्याप्तं महात्मना ॥ ८३ तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः । दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः ॥ ८४ बलिः सितो महापाशैः सबन्धुः ससुहृद्गणः । विरोचनकुलं सर्वं पाताले संनिवेशितम् ॥ ८६ ततः सर्वार्मरैश्वर्यं दत्त्वेन्द्राय महात्मने । मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ॥ ८७ एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत॥८८ त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ॥ ८९ ( *पञ्चमः पञ्चदश्यां तु त्रेतायां संभव ह । मांधातुश्चक्रवर्तित्वे तस्थौ तथ्यपुरःसरः ॥ ९० एकोनविंशे त्रेतायां सर्वक्षत्रान्तकोऽभवत् । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसर ) ॥ ९१ चतुर्विंशे युगे रामो वशिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ ९२ अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातुकर्णपुरःसरः ॥ ९३
- तथैव नवमो विष्णुरदित्याः कश्यपात्मजः । देवक्यां वसुदेवात्तु ब्रह्मन्गार्ग्यपुरःसरः ॥ ९४ अप्रमेयो नियोज्यश्च यत्र कामचरो वशी । क्रीडते भगवाँल्लोके बालः क्रीडनकैरिव ॥ ९५ न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः । परं परममेतस्माद्विश्वरूपान्न विद्यते ॥ ९६ अष्टविंशतितमे तद्वद्द्वापरस्यांशसंक्षये । नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ॥ ९७ कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ ९८ प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् । विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ॥ ९९ यत्र कंसं च साल्वं च द्विविदं च महासुरम् । अरिष्टं वृषभं चैव पूतनां केशिनं हयम् ॥ १०० नागं कुवलयापीडं मल्लराजगृहाधिपम् । दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ॥ १०१ छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः । नरकेश्च हतः संख्ये यवनश्च महाबलः ॥ १०२ हतानि च महीपानां सर्वरत्नानि तेजसा । दुराचाराश्च निहता पार्थिवा ये रसातले ॥ १०३ एते लोकहितार्थाय प्रादुर्भावा महात्मनः । अस्मिन्नेव युगे क्षीणे संध्याश्लिष्टे भविष्यति ॥ कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् । दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥ १०४ अनुकर्षन्सर्वसेनां हस्त्यश्वरथसंकुलाम् । प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥ १०५ नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् । उदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ॥
* एतच्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अयं श्लोको न विद्यते घ. ङ पुस्तकयोः ।