भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 360, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 360

[अ०९६श्लो०१३३-१५७] वायुपुराणम्। ३५१ ( विष्णुवंशकथनम् )

(* तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा। शतांकूराष्ट्रपाला च कन्व्हा चैव वराङ्गना ॥ १३३
उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः) । कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥
आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ॥ १३४
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः । राज्याधिदेवः शूरश्च विदूरथ सुतोऽभवत् ॥ १३५
तस्य शूरस्य तु सुता जज्ञिरे वलवत्तराः । वातश्चैव निवातश्च शोणितः श्वेतवाहनः ॥ १३६
शमी च गदवर्मा च निदातः शक्रशक्रजित् । शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चाऽऽत्मजः ॥१३७
स्वयंभोजः स्वयंभोजाद्धृदिकः संवभूव ह । हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः ॥ १३८
कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः । देवार्हश्च वनार्हश्च भिषग्द्वैतरथश्च यः ॥ १३९
सुदान्तश्च धियान्तश्च नक्रवान्कनकोद्भवः । देवार्हस्य सुतो विद्वाञ्जज्ञे कम्बलवर्हिषः ॥ १४०
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः । अजावपुत्राय ततः प्रददावसमौजसे ॥
सुदंष्ट्रं च सुरूपं च कृष्ण इत्यन्धकाः स्मृताः ॥ १४१
× अन्धकानामिमं वंशं कीर्तयानस्तु नित्यशः । आत्मनो विपुलं वंशं लभते नात्र संशयः ॥ १४२
अस्मक्यां जनयामास शूरो वै देवमीढुषम् । माष्यां तु जनयामास शूरो वै देवमीढुषम् ॥ १४३
भाष्यां तु जज्ञिरे शूराद्भोजायां पुरुषा दश । वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ॥ १४४
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि । आनकानां च संह्रादः सुमहानभवद्दिवि ॥ १४५
पपात पुष्पवर्षं च शूरस्य भवने महत् । मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ॥ १४६
यस्याऽऽसीत्पुरुषाग्रयस्य कीर्तिश्चन्द्रमसो यथा । देवभागस्ततंा जज्ञे ततो देवश्रवाः पुनः ॥ १४७
अनाधृष्टिकडश्चैव नन्दनश्चैव भृङ्गिनः । श्यामः शमीको गण्डूषश्चत्वारस्तु वराङ्गनाः ॥ १४८
पृथा च श्रुतवेदा च श्रुतकीर्तिः श्रुतश्रवा । राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥ १४९
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत् । अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥ १५०
तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा तथा । कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥
पृथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः । लोकेऽप्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥ १५२
धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम् । इन्द्राद्धनंञ्जयं चैव पृथा पुत्रानजीजनत् ॥ १५३
माद्रवत्यां तु जनितावाश्विनाचिति विश्रुतम् । नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ॥ १५४
जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः । करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ॥ १५५
कैकेय्यां श्रुतकीर्त्यां तु जज्ञे संतर्द्दनः पुनः । चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ १५६
विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ । श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ १५७


* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । × नास्तीदमर्धं घ पुस्तके ।