वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
[अ० ४६-४७ श्लो० ३३-३७।१-१६] वायुपुराणम् १४१
( भुवनविन्यासः )
रक्षःपिशाचा यक्षाश्च सर्वे हैमवताः स्मृतः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ ३३
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भवन्ते यज्ञियाः सुराः ॥
नीले तु वैडूर्यमये सिद्धब्रह्मर्षयोऽमलाः ॥ ३४
दैत्यानां दानवानां च श्वेतपर्वत उच्यते । शृङ्गवान्पर्वतः श्रेष्ठः पितॄणां प्रतिसंचरः ॥ ३५
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
तेषां विवृद्धिर्बहुला दृश्यते देवमानुषी । न शक्या परिसंख्यातुं श्रद्धेयाऽनुबुभूषता ॥ ३७
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४२२
अथ सप्तचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह रक्षसः ॥ १
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ॥ २
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् । मन्दं नाम्ना कुमुद्वन्तं शरदम्वुदसंनिभम् ॥ ३
तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा । दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् ॥ ४
प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम् । सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ॥ ५
चन्द्रप्रभो नाम गिरिः स शुद्धो रत्नसंनिभः । तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ॥ ६
तस्माद्दिव्या प्रभवति सच्छोदा नाम निम्नगा । तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं स्मृतम् ॥ ७
तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः । यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ॥ ८
पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा । महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥ ९
कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् । मनःशिलामयं दिव्यं पिशाचं पर्वतं प्रति ॥ १०
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् । तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥ ११
तस्मात्पुण्यः प्रभवति लौहित्यः सदनो महान् । देवारण्यं विशोकं च तस्य तीरे महावनम् ॥ १२
तस्मिन्गिरौ निवसति यक्षो मणिवरो वशी । सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ॥ १३
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधं गिरिम् । वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ॥
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ॥ १४
तस्मात्प्रभवते पुण्या सरयूर्लोकभावनी । तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ १५
कुबेरानुचरस्तत्र प्रहेतुतनयो वशी । ब्रह्मपातो निवसति राक्षसोऽनन्तविक्रमः ॥
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १६
१४२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४७श्लो०१७–४५] ( भुवनविन्यासः )
अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम् । अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ॥ १७
भवस्य दयितः श्रीमान्पर्वतो मेघसंनिभः । शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १८
शतसंख्यैस्तापनीयैः शृङ्गैर्र्दिवमिवोल्लिखन् । सञ्जवान्स महादिव्यो दुर्गशैलो हिमाचितः ॥ १९
तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ २०
तस्मात्प्रभवते दिव्या शैलोदा नाम निम्नगा । सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ २१
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै । अस्त्युरेण कैलासाच्छिवसत्त्वौषधो गिरिः ॥ २२
गौरो नाम गिरिस्तत्र हरितालमयः शुभः । हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ २३
तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ॥ २४
गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ॥ २५
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता । सोमपादमसूता सा सप्तधा प्रतिपद्यते ॥ २६
यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ॥ २७
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलम् । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ २८
अन्तरिक्षं दिवं चैव भावयन्ती भुवं गता । भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ २९
तस्या ये बिन्दवः केचित्क्रुद्धायाः पतिताः क्षितौ । कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ॥ ३०
ततो निरुद्धा देवी सा भवेन स्मयता किल । चिन्तयामास मनसा शंकरक्षेपणं प्रति ॥ ३१
भित्त्वा विशामि पातालं स्रोतसाऽऽगृह्य शंकरम् । ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् । तस्या वलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शंकरः ॥
निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ॥ ३३
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः । धमनीसंततं क्षीणं क्षुधापारिगतेन्द्रियम् ॥ ३४
अनेन तोषितंश्वाहं नद्यर्थं पूर्वमेव हि । बुद्ध्वाऽस्य वरदानं तु कोपं नियतवांस्तु सः ॥ ३५
ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति । ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ ३६
ततो विसर्ज्यमानायाः स्रोतस्तत्सप्ततां गतम् । त्रयः प्राचीमभिमुखं प्रतीचीं त्रय एव तु ॥ ३७
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा । नलिनी ह्लादिनी चैव पावनी चैव प्राग्गता ॥ ३८
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाश्रिताः । सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ॥ ३९
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् । सप्तैता भावयन्तहि हिमाह्वं वर्षमेव तु ॥ ४०
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः । नानादेशान्भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ॥ ४१
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । सिरिन्धान्कुन्तलांश्चैवान्बर्बरान्यवसान्द्रुहान् ॥ ४२
रुषाणांश्च कुणिन्दांश्च अङ्गलौकवराय ये । कृत्वा द्विधा सिन्धुम॒रुं सीताऽगात्पश्चिमोदधिम् ॥ ४३
अथ चीनमरूंश्चैव तङ्गणान्सर्वमूलिकान् । सान्ध्रांस्तुषारांस्तम्पाकान्पह्ववान्दरदाञ्छकान् ॥
एताञ्जनपदांश्चक्षुः प्लावयन्ती गतोदधिम् ॥ ४४
दरदांश्च सकाश्मीरान्गान्धारान्वरपाण्डवान् । शिवपौरानिन्दहासांन्वदातींश्च विसर्जयान् ॥ ४५
[अ० ४७ श्लो० ४६-७३] वायुपुराणम्। १४३
(भुवनविन्यासः)
सैन्धवान्रन्ध्रकरकान्भ्रमराभीररोहकान्। शुनामुखांश्चोर्ध्वमनून्र्सिद्धचारणसेवितान् ॥ ४६ गन्धर्वान्किन्नरान्यरक्षांरक्षोविद्याधरोरगान्। कलापग्रामकांश्चैव पारदान्सगिणान्खसान् ॥ ४७ किरातांश्च पुलिन्दांश्च कुरून्समरतानपि। पञ्चालकाशिमात्स्यांश्च मगन्धाङ्गांस्तथैव च ॥ ४८ ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च। एताञ्जनपदानार्यान्गङ्गा भावयते शुभान् ॥ ४९ ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्। ततश्चाऽऽह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ॥ ५० प्लावयन्त्युपभोगांश्च निषादानां च जातयः। धीवरानृषिकांश्चैव तथा नीलमुखानपि ॥ ५१ केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि। कालोदरान्विवर्णांश्च कुमारान्सुवर्णभूषितान् ॥ ५२ सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः। ततस्तु मावनी चैव प्राचीमेव दिशं गता ॥ ५३ अपथान्प्लावयन्तीह इन्द्रद्युम्नसरोऽपि च। तथा खरापथांश्चैव इन्द्रशङ्कुपथानपि ॥ ५४ मध्येनोद्यानमकरान्कुथप्रावरणान्ययौ। इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ॥ ५५ ततश्च नलिनी चागात्प्राचीमाशां जवेन तु। तोमरान्प्लावयन्तीह हंसमार्गान्सहूहुकान् ॥ ५६ पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्। कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ॥ ५७ सिकतापर्वतमरून्गत्वा विद्याधरान्ययौ। नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ॥ ५८ तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः। उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥ ५९ वस्वोकसारातीरे तु वने सुरभिविश्रुते। हरिशृङ्गे तु वसति विद्वान्कौबेरको वशी ॥ ६० यज्ञोपेतः स सुमहानामिनौजाः सुविक्रमः। तत्राऽऽगस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः ॥ कुबेरानुचरा ह्येते चत्वारस्तत्समाः स्मृताः ॥ ६१ एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्। परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ ६२ हेमकूटस्य पृष्ठे तु सायनं नाम तत्सरः। मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ॥ ६३ अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ। सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ ६४ तस्माद्द्वयं प्रभवति गान्धर्वी नत्वली च यः। मेरोः पश्चात्प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ ६५ तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्। पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवन् ॥ ६६ पुण्डरीका पयोदा च तस्मान्नद्यौ पिनिर्गते। श्वेतात्प्रभवते पुण्यं सरस्तूत्तरमानसम् ॥ ६७ ज्योत्स्ना च मृगकान्ता च तस्माद्धे संबभूवतुः। मधुमत्सरः पुण्यं च पद्ममीनद्विजाकुलम् ॥ ६८ कल्पवृक्षसमाकीर्णं मधुवत्स्रवतः सुखम्। रुद्रकान्तामिति ख्यातं निर्मितं तद्द्रवेन तु ॥ ६९ अन्ये चाप्यत्र विख्याताः पद्ममीनद्विजाकुलाः। नाम्ना ह्रदा जया नाम द्वादशोदधिसंनिभाः ॥ ७० तेभ्यः शान्ती च माध्वी च द्वे नद्यौ संबभूवतुः। यानि किंपुरुषाद्यानि तेषु देवो न वर्षति ॥ ७१ उद्भिज्जान्युदकान्यत्र प्रवहन्ति सरिद्वराः। ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ॥ ७२ पूर्वायता महाभागा निम्नगा लवणाम्भासि। चन्द्रकक्षस्तथा द्रोणो महानग्निः शिलोच्चयः ॥ उद्ग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ ७३
१४४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४७-४८श्लो०७४-८०-१-१२] ( भुवनविन्यासः )
सोमकश्च वराहश्च नारदश्चः महीधरः । प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ७४
वको बलाहकश्चैव मैनाकश्चैव पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥
