वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 361, कुल 465 में से
संदर्भ में पढ़ें३५२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१६-श्लो०१५८-१८२] ( विष्णुवंशकथनम् )
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः । यः पुराऽऽसीद्दशग्रीवः संबभूवारिमर्दनः ॥ १५८ पटुश्चवानुजस्तस्य रुजकन्यान्नुजस्तथा । पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ १५९ पौरवी रोहिणी चैव मदिरा चापरा तथा । तथैव भद्रा वैशाखी देवकी सप्तमी तथा ॥ १६० सुगन्धिवंनराजी च द्वे चान्ये परिचारिके । रोहिणी पौरवी चैव वाल्मीकस्याऽऽत्मजाऽभवत् ॥ १६१ ज्येष्ठा पत्नी महाभागा दयिताऽनकदुन्दुभेः । ज्येष्ठं लेभे सुतं रामं सारणं निशठं तथा ॥ १६२ दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ । चित्रां नाम कुमारीं च रौहिणेयौ व्यजायत ॥ १६३ पौत्रौ रामस्य जज्ञाते विज्ञाता निशितोत्सुकौ । पार्श्वी च पार्थनन्दी च शिशुः सत्यधृतिस्तथा ॥ १६४ मन्दवाक्षोऽथ रामाणगिरिकौ गिर एव च । शुक्लगुल्मोति गुल्मश्च दरिद्रान्तक एव च ॥ १६५ कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत । अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ १६६ तथा शतबला चैव सारणस्य सुतास्त्विमाः । भद्राश्वो भद्रगुप्तिश्च [* भद्रविद्यस्तथैव च ॥ १६७ भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च । सुपार्थकः कीर्तिमांश्च ] रोहिताश्वश्च भद्रजः ॥ १६८ दुर्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा चलः ॥ १६९ चित्रोपचित्रे कन्ये च स्थितः पुष्टिरथापरः । मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ॥ १७० उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ । चत्वार एते विख्याता भद्रपुत्रा महाबलाः ॥ १७१ वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम् । देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ॥ १७२ तदयो भद्रसेनश्च यजुदायश्च पञ्चमः । षष्ठो भद्रविदेकस्य कंसः सर्वाञ्जघान तान् ॥ १७३ अथ तस्यामवस्थायामायुष्मान्संबभूव ह । लोकनाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ॥ १७४ अनुजाताऽभवत्कृष्णा सुभद्रा भद्रभाषिणी । कृष्णा सुभद्रेति पुनर्वाख्याता वृष्णिनंदिनी ॥ १७५ सुभद्रायां रथी पार्थादभिमन्युरजायत । वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ ये पुत्रा जज्ञिरे शूरा नामस्तान्निबोधत ॥ १७६ अतोऽस्य सहदेवायां शूरो जज्ञे मयासखः । शार्ङ्गदेवाऽजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ॥ १७७ उपसङ्गं वसुं चापि तनयौ देवरक्षितौ । एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ॥ १७८ विजयं रोचनं चैव वर्धमानं तथैव च । एतान्सर्वान्महाभागानुपदेवा व्यजायत ॥ १७९
- स्वगाहवं महात्मानं वृकदेवी त्वजायत । आगाही च स्वसा चैव सुरूपा शिशिरायिणी ॥ १८० सप्तमं तेवकी पुत्रं सुनासा सुषुवे भुवम् । गवेषणं महाभागं सङ्ग्रामे चित्रयोधिनम् ॥ १८१ श्राद्धदेवं पुरा येन वनं विरचितं द्विजाः । सैव्यायामददाच्छौरिः पुत्रं कौशिकमव्ययम् ॥ १८२
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति । + इदमर्धं नास्ति ख. घ. पुस्तकयोः ।