वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 376, कुल 465 में से
संदर्भ में पढ़ें[अ० ९८ श्लो० ५८-७९] वायुपुराणम् । ३६७ ( विष्णुमाहात्म्यकथनम् ) इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः । ५८
सूत उवाच—
एवमुक्तास्तु दैतेयाः काव्येनाक्लिष्टकर्मणा । ततस्ताभ्यां ययुः सार्धं प्रह्लादप्रमुखस्तदा ॥ ५९ अवश्यंभावमर्थत्वं(?) श्रुत्वा शुक्राच्च दानवाः । सकृदाशंसमानास्ते जयं काव्येन भाषितम् ॥ ६० दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् । अथ देवा*सुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ ६१ ततः संवृत्तसंन्नाहा देवास्तान्समयोधयन् । दैतासुरे ततस्तस्मिन्वर्तमाने शतं समाः ॥ अजयन्नसुरा देवान्भग्ना देवा अमन्त्रयन् ॥ ६२
देवा ऊचुः—
षण्डामर्कप्रभावं न जानीमस्त्वसुरैर्यथम् । तस्माद्यज्ञं समुद्दिश्य कार्यं चाऽऽत्माहितं च यत् ॥ ६३ तज्ज्ञानापहतावेतौ कृत्वा जेष्यामहेऽसुरान् । अथोपामन्त्रयन्देवाः षण्डामकौँ तु तावुभौँ ॥ ६४ यज्ञे समाह्वयिष्यामस्त्यजतमसुरान्द्विजौ । ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ॥ ६५ एवं तत्यजतुस्तौ तु षण्डामकौँ तदाऽसुरान् । ततो देवा जयं प्राप्ता दानवाश्च पराभवन् ॥ ६६ +देवाऽसुरानपराभाव्य षण्डामर्कावुपागमन् । काव्यशापाभिभूताश्च अनाधाराश्च ते पुनः ॥ ६७ बध्यमानास्तदा देवैर्विविविशुस्ते रसातले । एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः ॥ ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ ६८ जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः । कर्तुं धर्मव्यवस्थानमधर्मस्य च नाशनम् ॥ ६९ प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः । मनुष्यवध्यांस्तान्सर्वान्प्रह्लाऽनुव्याहरत्प्रभुः ॥ ७० धर्मात्मानारायणस्तस्मात्सम्भूतश्चाक्षुषेऽन्तरे । यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ॥ ७१ प्रादुर्भावे तदाऽन्यस्य बलेरासीत्पुरोहितः । चतुर्थ्यां तु युगाख्यायामापन्नेष्वसुरेष्वथ ॥ ७२ संभूदः स समुद्रान्तहिरण्यकशिपोर्वधे । द्वितीयो नरसिंहोऽभूद्रुद्रः सुरपुरस्सरः ॥ ७३ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे । दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ॥ ७४ संक्षिप्याऽऽत्मानमङ्गेषु बृहस्पतिपुरस्सरम् । यजमानं तु दैत्येन्द्रमदित्याः कुलन्दनः ।! द्विजो भूत्वा शुभे काले बलिं वैरोचनं पुरा ॥ ७५ त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् । दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ ७६ ददामीत्येव तं राजा बलिवैरोचनोऽब्रवीत् । वामनं तं च विज्ञाय ततोऽनुमुदितः स्वयम् ॥ ७७ स वामनो दिवं खं च पृथिवीं च द्विजोत्तमः । त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ ७८ अत्यरिच्यत भूतात्मा भास्करं स्वेन वेजसा । प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ ७९
* अत्र संधिरार्षः । + अत्र संधिरार्षः ।