*चन्द्रमैनाकयोर्मध्ये विदिशं दक्षिणं प्रति ॥ ७५
तत्र संवर्तको नाम सोऽग्निः पिबति तज्जलम् । नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ॥
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् । महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा ॥
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ ७७
भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः । इहोदितस्य दृश्यन्ते तथाऽन्येऽन्यत्र नोदिते ॥ ७८
उत्तरोत्तरमेतेषां वर्षमुद्दिश्य ते गुणैः । आरोग्यायुष्प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ॥ ७९
समन्वितानि भूतानि गुणैरेतैस्तु भागतः । वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ॥
इत्येषाऽधारयत्सर्वं पृथिवी विश्वं जगत्स्थितौ ॥ ८०
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः–३५०२
अथाष्टचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच–
दक्षिणेनापि वर्षस्य भारतस्य निबोधत । दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ १
त्रीण्येव तु सहस्राणि योजनानां समायसम् । अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ २
विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम् । येन कूटतटैर्नैकैस्तव्द्वीपं समलंकृतम् ॥ ३
प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः । वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४
तस्य शैलस्य च्छिद्रेषु विस्तीर्णेष्वार्यतेषु च । अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ५
नरनारीसमाढ्यानि मुदितानि महान्ति च । तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ६
पुराणि संनिविष्टानि पर्वतान्तर्गतानि च । सुसंबद्धानि चान्योन्यमेकद्वाराणि तान्यथ ॥ ७
दीर्घश्मश्रुधरात्मानो नीला मेवसप्रभाः । जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ८
शाखामृगसधर्माणः फलमूलांशिनस्तथा । गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ९
तद्द्दीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः । एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ १०
विशंत्रिंशच्च पश्चाशत्षष्ट्यशीतिः शतं तथा । सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ११
विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः । बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ १२
* इदमर्धं नास्ति घ. पुस्तके ।
[अ०४८श्लो०१३-४०] वायुराणम् । १४५ ( भुवनविन्यासः ) जम्बूद्वीपप्रदेशास्तु षडन्ये विविधाश्रयाः । अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ १३ अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च । *शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ १४ अङ्गद्वीपं निबोध त्वं नानासत्त्वसमाकुलम् । नानाम्लेच्छगणाकीर्णं तद्दीपं बहुविस्तरम् ॥ १५ हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं संनिभं लवणाम्भसा ॥ १६ तत्र चक्रगिरिर्नाम नैकनिर्झरकन्दरः । तत्र सा तु दरी चास्य नानासत्त्वसमाश्रया ॥ १७ स मध्ये नागदेशस्य नैकदेशो महागिरिः । कोटिभ्यां नागानिलयं प्राप्तो नदनदीपतिम् ॥ १८ यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । (÷तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः ॥ १९ समुद्रगानां( णां ) प्रभवः प्रभवः काञ्चनस्य तु ॥ २० तथैव मलयद्वीपमेवमेव सुसंवृतम् ।) मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ २१ आकरं चन्दनानां च समुद्राणां तथाऽऽकरम् । नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ २२ तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः । महामलय इत्येवं विख्यातो वरपर्वतः ॥ द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । +नानापुष्पफलोपेतं रम्यं देवर्षिसेवितम् ॥ २३ अगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ २४ तथा काञ्चनपादस्य मलयस्यापरस्य हि । निकुञ्जस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ २५ नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते । तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ २६ तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरगृहे ॥ २७ तस्य कूटतटे रम्ये हेमप्राकारतोरणा । निर्यूहवलभी चित्रा हर्म्यप्रासादमालिनी ॥ २८ शतयोजनविस्तीर्णा त्रिंशदायामियोजना । नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥ सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्यादेवविद्विषाम् ॥ २९ मानुषाणामसंबाधा ह्यगम्या सा महापुरी ॥ ३० तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः । गोकर्णनामधेयस्य शंकरस्याऽऽलयं महत् ॥ ३१ तथैकाराज्यं विज्ञेयं शङ्खद्वीपसमाश्रितम् । शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ३२ तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ३३ शङ्खनागा महापुण्या यस्मात्प्रभवते नदी । यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ३४ तथैव कुमुदद्वीपं नानापुष्पोपशोभितम् । नानाग्रामसमाकीर्णं नानारत्नाकरं शिवम् ॥ ३५ कुमुदा नाम महाभागा दुष्टचित्तनिबर्हणी । महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ३६ तथा वराहद्वीपे च नानाम्लेच्छगणाकुले । नानाजातिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ३७ धनधान्ययुते स्फीते धर्मिष्ठजनसंकुले । नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपमैः ॥ ३८ वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः । अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ३९ तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी । वाराही नाग वरदा प्रवृत्ता स्म महानदी ॥ वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे । अनन्यदेवतास्तस्मै नमस्कुर्वन्ति वै प्रजाः ॥ ४०
* इदमर्धं नास्ति ख. पुस्तके। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।
१९
एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२
१४६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४८-४९ श्लो० ४१-४३। १-१८] ( भुवनविन्यासः)
एवं षडेते कथिता अनुद्वीपाः समन्ततः । भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥ ४१ एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२ एवं चतुर्महाद्वीपः सान्तरद्वीपमण्डितः । सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४३ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३५४५ अथैकोनपञ्चाशत्तमोऽध्यायः । भुवनविन्यासः ।
सूत उवाच- प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् । शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १ जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चास्य परिणाहः समन्ततः ॥ तेनाऽऽवृतः समुद्रोऽयं द्वीपेन लवणोदकः ॥ २ तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा । कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ॥ ३ तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः । रत्नाकरास्तथा नद्यस्तासां नामानि वक्ष्यते( च्म्यहम् ) प्लक्षद्वीपादिषु त्वेषु सप्त सप्तसु सप्तसुः । ऋज्वायताः परिदिशं निविष्टाः पर्वता सदा ॥ ५ प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपामहाचलान् । गोमेदकोऽत्र प्रथमः पर्वतो मेघसंनिभः ॥ ख्यायते तस्य नाम्ना वै वर्षं गोमेदकं तु तत् ॥ ६ द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः । अधिभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ॥ ७ तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः । तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ ८ चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः । शब्दमृत्युः पुरा तस्मिन्दुन्दुभिस्ताडितः सुरैः ॥ रज्जुदारो रज्जुमयः शाल्मलग्र्थासुरान्तकृत् ॥ ९ पञ्चमः सोमको नाम देवैर्ह्यमृतं पुरा । संभृतं त्त हतं चैव मातुरर्थे गरुत्मता ॥ १० षष्ठस्तु सुमना नाम स एवर्षभ उच्यते । हिरण्याक्षो वराहेण तस्मिञ्छेले निषूदितः ॥ ११ वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् । यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः १२ तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् । गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ॥ १३ चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम् । आनन्दं दुन्दुभेर्वर्षं सोमकस्य शिवं स्मृतम् ॥ क्षेमकमृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १४ एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ॥ १५ तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । नामतस्ताः प्रवक्ष्यामि सप्त गङ्गा महानदीः ॥ १६ (*अनुतप्ता सुतप्तैव निष्पापा मुदिता क्रतुः । अमृता सुकृता चैव सप्तैताः सरितां वराः ) ॥ १७ अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः । बहूदकाश्चौघवत्यो यतो वर्षति वासवः ॥ १८
* धनुश्चिह्नार्न्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ४-श्लो० १९-४४] वायुपुराणम्। १४७
( भुवनविन्यासः )
ता पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ॥ १९
आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवैः सह। वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ॥ २०
सर्वेष्वरोगाः सुबलाः प्रजास्त्वामयवर्जिताः। अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ २१
न तत्रास्ति युगावस्था चतुर्युगकृता काचित्। त्रेतायुगसमः कालः सर्वदा तत्र वर्तते ॥ २२
प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः। देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ २३
पञ्च वर्षसहस्राणि तेषु जीवन्ति मानवाः। सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ॥ २४
सुखमायुर्बलं रूपमारोग्यं धर्म एव च। प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ॥ २५
प्लक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान्। दिव्योषाधिफलोपेतः सर्वौषधिवनस्पतिः ॥ २६
