वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 375, कुल 465 में से
संदर्भ में पढ़ें३६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१८श्लो०२९-५७] ( विष्णुमाहात्म्यकथनम् )
बृहस्पतिरुवाचैतानसंभ्रान्तोऽयमङ्गिराः काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ २९ स मोहयति रूपेण मामकेनैष वोऽसुराः । श्रुत्वा तस्य ततस्ते वै संमन्त्र्याथार्वचोऽब्रवीत् ॥ ३० अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ३१ ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च । वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ॥ ३२ ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः । अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ३३ भार्गवोऽङ्गिगरसो(?) वाऽयं भवत्वेषैव नो गुरुः । स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ॥ ३४ एवमुक्त्वाऽसुराः सर्वे नापद्यन्त बृहस्पतिम् । यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ॥ ३५ चुकोप भार्गवस्तेषामवलेपेन वै तदा । बोधिताऽपि मया यस्मान्न मां भजत दानवाः ॥ ३६ तस्मात्प्रनष्टसंज्ञा वै पराभवं गमिष्यथ । इति व्याहृत्य तान्काव्यो जगामाथ मथागतम् ॥ ३७ ज्ञात्वाऽभिशस्तानसुरान्काव्येन तु बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥ बुद्ध्वाऽसुरांस्तदा भ्रष्टान्कृतार्थोऽन्तरधीयत ॥ ३८ ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा । अहो धिग्वञ्चितास्तेन परस्परमथाब्रुवन् ॥ ३९ पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम् । दग्धाश्चैवोपयोगाच्च स्वे स्वे चार्थेषु मायया ॥ ४० ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ ४१ ततः काव्यं समासाद्य अभितस्थुरवाङ्मुखाः । तानागतानपुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ४२ मयाऽपि बोधिताः काले यतो मां नाभिनन्दथ । ततस्तेनावलेपेन गता यूयं पराभवम् ॥ ४३ प्रह्लादस्तमथोवाच मानं स्वं त्यज भार्गव । स्वान्याज्यान्मज्जमानांश्च भक्तांश्चैव विशेषतः ॥ ४४ त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ ४५ यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया सद्य प्रवेक्ष्यामो रसातलम् ॥ ४६
सूत उवाच--
ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया । एवं शुक्रेऽनुनीतः स ततः कोषं न्ययच्छत ॥ ४७ उवाचेदं न भेतव्यं न गंतव्यं रसातलम् । अवश्यंभावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ ४८ न शक्यमन्यथाकर्तुमदृष्टं हि बलवत्तरम् । संज्ञां प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ॥ ४९ प्राप्तः पर्यांयकालो व इति ब्रह्माऽभ्यभाषत । मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ ५० युगाख्या दश संपूर्णा देवानाक्रम्य मूर्धनि । तावन्तमेवं कालं वै ब्रह्मा राज्यमभाषत ॥ ५१ साधार्णिके पुनस्तस्यं राज्यं किल भविष्यति । लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ ५२ एवं किमहमं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् । तथा हतेषु लोकेषु तपोऽस्य न किलाभवत् ॥ ५३ यस्मात्प्रवृत्तश्चास्य न कामानाभिसंधिताः । तस्मादजेन प्रीतेन दत्तं सावार्णिकेऽन्तरे ॥ ५४ द्वराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ ५५ प्रीतेन चामरत्वं वै दत्तं तुभ्वं स्वयंभुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सह माकुलः ॥ ५६ नच शक्यं ममा तुभ्वं पुरस्ताद्वै विसर्जितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ ५७