भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 356, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 356

[अ० ९६ श्लो० २९-५३] वायुपुराणम् । ३४७ ( विष्णुवंशवर्णनम् ) तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह । स तान्विस्मापयित्वाऽथ पुरीमन्तःपुरं तथा ॥ २९ तं प्रसेनजिते दिव्यं मणिरत्नं स्यमन्तकम् । ददौ भ्रात्रे नरपतिः प्रेम्णा शत्रूजिदुत्तमम् ॥ ३०

  • स्यमन्तको नाम मणैर्यस्य राष्ट्रे स्थितो भवेत् । कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ॥ ३१ लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् । गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ ३२ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ॥ ३३ जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै । आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ॥ ३४ तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः । मणौ गृध्नुं तु मन्वानास्तमेव विशशङ्किरे ॥ ३५ मिथ्याभिशस्तिं तेभ्यस्तां बलवानारिसूदनः । अमृष्यमाणो भगवान्वनं स विचचार ह ॥ ३६ स तु प्रसेनो मृगयामचरत्तत्र चाप्यथ । प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ ३७ ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् । अन्वेषणपरिश्रान्तः स ददर्श महामनाः ॥ ३८ साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् । अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ ३९ ऋक्षेण निहतो दृष्टः पादैर्ऋक्षस्य सूचितः । पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ ४० महत्यपि बिले वाणीं शुश्रावः पमदेरिताम् । धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ प्रीतिमत्याऽथ मणिना मा रोदीरित्युदीरिताम् ॥ ४१. धात्र्युवाच— प्रसेनमवधीत्सिंहः सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्ययन्तकः ॥ ४२ व्यक्तीकृतं च शब्दं तं तूर्णं सोऽपि ययौ बिलम् । अपश्यच्च बिलाभ्यासे प्रसेनमवदारितम् ॥ ४३ प्रविश्य चापि भगवांस्तदृक्षबिलमञ्जसा । ददर्श ऋक्षराजानं जाम्बवन्तममुदारधीः ॥ ४४ युयुधे वासुदेवस्तु बिले जाम्बवता सह । बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ॥ ४५ प्रविष्टे च बिलं कृष्णे वासुदेवपुरःसराः । पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ ४६ वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् । लेभे जाम्बवतीं कन्यामृक्षराजस्य संमताम् ॥ ४७ भगवत्तेजसा ग्रस्तो जाम्बवान्प्रसभं मणिम् । सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ॥ ४८ मणिं स्यमन्तकं चैव जग्राहाऽऽत्मविशुद्धये । अनुनीय ऋक्षराजं निर्ययौ च तदौ बिलात् ॥ ४९ एवं स मणिमादाय विशोध्याऽऽत्मानमात्मना । ददौ शत्रूजिते तं वै मणिं सात्वतसंनिधौ ॥ ५० कन्यां पुनर्जाम्बवतीमुवाह मधुसूदनः । तस्मान्मिथ्याभिशापात्स व्यमुच्यत जनार्दनः ॥ ५१ इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम् । वेद मिथ्याभिशस्तैः स नाभिशस्यति कर्हिचित् ॥ ५२ दशस्वसृभ्यो भार्याभ्यः शत्रूजितः शतं सुताः । ख्यातिमन्तस्त्रयस्तेषां भङ्कारस्तु पूर्वजः ॥ ५३ वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुपियः ॥

  • एतदर्धस्थान इमे अर्धे—' स्यमन्तकमणिं रत्नं धृष्यकं स्वं निवेशनेः' इति ख. पुस्तके ।
    ' स्यमन्तकमणिं रत्नं दृश्यहस्तस्तन्निवेशने ' इति घ. पुस्तके ।