भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 357, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 357

३५८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ९६ श्लो० ५४-८०] ( विष्णुवंशवर्णनम् )

अथ द्वारवती नाम भङ्गकारस्य सुप्रजाः। सर्व्वे सा कुमारीस्तु तिस्रो रूपगुणान्विताः॥ ५४ सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता। तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ। ५५ यत्तच्छक्रजिते कृष्णो मणिरत्नं स्यमन्तकम्। पादात्तद्वारयद्बभ्रुर्भोजेन शतधन्वना॥ ५६ तदा हि प्रार्थयामास सत्यभामामानन्दिताम्। अक्रूरो रत्नमन्विच्छन्मणिं चैव स्यमन्तकम्॥ ५७ भद्रकारं ततो हत्वा शतधन्वा महाबलः। रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान्॥ ५८ अक्रूरस्तु तदा रत्नमादायस नरर्षभः। समयं कारणं चक्रे बोध्यो नान्यस्त्वयेत्युत॥ ५९ वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः। मम च द्वारका सर्वा वशे तिष्ठत्यसंशयम्॥ ६० इते पितरि दुःखार्ता सत्यभामा यशस्विनी। प्रययौ रथमारुह्य नगरं वारणावतम्॥ ६१ सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः। भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाऽश्रूण्यवर्त्तयत्॥ ६२ पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम्। तुल्यार्थे चैव भ्रातृणां नियोजयति सात्यकिम्॥ ततस्त्वरितमागम्य द्वारकां मधुसूदनः। पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत्॥ ६४ हतः प्रसेनः सिंहेन शत्रुजिच्छतधन्वना। स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो॥ ६५ तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्। स्यमन्तको महाबाहो तदाऽस्माकं भविष्यति॥ ६६ ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः। शतधन्वा न चाकूरमवैक्षत्सर्व्वतो दिशि॥ ६७ अनष्टाश्वावरोहं तु कृत्वा भोजजनार्दनौ। शक्तोऽपि साध्यादार्द्धिक्यो नाकूरोऽभ्युपपद्यत॥ ६८ अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः। योजनानां शतं साग्रं यथा च प्रत्यपद्यत॥ ६९ विज्ञातहृदया नाम शतयोजनगामिनी। भोजस्य यडवा दिव्या यया कृष्णमयाधयत्॥ ७० प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम्। दृष्ट्वा रथस्य तां वृद्धिं शतधन्वानमर्द्दयत्॥ ७१ ततस्तस्या हयायास्तु श्रमात्स्वेदाच्च वै द्विजाः। खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत्॥ ७२ तिष्ठस्वेह महाबाहो दृष्टदोषा मया हया। पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्॥ ७३ पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः। मिथिलाधिपतिं तं वै जघान परमास्त्रवित्॥ ७४ स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम्। निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीति लाङ्गली॥ ७५ नास्तीति कृष्णश्चोवाच ततो रामो रुषाऽन्वितः। धिक्शब्दमसकृत्पूर्व्वं प्रत्युवाच जनार्द्दनम्॥ ७६ भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्। कृत्यं न मे द्वारक्या न त्वया न च वृष्णिभिः॥ ७७ प्रतिवेश ततो रामो मिथिलामरिर्मदनः। सर्व्वकामैरुपहृतैर्मैथिलेनैव पूजितः॥ ७८ एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः। नानारूपानक्रतुन्सर्व्वानाजहार निरर्गलान्॥ ७९ दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह। स्यमन्तककृते राजा गाधिपुत्रो महायशाः॥ ८०