आवृतः पशुभिः सर्वैर्गामा(भ्या)रण्यैः सहस्रशः। जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः ॥
प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ॥ २७
स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि। स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः ॥ २८
प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु। इत्येष संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः ॥ २९
आनुपूर्व्या समासेन शाल्मलं तं निबोधत ॥
ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्। शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदिकः ॥ ३०
प्लक्षद्वीपस्य विस्ताराद्विगुणेन समावृतः ॥ ३१
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ॥ ३२
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः। सर्वधातुमयैः शृङ्गैः शिलाजालसमुद्गतैः ॥ ३३
द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः। हरितालमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३४
तृतीयः पर्वतस्तस्य वलाहक इति श्रुतः। जात्यञ्जनमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३५
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः। विशल्यकरणी चैव मृतसंजीवनी तथा ॥ ३६
कङ्कस्तु दशमस्तत्र पर्वतः सुमहोदयः। दिव्यपुष्पफलोपेतो वृक्षवृत्तित्समावृतः ॥ ३७
षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः। यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः ॥
सप्तमः पर्वतस्तत्र ककुद्मन्नाम भाष्यते। तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः ॥ ३८
प्रजापतिमुपादाय प्राजापत्ये विधिः स्वयम् ॥
इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः। तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै ॥ ३९
कुमुदात्प्रथमं श्वेतमुन्नतस्य तु लोहितम् ॥
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम्। कङ्कस्य वैयुतं नाम महिषस्य तु मानसम् ॥ ४०
ककुदः सुप्रभं नाय सप्तैतानि तु सप्तधा। वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ ४१
पानतोया वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ॥
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः। अशक्याः परिसंख्यातुं श्रद्धेयास्तु बुभूषता ॥ ४३
इत्येष संनिवेशो वः शाल्मलस्यापि कीर्तितः। प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ॥ ४४
शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥
१४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९श्लो०४५-७३] ( भुवनविन्यासः )
शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ४५
उत्तरेषु तु धर्मज्ञा द्वीपेषु शृणुत प्रजाः । यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ ४६
कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः । सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ ४७
सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत । शाल्मलस्य तु विस्ताराद्विगुणेन समन्ततः ॥ ४८
कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः । द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ ४९
तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः । चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ ५०
षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपां नाम मन्दरो धारणादपाम् ॥ ५१
तेषामन्तरविष्कम्भो द्विगुणः परिवारितः । उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ ५२
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् । पञ्चमं धृतिमद्धर्षं षष्ठं वर्षं प्रभाकरम् ॥
सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ॥ ५३
एतेषु देवगन्धर्वाः प्रभासु जगदीश्वराः । विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ॥ ५४
न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च । गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ॥ ५५
तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा । पवित्रा संततिश्चैव द्युतिगर्भा मही तथा ॥ ५६
अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः । अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः॥ ५७
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः । विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ॥ ५८
इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः । क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ॥ ५९
कुशद्वीपस्य विस्ताराद्विगुणः स तु वै स्मृतः । घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ६०
तस्मिन्द्वीपे नगश्रेष्ठः क्रौञ्चस्तु प्रथमो गिरिः । क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ ६१
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः । दिवावृतः परश्चापि द्विन्दो गिरिरुच्यतेः ॥ ६२
द्विविन्दात्परतश्चापि पुण्डरीको महागिरिः । पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥ ६३
