वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 371, कुल 465 में से
संदर्भ में पढ़ें३६२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १७ श्लो० १२८-१५४]
( विष्णुमाहात्म्यकथनम् )
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ॥ १२८ मत्संनिधौ वर्ततां वो न भर्मिर्विनुमर्हति । भयाच्चाप्याभिपन्नांस्तान्दृष्ट्वा देवासुरांस्तदा ॥ १२९ जभिजघ्नुः प्रसह्यैतानाविचार्य बलाबलम् । तांस्त्रस्तान्वध्यमानांश्च देवैर्दृष्ट्वासुरांस्तदा ॥ १३० देवी क्रुद्धाब्रवीदेनान्अनिद्रत्वं करोम्यहम् । संस्तम्भ्य शीघ्रं संरम्भादिन्द्रं साऽभ्यचरत्ततः ॥ १३१ ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु यूपवत् । व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् ॥ १३२ गतेषु सुरसंघेषु विष्णुमिन्द्रमभाषत । मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर ॥ १३३ एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् ॥ १३४ एषा त्वां विष्णुना सार्धं दहामि मघवानिव(?) । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ १३५ तथाऽभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः । कथं मुच्येव सहितौ विष्णुमिन्द्रमभाषत ॥ १३६ इन्द्रोऽब्रवीज्जहीह्येनां यावन्नौ न दहेद्विभो । विशेषाणाभिभूतोऽहमतस्त्वं जहि मा चिरम् ॥ १३७ ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्तुमास्थितः । अभिध्याय ततश्चक्रमापन्नः सत्वरं प्रभुः ॥ १३८ तस्याः सत्वरमणायाः शीघ्रकारी सुरारिहा । स्त्रिया विष्णुस्ततो देव्याः क्रूरं बुद्ध्वा चिकीर्षितम् क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ १३९ तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरिश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ १४० यस्मात्ते जानता धर्मानवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मानुषेषु प्रवत्स्यसि ॥ १४१ ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । लोके सर्वहितार्थाय जायते मानुषेष्विह ॥ १४२ अनुव्याहृत्य विष्णुं स तदादाय शिरः स्वयम् । समानीय ततः काये अपो गृहेदमब्रवीत् ॥ १४३ एष त्वां विष्णुना सत्ये हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥ तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् ॥ १४४ सत्याभिवाहता तस्य देवी संजीविता तदा । तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् ॥ १४५ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः ॥ १४६ दृष्ट्वा संजीवितामेवं देवी तां भृगुणा तदा । मिषतां सर्व भूतानां तदद्भुतमिमाभवत् ॥ १४७ असंभ्रान्तेन भृगुणा पत्नीं संजीवितां ततः । दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः ॥ १४८ प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् । ( *प्रोवाच मतिमान्वावाक्यं स्वां कन्यां पाकशासनः ॥ एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः । तेनाहं व्याकुलः पुत्रि कृतो धृतिमतो दृढम् ) ॥ १५० गच्छ संभावयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ १५१ देवी सा हीन्द्रदुहिता जयन्ती शुभचारिणी । युक्तध्यानं च शाम्यन्तं दुर्बलं धृतिमास्थितम् ॥ १५२ पित्रा यथोक्तं काव्यं सा काव्ये कृतवती तदा । गीर्भिर्वैवानुकुलाभिः स्तुवती वल्गुभाषिणी ॥ १५३ गात्रसंवाहनैः काले सेधमाना सुखावहैः । शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः ॥ १५४
* धनाचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।