वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 373, कुल 465 में से
संदर्भ में पढ़ें३६४ श्रीमद्वैपायनमुनिप्रणीतम्-[अ०९७-९८श्लो०१८२-२०३।१] (विष्णुमाहात्म्यकथनम्)
व्याश्रिताय श्रविष्ठाय भारतायान्तरिक्षये । क्षमाय सहमानाय सत्याय तपनाय च ॥ १८२ त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च । तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ॥ १८३ रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्जमानाय शान्तायैवोर्ध्वरेतसे ॥ १८४ अघघ्नाय मखघ्नाय मृत्यवे याज्ञियाय च । कृशानवे प्रचेताय वह्नये किशलाय च ॥ १८५ सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे । क्षिप्रगवे सुधन्वाय प्रमेध्याय पिवाय च ॥ १८६ रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च । विभ्रान्ताय महान्ताय अन्तये दुर्गमाय च ॥ १८७ दक्षाय च जघन्याय लोकानामधिराय च । अनामयाय चोध्वाय संहत्याधिष्ठिताय च ॥ १८८ हिरण्यबाहवे चैव सत्याय शमनाय च । आसिकल्पाय माघाय री(इ)रिण्यायैकचक्षुषे ॥ १८९ श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ १९० दृढधन्वने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ॥ १९१ अघाय अघसंस्याय(?)विपियाय प्रियाय च । दिग्वासःछत्तिवायांस भगघ्नाय नमोऽस्तु ते ॥ १९२ पशूनां पतये चैव भूतानां पतये नमः । प्रणवे ऋग्यजुःसाम्ने स्वधायै च सुधाय च ॥ १९३ वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ॥ १९४ भूतभव्यभयायैव तुभ्यं कालात्मने नमः । वसवे चैव सत्याय त्यागार्थं च शमाय च ॥ १९५ विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमार्त्विज्ज्याय पशुमन्त्रौषधाय च ॥ १९६ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ १९७ अहिंसायाप्यलोभाय सुवेशायातिशाय च । सर्वभूतात्मभूताय तुभ्यं लोकात्मने नमः ॥ १९८ पृथिव्यै चान्तरिक्षाय दिवाय च मह्वाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ १९९ अप्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ॥ २०० [*नित्याय चाथ लिङ्गाय सूक्ष्माय चेतनाय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः] ॥२०१ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भवादिषु । सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ॥ २०२ नमः स्तोत्रे मया ह्यस्मिन्सदसद्व्याहृतं विभो । मद्भक्त इति ब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २०३
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाहात्म्ये शंभुस्तवकीर्तनं नाम सप्तनवतितमोऽध्यायः ॥९७॥
आदितः श्लोकानां समष्ट्यङ्काः-८८९२
अथाष्टनवतितमोऽध्यायः । विष्णुमाहात्म्यकीर्तनम् ।
सूत उवाच-- एवमाराध्य देवेशमीशानं नीललोहितम् । ब्रह्मेति प्रयतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ १
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।