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः । बहुवृक्षफलोपेता नाना वृक्षलतावृताः ॥ ६४
परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्वताः । वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ॥ ६५
क्रौञ्चस्य कुशलो देशो वामनस्य मनोजुगः । मनोजुगात्परश्चोष्णस्तृतीयो देश उच्यते ॥ ६६
उष्णात्परः प्रावरकः प्रावरादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ ६७
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । सिद्धचारणसंकीर्णो गौरप्रायो जवः स्मृतः ॥ ६८
तत्रापि नद्यः सप्तैव प्रतिवर्षं स्मृतः शुभाः । गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ॥
ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ ६९
तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः । अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः । । ७०
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु । आवृतः सर्वतः श्रीमान्क्रौञ्चद्वीपसमेन तु ॥ ७१
प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्तिताः । तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ॥ ७२
न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि । निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ॥ ७३
[अ० ४९ श्लो० ७४-९९] वायुपुराणम् १४९
(भुवनविन्यासः)
अत ऊर्ध्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः । शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात् ॥
शृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ॥ ७४
क्रौञ्चद्वीपस्य विस्ताराद्विगुणस्तस्य विस्तरः । परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ ७५
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः । कुत एव तु दुर्भिक्षं जराव्याधिभयं कुतः ॥ ७६
तत्रापि पर्वताः शुभ्राः सप्तैव परिभूषिताः । रत्नाकरास्तथा नद्यस्तासां नामानि मे शृणु ॥ ७७
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायातः ससौवर्ण उदयो नाम पर्वतः ॥ ७८
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च । तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ ७९
तस्मान्नित्यमुपादत्ते वासवः परमं जलम् । ततो वर्षं प्रभवति वर्षाकाले मजास्विह ॥ ८०
तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठितः । रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ॥ ८१
तस्यापरेण सुमहाञ्श्यामो नाम महागिरिः । तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ ८२
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः । तस्यापरेणाऽऽम्बिकेयो दुर्गः शैलो हिमाचितः ॥ ८३
आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः । स चैव केशरीत्युक्तो यतो वायुः प्रवायात ॥ ८४
शृणुध्वं नामतस्तानि यथावदनुपूर्वशः । उदयस्योदकं वर्षं जलदं नाम विश्रुतम् ॥ ८५
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् । रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ॥ ८६
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् । आम्बिकेयस्य मोदार्कं केसरेषु महाद्रुमम् ॥ ८७
द्वीपस्य परिमाणं च ह्रस्वदीर्घत्वमेव च । शाकद्वीपेन विख्याततस्य मध्ये वनस्पतिः ॥
शाको नाम महावृक्षस्तस्य पूजां प्रयञ्जते ॥ ८८
एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ ८९
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ॥
विद्धि नाम्नश्च (म्ना च) ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ॥ ९०
प्रथमा सुकुमारीति गङ्गा शिवजला तथा । अनुतप्ता च नाम्नैव नदी संपरिकीर्तिता ॥ ९१
कुमारी नामतः सिद्धा द्वितीया सा पुनः सती । नन्दा च पार्वती चैव तृतीया परिकीर्तिता ॥ ९२
शिवेतिका चतुर्थी स्यात्त्रिदिवा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ॥ ९३
धेनुका च मृता चैव षष्ठी संपरिकीर्तिता । एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः ॥
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ ९४
अनुगच्छन्ति तास्त्वन्या नदीर्नद्यः सहस्रशः । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ ९५
तासां तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥ ९६
शांशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः । नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः ॥ ९७
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः । पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ॥ ९८
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान् । क्षीरोदेन समुद्रेण सर्वतः परिवारितः ॥
शाकद्वीपस्तु विस्तारात्समेन तु समन्ततः ॥ ९९
१५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९-श्लो०१००-१२८] (भुवनविन्यासः)
