भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 372, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 372

[अ० ९७ श्लो० १५५-१८१] वायुपुराणम् । ३६३ ( विष्णुमाहात्म्यकथनम् )

पूर्णे धूम्रव्रते चापि घोरे वर्षसहस्रिके । वरेण च्छन्दयामास काव्यं प्रीतोऽभवत्तदा ॥ १५५ एवं ब्रुवंस्त्वयैकेन चूर्णं नान्येन केनचित् । तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च ॥ १५६ तेजसा चापि विबुधान्सर्वानभिभविष्यसि । यच्च किंचिन्मम ब्रह्मन्विद्यते भृगुनन्दन ॥ १५७ साङ्गं च सरहस्यं च यज्ञोपनिषदां तथा । प्रतिभास्यति ते सर्वं तच्चाऽऽद्यन्तं (?) न कस्यचित् ॥ १५८ सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि । एवं दत्त्वा वरांस्तस्मै भार्गवाय पुनः पुनः ॥ १५९ अजेयत्वं धनेशत्वमवध्यत्वं च वै ददौ । एताँल्लब्ध्वा वराञ्छाक्यः संप्रहृष्टतनूरुहः ॥ १६० हर्षात्प्रादुर्बभौ तस्य देवस्तोत्रं महेश्वरम् । तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् ॥ १६१ नमोऽस्तु शितिकण्ठाय सुरूपाय सुवर्चसे । रिरिहाणाय लोपाय वत्सराय जगत्पते ॥ १६२ कपर्दिने ह्यूर्ध्वरोम्णे हयाय करणाय च । संस्कृताय सुतीर्थाय देवदेवाय रंहसे ॥ १६३ उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे । वसुरेताय रुद्राय तपसे चीरवाससे ॥ १६४ ह्रस्वाय मुक्तकेशाय यद्दिने जाम्बवाय च । ( *कवये राजवृद्धाय तक्षकक्रीडनाय च ) ॥ १६५ गिरिशायार्कनेत्राय यतिने जाम्बवाय च । सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च ) ॥ १६६ सहस्रबाहवे चैव सहस्रामलचक्षुषे । सहस्रकुक्षये चैव सहस्रचरणाय च ॥ १६७ सहस्रशिरसे चैव बहुरूपाय वेधसे । भवाय विश्वरूपाय श्वेताय पुरुषाय च ॥ १६८ निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ १६९ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । महादेवाय शर्वाय विश्वरूपशिवाय च ॥ १७० हिरण्याय च शिष्टाय श्रेष्ठाय मध्यमाय च । + बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च ॥ १७१ पिनाकिने चेषुमते चित्राय रोहिताय च ॥ दुन्दुभ्यायैकपादाय अर्ह्याय बुद्धये तथा । मृगव्याधाय सर्पाय स्थाणवे भीषिकाय च ॥ १७२ बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलायैकवीराय मृत्यवे त्र्यम्बकाय च ॥ १७३ वास्तोष्पते पिनाकाय शंकराय शिवाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १७४ सांख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय शर्वाय मान्याय मालिने तथा ॥ १७५ बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चोकितानाय बलिष्ठाय महर्षये ॥ १७६ चतुष्पादाय मेध्याय धर्मिणे शीघ्रगाय च । शिखण्डिने कपाल्याय [÷दक्षिणे विश्वमेधसे ॥ १७७ अप्रतिघाताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ १७८ सौम्याय चैव पुण्याय ] धार्मिकाय शुभाय च । अवध्यामृताज्ञाय नित्याय शाश्वताय च ॥ १७९ कटचाय शरभायैव शूलिने च त्रिचक्षुषे । सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च ॥ १८० शुचये रोरिहाणाय सद्योजाताय मृत्यवे । पिशिताशाय खर्वाय मेधाय वैद्युताय च ॥ १८१


* धनुश्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति । +नास्त्यर्धमिदं क. पुस्तके । ÷धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।