वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 362, कुल 465 में से
संदर्भ में पढ़ें[अ०९६श्लो०१८३-२०५] वायुपुराणम् । ३५३ (विष्णुवंशकथनम्) सुगन्धी व(न्धर्व)नराजी च शौरेरास्तां परिग्रहः। पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ॥ तयोराजाऽभवत्पुण्ड्रः कपिलस्तु वनं ययौ॥ १८३ तस्यां समभवद्वीरो वसुदेवात्मजो बली। राजा नाम निषादोऽसौ प्रथमः स धनुर्धरः॥ १८४ विख्यातो देवरातस्य महाभागः सुतोऽभवत्। पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्॥ १८५ अश्मक्यां लभते पुत्रमनाधृष्टिं यशस्विनम्। निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम्॥ १८६ आजायत श्राद्धदेवो निषधादिर्यतः श्रुतः। एकलब्यो महावीर्यो निषादैः परिवर्धितः॥ १८७ गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ। चारुदेष्णं च साम्बं च कृतास्त्रौ शस्तलक्षणौ॥ १८८ तान्तिजस्तान्तिमालश्च स्वपुत्रौ कनकस्य तु। *वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्॥ सौतिर्दीदौ सुतं वीरं शौरिं कौशिकमेव च॥ १८९ तपाश्च क्रोधनुश्चैव विरजाः श्यामसूजिमौ। अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ॥ जुगुप्समानो भोजत्वं राजर्षित्वमवामुयात्॥ १९० +य इदं जन्म कृष्णस्य पठेत् नियतव्रतः। श्रावयेद्ब्राह्मणश्चापि सुमहत्सुखमवाप्नुयात्॥ १९१ देवदेवो महातेजाः पूर्वे कृष्णः प्रजापतिः। विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः॥ १९२ देवक्यां वसुदेवेन तपसा पुष्करेक्षणः। चतुर्बाहुस्तु संजज्ञे दिव्यरूपः श्रियाऽन्वितः॥ १९३ प्रकाशो भगवान्योगी कृष्णो मानुषमागतः। अव्यक्तो व्यक्तलिङ्गस्थः स एव भगवान्प्रभुः॥ १९४ नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः। देवो नारायणे भूत्वा हरिरासीत्सनातनः॥ १९५ योऽसृजच्चाऽऽदिपुरुषं पुरा चक्रे प्रजापतिम्। अदितेरपि पुत्रत्वमेव यादवनन्दनः॥ देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत्॥ १९६ प्रसादजं यस्य विभोरादित्याः पुत्रकारणम्। वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्॥ १९७ ययातिवंशजस्याथ वसुदेवस्य धीमतः। कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः॥ १९८ सागराः समकम्पन्त चेलुश्च धरणीधराः। जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने॥ १९९ शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः। ज्योतींष्यभ्यधिकं रेजुर्गार्यमाने जनार्दने॥ २०० अभिजिन्नार्म नक्षत्रं जयन्ती नाम शर्वरी। मुहूर्तो विजयो नाम यत्र जातो जनार्दनः॥ २०१ अव्यक्तः शाश्वतः कृष्णो हरिनारायणः प्रभुः। जायते स्मैव भगवान्यनैर्मोहियन्प्रजाः॥ २०२ आकाशात्पुष्पवृष्टिश्च ववर्ष त्रिदशेश्वरः। गीर्भिर्मङ्गल्युक्ताभिः स्तुवन्तो मधुसूदनम्॥ महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः॥ २०३ वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्। श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः॥ उवाच वसुदेवः स्वं रूपं संहर वै प्रभो॥ २०४ भीतोऽहं कंसतस्तात एतदेव ब्रवम्यिहम्। मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भूतदर्शनाः॥ २०५
* वस्तावनेरिति संप्रदानार्थे षष्ठी। + नायं श्लोको घ. पुस्तके।
४५