वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 379, कुल 465 में से
संदर्भ में पढ़ें३७० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१९श्लो०४-२९] ( तुर्वस्वादिवांशकथनम् )
एवं ययातिशांपेन जरायाः संक्रमेण तु । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ४
दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः । शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ॥ ५
पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च । तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥६
द्रुह्यस्य तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ । । अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ॥ ७
यौवनाश्वेन समिति कृच्छ्रेण निहतो बली । युद्धं सुमहदासीत्तु मासान्परि चतुर्दश ॥ ८
अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः । ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ ९
गान्धारदेशजाश्चापि तुरगा वाजिनां वराः । गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ १०
धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चाऽऽत्मजः । प्रचेतः पुत्रशतं राजानः सर्व एव ते ॥ ११
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः । अनोः पुत्रा महात्मानस्त्रयः परमधार्मिकाः ॥ १२
सभानरश्च पक्षश्च परपक्षस्तथैव च । सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ १३
* कालानलस्य धर्मात्मा सृञ्जयो नाम धार्मिकः । सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरंजयः ॥ १४
जनमेजयो महासत्त्वः पुरंजयसुतोऽभवत् । जनमेजयस्य राजर्षेर्महाशालोऽभवन्नृपः ॥ १५
आसीदिन्द्रसमो राजा प्रतिष्ठितयशाः दिवि । महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ १६
÷ सप्तद्वीपेश्वरो राजा चक्रवर्ती महायशाः । महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ॥ १७
उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् । उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ १८
मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥
तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ॥ १९
मृगायास्तु मृगः पुत्रो नवाया नव एव तु । कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ॥ २०
दृषद्वतीसुतश्चापि शिबिरौशीनरो द्विजः । शिबेः शिवपुरं ख्यातं यौधेयं तु मृगस्य तु ॥ २१
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाऽऽम्बष्ठा शिविपुत्रान्निबोधत ॥ २२
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः । वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ॥ २३
तेषां जनपदाः स्फीताः केकया मद्रकस्तथा । वृषदभीः सूचिदर्भास्तितिक्षोः शृणुत प्रजाः ॥ २४
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ॥ २५
हेमस्य सुतपा जज्ञे सुतः सुतयशा बली । जातो मनुष्ययोन्यां वै क्षीण वंशे प्रजेप्सया ॥ २६
महायोगी स तु बलिवंशदो यः स महामनाः । पुत्रानुत्पादयामास चातुर्वर्ण्यकरान्भुवि ॥ २७
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कालिङ्गं च तथा बालेयं क्षत्रमुच्यते ॥ २८
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः । बलेस्तु ब्रह्मणा दत्ताः वराः प्रीतेन धर्मतः ॥ २९
* एतदादिश्लोकद्वयं ग पुस्तके नास्ति । ÷ अयं श्लोको न विद्यते ख पुस्तके ।