भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 374, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 374

[अ० ९८ श्लो० २-२८] वायुपुराणम् । ३६५ (विष्णुमाहात्म्यकथनम्)

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ २ ततः सोऽन्तर्हिते तस्मिन्देवेशानुचरे तदा । तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ ३ कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्तं किमर्थं मां * जुगोपसि ॥ ४ अनया सततं भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ५ किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभम् ॥ ६ एवमुक्ताऽब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं मे बलिष्ठ त्वं हि वेत्थ यथातथम् ॥ ७ एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । माहेन्द्री त्वं वरारोहे मद्वितार्थमिहाऽऽगता ॥ ८ मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि । अदृश्यं सर्वभूतेस्तु संप्रयोगमिहेच्छसि ॥ ९ देवेन्द्रानलवर्णाभे वरारोहे सुलोचने । इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ॥ १० एवं भवतु गच्छामो गृहान्वै मत्तकाशििन । ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ॥ ११ स तया संवसेद्देव्या दश वर्षाणि भागशः । अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ १२ कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ १३ गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम् । दाक्षिण्यं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ १४ बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह । पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ १५ बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः । काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ १६ ततः समागतान्दृष्ट्वा बृहस्पतिरुवाच तान् । स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ १७ अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ १८ पूर्वं काम्य(व्य) स्तदा तस्मिन्समये दशवार्षिके । ययौ च समकालं स सद्योत्पन्नमतिस्तदा ॥ १९ समयान्ते देवयानी सद्योजाता सुता तदा । बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ॥ २०

शुक्र उवाच-- देवि गच्छामहे द्रष्टुं तव याज्याञ्शुचिस्मिते । विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ॥ २१ एवमुक्ताऽब्रवीद्देवी भज भक्तानमहाव्रत । एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २२

सूत उवाच-- ततो गत्वाऽसुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण वेधसाऽसुरमब्रवीत् ॥ २३ काव्यं मां तात जानीध्वमेष ह्याङ्गिरसो भुवि । वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ॥ २४ श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः । प्रेक्षन्ते स्म ह्युभौ तत्र स्थिताः खिन्नाः शुचि(सुवि) स्मिताः ॥ २५ संम्मूढाः स्थिताः सर्वे प्रापद्यन्त न किंचन । ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ॥ २६ आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः । अनुनच्छत गां सर्वे त्यजतैनं बृहस्पतिम् ॥ २७ एवमुक्ताऽसुराः सर्वे तावुभौ समवेक्ष्य च । तदासुरा विशेषं तु न व्यजानंस्तयोर्द्वयोः ॥ २८


* अयं प्रयोग आर्षः ।