वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 364, कुल 465 में से
संदर्भ में पढ़ें[अ० ९६ श्लो० २२६-२४८] वायुपुराणम्। ३५५ ( विष्णुवंशकथनम् )
त्वं त्विदानीं यथेष्टत्वं वर्तथा भूरिदक्षिण। सर्वानिस्यास्तु वै गर्भान्सत्यं नेष्यामि ते वशम्॥ २२६ एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति। एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा॥ २२७ वसुदेवश्च तां भार्यामाप्य मुदितोऽभवत्। कंसश्चास्यावधीत्पुत्रानपाकर्मा वृथामतिः॥ २२८
ऋषय ऊचुः-- क एष वसुदेवश्च देवकी च यशस्विनी। नन्दगोपस्तु कस्त्वेष यशोदा व महायशाः॥ यो विष्णुं जनयामास या चैनं चाभ्यवर्धयत्॥ २२९
सूत उवाच-- पुरुषः कश्यपस्याऽऽसन्नादित्यास्तु स्त्रियस्तथा। अथ कामान्महाबाहुर्देवकयाः समवर्धयत्॥ २३० अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम्। मोहयन्सर्वभूतानि योगात्मा योगमायया॥ २३१ नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्। कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्॥ २३२ अरहता रुक्मिणी कन्या सत्या नग्नजितस्तदा। सत्राजिती सत्यभामा जाम्बवत्यपि रोहिणी॥ सै(शै) व्या सुदेवी माद्री च सुशीला नाम चापरा। कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी॥ एवमादीनि देवीनां सहस्राणि च षोडश। चतुर्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि॥ विचिन्त्य देवैः शक्रेण विशिष्ठास्स्विह प्रेषिताः॥ २३५ पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु। एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः॥ २३६ प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा। चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः॥ २३७ चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा। सानुभानुस्तथाऽक्षश्च रोहितो मन्त्रयस्तथा॥२३८ जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः। चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्॥ २३९ भानुर्भामरिका चैव ताम्रपर्णी जरन्धमाः। सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः शृणु॥ २४० भद्रश्च भद्रगुप्तश्च भद्रविन्दस्तथैव च। सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा॥ संबोधनी च विख्याता ज्ञेया जाम्बवतीसुता॥ २४१ सङ्ग्रामजिच्च शताजित्तथैव च सहस्रजित्। एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्तिताः॥ २४२ वृको वृकथो वृकाजिद्वृजिनी च सुराङ्गना। मित्रबाहुः सुनाथिश्च नाग्नजित्याः प्रजास्त्विह॥ २४३ एवमदीनि पुत्राणां सहस्राणि निबोधत। प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः॥ २४४ अयुतानि तथाऽष्टौ च शूरा रणविशारदाः। जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम्॥ २४५ बृहती नर्तकोन्निथी सुनये सङ्गता तथा। कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः॥ २४६ तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः। अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च॥ अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः। चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा॥ २४८