भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 355, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 355

३४६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०९६श्लो०५-२८] (विष्णुवंशवर्णनम्)

ये बाह्रकार्यशुद्ध्यां भजमानाद्विजज्ञिरे । अयुतायुतसाहस्रशताजिदथ वामकः ॥ ५ बाह्रकार्याभगिन्यां ये भजमानाद्विजज्ञिरे । तेषां देवावृधो राजा चचार परमं तपः ॥ ६ पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह । संयोज्याऽऽत्मानमेवं सवर्णां सा जलमस्पृशत् ॥ ७ सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा । कल्याणं च नरपतेस्तस्य सा निम्नगोत्तमा ॥ ८ चिन्तयाऽभिपरीताङ्गी जगामाथ विनिश्चयम् । नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ ९ भवेत्सर्वगुणोपेतो राज्ञो देववृधस्य हि । तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः ॥ १० अथ भूत्वा कुमारी तु सावित्री परमं वचः । चिन्तयामास राजानं तामियेष स पार्थिवः ॥ ११ तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः । अथ सा नवमे मासि सुषुवे सरितां वरा ॥ १२ पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः । तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ॥ १३ गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनाः । यथैव शृणुते दूरात्संपश्यति तथाऽन्तिकात् ॥ १४ बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ॥ येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ १५ यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्यवाग्बुधः । कीर्तिमांश्च महाभागः सात्वतानां महारथः ॥ १६ तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः । गान्धारी चैव माद्री च वृष्णेर्भार्ये बभूवतुः ॥ १७ गान्धारी जनयामास सुमित्रं मित्रनन्दनम् । माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ॥ १८ अनामित्रं सुतं चैव तावुभौ पुरुषोत्तमौ । अनामित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ १९ प्रसेनश्च महाभागः शक्राजिच्च सुतावुभौ । तस्य शक्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ २० स कदाचिन्निशापाये रथेन रथिनां वरः । तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ॥ २१ तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः । अस्पष्टमूर्तिर्भगवान्स्तेजोमण्डलवान्विभुः ॥ २२ अथ राजा विवस्वन्तमुवाच स्थितमग्रतः । यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥ २३ तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् । को विशेषो विवस्वंस्ते सख्येनोपगतेन वै ॥ २४ एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् । स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ २५ ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा । प्रतिमामथ तां दृष्ट्वा मुहूर्तं कृतवांस्तथा ॥ २६ तमप्रतिस्थितं भूयो विवस्वन्तंस शक्राजित् । प्रोवाचाभिसवर्णा त्वं येन लोकान्मयास्याति(सि) ॥ तदैव मणिरत्नं तन्मां भवान्दातुमर्हति ॥ २७ स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः । स तमाबध्य नगरं प्रविवेश महीपतिः ॥ २८