वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 358, कुल 465 में से
संदर्भ में पढ़ें[अ०९६श्लो०८१-१०५] वायुपुराणम् । ३४९ ( विष्णुवंशवर्णनम् ) अर्थांश्चरत्नानि चान्याणि द्रव्याणि विविधानि च । षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ॥ ८१ अक्रूरयज्ञा इत्येते ख्यातास्तस्य महात्मनः । बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ ८२ अथ दुर्योधनो राजा गत्वाऽथ मिथिलां प्रभुः । गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ ८३ प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः । आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ ८४ अक्रूरस्त्वन्धकैः सार्धमुपायात्पुरुषर्षभः । युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमतो बली ॥ ८५ श्वफल्कतनयायां तु नरायां नरसत्तमौ । भञ्जकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ ८६ जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ । वधार्थं भञ्जकारस्य कृष्णो न प्रीतिमान्भवेत् ॥ ८७ ज्ञातिभेदभयाद्धीतस्तमुपेक्षितवांस्तथा । अपयाते तथाऽक्रूरे नाववर्षत्पाकशासनः ॥ ८८ अनावृष्ट्या हतं राष्ट्रमभवत्तद्द्योद्यतम् । ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ ८९ पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा । प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ ९० कन्यां च वासुदेवाय स्वसारं शीलसंमताम् । अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं यदुपुंगवः ॥ ९१ अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ॥ ९२ यच्च रत्नं मणिवरं तव हस्तगतं प्रभो । तत्प्रयच्छस्व मानार्हं विमातिमत्र मा कृथाः ॥ ९३ षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम । सुसंरूढः सकृत्प्राप्तस्तत्कालाश्चित्य यो महान् (?) ॥ ९४ ततः कृष्णस्य वचनात्सर्वसात्वतसंसदि । प्रददौ तं मणिं बभ्रुरक्रूरेण महामतिः ॥ ९५ तत आर्जवसंपाप्तम्बभ्रुहस्तादरिंदमः । ददौ प्रहृष्टमानसा तं मणिं बभ्रवे पुनः ॥ ९६ स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् । आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ ९७ इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम् । वेद मिथ्याभिशस्तिं स न व्रजेच्च कथंचन ॥ ९८ अनामित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् । सत्यवाक्सत्यसंपन्नः सत्यकस्तस्य चाऽऽत्मजः ॥ ९९ सात्याकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् । भूतेर्युगंधरः पुत्र इति मौत्याः प्रकीर्तिताः ॥ १०० *माद्र्यासुतस्य जज्ञे तु सुतः पृथुर्य्युधाजितः । जज्ञाते तनयौ पृथ्वेः श्व(ध)फल्कश्चित्रकश्च यः ॥ श्व(श्व)फल्कस्तु महाराजो धर्मात्मा यत्र वर्तते । नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ कदाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः । त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ १०३ स तत्र वासयामास श्व(ध)फल्कं परमार्चितम् । श्व(ध)फल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ १०४ स्फ (ध)फल्कः काशिराजस्य सुतां भार्यामानिन्दिताम् । गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः ॥
* नास्त्यर्थमिदं क पुस्तके ।