भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 359, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 359

३५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०९६श्लो०१०६-१३२] ( विष्णुवंशवर्णनम् )

सा मातुरुदरस्था वै बहुवर्षशतान्किल । वसति स्म न वै जज्ञे गर्भस्थां तां पिताऽब्रवीत् ॥ १०६ जायस्व शीघ्रं भद्रं ते किमर्थं चापि तिष्ठसि । प्रोवाच चैनं गर्भस्था सा कन्या गौर्दिने दिने ॥ यदि दत्ता तदा स्यां हि यदि स्वामीहतां पितः । तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ दाता यज्वा च शूरश्च श्रुतवानातिथिप्रियः । तस्याः पुत्रः स्मृतोऽक्रूरः स्व(श्व)फल्को भूरिदक्षिणः उपमङ्गुस्तथा मङ्गुर्मृदुरश्वारिमेजयः । गिरिक्षस्ततो यक्षः शत्रुघ्नो वाऽरिमर्दनः ॥ ११० धर्मभृच्च धृष्टचयो वर्गमोचस्तथाऽपरः । आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ १११ अक्रूरादुग्रसेनायां तु सुतौ द्वौ कुलनन्दिनौ । देवश्वानुपदेवश्च जज्ञाते देवसंमितौ ॥ ११२ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ ११३ अरिष्टनेमिरश्वश्च सुवर्मा चर्मवर्मभृत् । अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ ११४ सत्यकात्काशिदुहिता लेभे सा चतुरः सुतान् । कुकुदं भजमानं च शमीकम्बलवर्हिषौ ॥ ११५ ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत् । कपोतरामा तस्याथ रेवतोऽभवदात्मजः ॥ ११६ तस्याऽऽसीत्तुम्बुरुसखा विद्वान्पुत्रोऽभवत्किल । ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः॥११७ तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः । अश्वमेधं तु पुत्रार्थं आजहार नरोत्तमः ॥ ११८ तस्य मध्येऽतिरात्रस्य सदोमध्यातसमुत्थितः । ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ ११९ तस्यापि पुत्रमिथुनं बाहुवाणाजितः किल । आहुकश्चाऽऽहुकी चैव ख्यातौ मतिमतां वरौ ॥ १२० इमांश्चोदाहरन्त्यत्र श्लोकान्प्रति तमाहुकम् । सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥ १२१ रथानां मेघघोषाणां सहस्राणि दशैव तु । नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ॥ १२२ नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् । आहुकस्य धृतिः पुत्र इत्येवमनुशुश्रुम ॥ १२३ श्वेतेन परिवारेण किशोरमतिमान्धयान् । अशीतिमश्वनियुतान्याहुकप्रतिमोऽव्रजत् ॥ १२४ पूर्वेस्यां दिशि नागानां भोजस्य प्रतिमोऽभवत् । रूप्यकाञ्चनकक्षाणां सहस्राण्ये कविंशतिः ॥ १२५ तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि । भूमिपालस्य भोजस्य उत्तिष्ठेत्किङ्किणी किल ॥ १२६ आहुकश्चाऽऽहुकान्धाय स्वसारं त्वाहकीं ददौ । आहुकान्धस्य दुहिता द्वौ पुत्रौ संबभूवतुः ॥ १२७ देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ १२८ देवानामापि देवश्च सुदेवो देवरक्षिता । तेषां स्वसारः सप्ताऽऽसन्वसुदेवाय तां ददौ ॥ १२९ वृकदेवोपदेवा च तथाऽन्या देवरक्षिता । श्रदिेवा शान्तिदेवा च महादेवा तथाऽपरा ॥ १३० सप्तमी देवकी तासां सुनामा चारुदर्शना । नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ १३१ न्यग्रोधश्च सुनामा च कङ्कशंकुश्च भूमयः । सुतनू राष्ट्रपालश्च युद्धस्तुष्टः सुपुष्टिमान् ॥ १३२