भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 363, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 363

३५४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१६श्लो०२०६-२२५] (विष्णुवंशकथनम्)

वसुदेववचः श्रुत्वा रूपं संहृतवान्प्रभुः । अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः ॥
उग्रसेनमते तिष्ठन्यशोदायै तदा ददौ ॥ २०६
तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा । यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २०७
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः । तामेव रजनी कन्यां यशोदाऽपि व्यजायत ॥ २०८
तं जातं रक्षमाणस्तु वसुदेवो महायशाः । पादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २०९
दत्त्वैनं नन्दगोपस्य रक्ष मामिति चाब्रवीत् । सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥
अयं स गर्भो देवक्या अस्मत्क्लेशान्हानयिष्यति ॥ २१०
उग्रसेनात्मजे तां च कन्यामानकदुन्दुभिः । निवेदयामास तदा कन्येति शुभलक्षणा ॥ २११
+ स्वसायां तनयां कंसो जातां नैवावधारयत् । अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ॥
हता वै या यदा कन्या जप्त्येष वृथामतिः । कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ॥ २१३
पुत्रवत्पाल्यान्तो देवा देवान्यथा तदा(?) । तामेव विधिनाऽत्पन्नामाहुः कन्यां प्रजापतिम् ॥ २१४
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह । तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः ॥
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २१५

ऋषय ऊचुः-
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः । जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २१६

सूत उवाच-
शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः । जाताञ्जाताञ्शिशून्सर्वान्निष्पिपेषा वृथामतिः ॥ २१७
भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः । तथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २१८
उक्तं हि किल देवक्या वसुदेवरय धिमतः । सारथ्यं कृतवान्कंसो युवराजस्तदाऽभवत् ॥ २१९
ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्याचित् । कंसो यथा सदा भीतः पुष्कला लोकसाक्षिणी ॥
यामेतां वहसे कंस रथेन परकारणात् । अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ॥ २२१
तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः । निष्क्रम्य(ष्कृष्य)खड्गं तां कन्यां हन्तुकामोऽभवत्तदा
तमुवाच महाबाहुर्वसुदेवः प्रतापवान् । उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ॥ २२३
न स्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन । उपायः परिदृष्टोऽत्र मया यादवन्दन ॥ २२४
योऽस्याः संभवते गर्भः सप्तमः पृथिवीपते । तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २२५


+ अयं प्रयोगश्चाऽऽर्षः ।