वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 380, कुल 465 में से
संदर्भ में पढ़ें[अ० ९९ श्लो० ३०–५५] वायुपुराणम् । ३७१ ( तुर्वस्वादि वंशकथनम् ) माहैद्योगित्वमायुश्च कल्पाद्युःपरिमाणकम् । सङ्ग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ॥ ३० त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३१ चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति च । इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ॥ ३२ कालेन महता विद्वांस्त्वं वै स्थानमुपागतः । तेषां जनपदाः स्फीता वङ्गाङ्गसुलकास्तथा ॥ ३३ पुण्ड्राः कालिङ्गाश्च तथा तेषां वंशं निबोधत । तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः ॥ संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ ३४ ऋषय ऊचुः— कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो । ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ॥ ३५ सूत उवाच— अशिजो नाम विख्यातः आसीद्धीमानृषिः पुरा । भार्या वै ममता नाम बभूवास्य महात्मनः ॥ ३६ अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ ३७ उवाच ममता तं तु बृहस्पतिमनिच्छती । अन्तर्वत्न्यास्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति* ॥ ३८ अयं हि मे महागर्भो रोचतेऽति बृहस्पते । अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमृद्धिरन् ॥ ३९ अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ॥ ४० एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं महात्माऽपि नाऽऽत्मानं सोऽभ्यधारयत् ॥ ४१ संबभूवव धर्मात्मा तथा सार्धं बृहस्पतिः । +(उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ॥ ४२ नोत्खातक न्यसे (?) ह्यस्मिन्द्दयोर्नेहास्ति संभवः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहाऽऽगतः ॥ ४३ शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । ] उशिजं तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४४ यस्मत्त्वमीदृशे काले सर्वभूतेप्सिते सति । मामेवमुक्तवान्मोहात्तमो दीर्घं प्रवेक्ष्यसि ॥ ४५ ततो दीर्घतमा नाम शापादृषिरजायत । अथाशिजो बृहत्कीर्तिर्बृहस्पतिरिवौजसा ॥ ४६ ऊर्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे । गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान्प्रभो ॥ ४७ तस्य भ्राता पितृव्यस्तु चकार भवनं तदा । तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ ४८ दर्शार्थमाहतान्दभ्रींश्चचार सुरभीवृतः । जग्राह तं दीर्घतमा विस्फुरन्तं च शृङ्गयोः ॥ ४९ स तेन निगृहीतस्तु न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ५० न मयाऽऽसादितस्तात बलवांस्त्वद्विधः क्वचित् । त्र्यम्बकं वहता देवं यतो जातोऽस्मि(सि)भूतले ॥ ५१ मुञ्च मां बलिनां श्रेष्ठ प्रीतस्तेऽहं वरं वृणु । एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ ५२ तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् । ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ ५३ नास्माकं विद्यते तात पातकं स्तेयमेव वा । भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ ५४ कार्याकार्यं न वै विद्मो गम्यागम्यं तथैव च । न पाप्मानो वयं विप्र धर्मो ह्येष गवां स्मृतः ॥ ५५
* ज्येष्ठस्येत्यादिपादस्त्रुटितो ग. घ. ङ. पुस्तकेषु ।
+ एतच्चिह्नान्तर्गतग्रन्थो ङ पुस्तके नास्ति ।