तस्मिञ्जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः॥ १०० न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १०१ न तेषु लोभो माया वा ईर्ष्याऽसूयाऽधृतिः कुतः । विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् ॥ करोत्पत्तिर्न तेष्वस्ति न दण्डो न च दण्डकाः । स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ १०३ एतावदेव शक्यं वै तस्मिन्द्वीपे निवासिनाम् । पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥ १०४ पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः । शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ॥ १०५ पुष्करे पर्वतः श्रीमानेक एव महाशिलः । चित्रैर्मणिमयैः शैलैः शिखरैस्तु समुच्छ्रितैः ॥ १०६ द्वीपस्य तस्य पूर्वार्धे चित्रसानुः स्थितो महान् । परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥ १०७ ऊर्ध्वं चैव चतुस्त्रिंशत्सहस्राणि समाचितः । द्वीपार्धस्य परिस्तोमः पर्वतो मानसोत्तमः ॥ १०८ स्थितो बेलासमीपे तु नवचन्द्र इवोदितः । योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ १०९ तावदेव स विस्तीर्णः सर्वतः परिमण्डलः । स एवं द्वीपपक्षार्धे मानसः पृथिवीधरः ॥ ११० एक एव महासानुः संनिवेशद्विधा कृतः । स्वादूदकेनोदधिना सर्वतः परिवारितः ॥ १११ पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः । तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥ अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ॥ ११२ महावीतं तु यद्वर्षं बाह्यतो मानसस्य तत् । तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ॥ ११३ दश वर्षसहस्राणि तत्र जीवन्ति मानवाः । आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ॥ ११४ सममायुश्च रूपं च तस्मिन्वर्षद्वये स्थितम् । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ॥ ११५ न तत्र वञ्चको नेर्ष्या न स्तेया(यं) न भयं तथा । निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥ सत्यानृत्यं न तत्रास्ति धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्ता वा पाशुपाल्यं वणिक्क्रिया ॥ ११७ त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च । वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ ११८ न तत्र नद्यो वर्षे च शीतोष्णं वा न विद्यते । उद्भिज्ञान्युदकान्यत्र गिरिमप्र(स्र)वणानि च ॥ ११९ उत्तराणां कुरूणां च तुल्यकालो जनः सदा । सर्वत्र सुसुखस्तत्र जरामृत्युविवर्जितः ॥ १२० इत्येष धातकीखण्डे महावीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ॥ १२१ स्वादूदकेनोदधिना पुष्करः परिवारितः । विस्तारान्मण्डलाच्चैव पुष्करस्य तथैव च ॥ १२२ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृता । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु सः ॥ १२३ एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् । अपां चैव समुद्रेकात्समुद्रा इति संज्ञिताः ॥ १२४ ऋषयो निवसन्त्यस्मिन्प्रजा यस्माच्चतुर्विधाः । तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं तु तत् ॥ १२५ ऋष इत्येव ऋषिणो वृषः शक्तिप्रबन्धने । रतिप्रबन्धनात्सिद्धं वर्षत्वं तेन तेषु तत् ॥ १२६ शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते सदा । पक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १२७ • आपूय्र्यमाण उदधिः स्वत एवाभिपूय्र्यते । ततोऽपक्षीयमाणोऽपि स्वात्मनैवापकृष्यते ॥ १२८
[अ० ४९ श्लो० १२९-१५३] वायुपुराणम्। १५१
( भुवनविन्यासः ) उखास्थमग्निसंयोगाज्जलंमुद्रिच्यते यथा । तथा महोदधिगतं तोयमुद्रिच्यते ततः ॥ १२९ अन्यूना ह्यतिरिक्ताश्च वर्धन्त्यापो हसन्ति च । उदयास्तमितेश्वेन्दोः पक्षयोः शुक्लकृष्णयोः ॥ क्षयवृद्धिंरवमुदधेः सोमवृद्धिक्षयात्पुनः ॥ १३० दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु । अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु ॥ १३१ द्विरापत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः । उदकस्याऽऽधानं यस्मात्तस्मादुधिरुच्यते ॥ अपर्वाणस्तु गिरयः पर्वाभिः पर्वताः स्मृताः । प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ॥ १३२ शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमः । कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ॥ १३३ क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह । शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥ १३४ न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः । महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ॥ १३५ तस्मिन्निवसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ॥ स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ॥ १३६ जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च । द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमात्त्विह ॥ १३७ सर्वशो ब्रह्मचर्येण सत्येन च दमेन च । आरोग्यायुः प्रमाणाद्धि द्विगुणं च समन्ततः ॥ १३८ एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् । गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ॥ १३९ ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः । सविष्णुः सशिवो देवः स पिता स पितामहः ॥ १४० भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ॥ १४१ परेण पुष्करस्याथ आवृत्त्यायः(यं) स्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ॥ १४२ परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ १४३ तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम् । प्रकाशाश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १४४ आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम् । योजनानां सहस्राणि दश तस्योच्च्छ्रयः स्मृतः ॥ १४५ तावांश्च विस्तस्तस्य पृथिव्यां कामगश्च सः । आलोके लोकशब्दस्तु निरालोके सलोकता ॥ लोकार्थं समतो लोको निरालोकस्तु बाह्यतः ॥ १४६ लोकविस्तारमात्रं तु आलोकः सर्वतो बहिः । परिच्छिन्नः समन्ताच्च उदकेनाऽऽवृतश्च सः ॥ निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ॥ १४७ अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ॥ १४८ जनस्तपस्तथा सत्य एतावांलोकसंग्रहः । एतावानेव विज्ञेयो लोकान्तश्चैव तत्परः ॥ १४९ कुम्भस्थायी भवेद्याद्वक्प्रतीच्यां दिशि चन्द्रमाः । आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ॥ १५० अण्डानामहिशानां तु कोट्यो ज्ञेयाः सहस्रशः । तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः ॥ कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ॥ १५१ दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् । परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ॥ १५२ अण्डस्यास्य समन्तात्तु संनिविष्टो घनोदधिः । समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ॥ १५३
१५२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४१श्लो० १५४-१७८] ( भुवनविन्यासः )
बाह्यतो घनतोयस्य तिर्यगूर्ध्वानुमण्डलम् । धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ॥ १५४ अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः । समन्ताद्धनवातेन धार्यमाणः स तिष्ठति ॥ घनवातस्तथाऽऽकाशं धारयाणस्तु तिष्ठति ॥ १५५ भूतादिश्च तथाऽऽकाशं भूताद्यं चाप्यसौ महान् । महान्व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ अनन्तमपरिव्यक्तं दशधा सूक्ष्म एव च । अनन्तमकृतात्मानमनादिधनं च तत् ॥ १५७ अतीत्य परतो घोरमनालम्बमनामयम् । नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ॥ १५८ तम एव निरालोकममर्यादमदेशिकम् । देवानामप्यविदितं व्यवहारविवर्जितम् ॥ १५९ तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम् । मर्यादायामतस्तस्य शिवस्याऽऽयतनं महत् ॥ त्रिदशानामगम्यं तु स्थानं दिव्यमिति श्रुतिः । महतो देवदेवस्य मर्यादायां व्यवस्थितम् ॥ १६१ चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः । ते लोका इत्यभिहिता जगतश्च न संशयः ॥ १६२ रसातलतलात्सप्त सप्तैवोर्ध्वतलाः क्षितौ । सप्त स्कन्धास्तथा वायोः सप्तब्रह्मसदना द्विजाः ॥ १६३ आपातालाद्दिवं यावदत्र पञ्चविधा गतिः । प्रमाणमेतज्जगत एष संसारसागरः ॥ १६४ अनाद्यन्ता प्रथात्येवं नैकजातिसमुद्भवा । विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ॥ १६५ यथैतद्द्योतिकं नाम निसर्गबहुविस्तरम् । अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ॥ १६६ पृथिव्यां चाग्निवायूनां महत्तस्तमसस्तथा । ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ॥ १६७ क्षयो वा परिमाणं वा अन्तो वाऽपि न विद्यते । अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥ तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्तने ॥ १६८ य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम् । स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ॥ १६९ भूमौ रसातले चैव आकाशे पवनेऽनले । अर्णवेषु स सर्वेषु दिवि चैव न संशयः ॥ १७० तथा तपसि विज्ञेय एष एव महाद्युतिः । अनेकधा विभक्ताङ्गो महायोगी महेश्वरः ॥ सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ १७१ एवं परस्परोत्पन्ना धार्यन्ते च परस्परान् । आधाराधेयभावेन विकारास्ते विकारिणः ॥ १७२ पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् । परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ॥ १७३ यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः । प्रागासन्द्यविशेषास्तु विशेषानान्योन्यवेशनात् ॥ पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्यस्तु ते ॥ १७४ गुणापचयसारेण परिच्छेदो विशेषतः । शेषाणां तु परिच्छेदः सौम्यानेह विभाव्यते ॥ १७५ भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः । भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ॥ १७६ पात्रे महति पात्राणि यथैवान्तर्गतानि तु । भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ॥ तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ १७७ कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु । यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ॥ १७८
इत्येष संनिवेशो वो मया प्रोक्तो विभागशः । सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ॥ १८१
[अ० ४९-५० श्लो० १७९ १८६।१-१३] वायुपुराणम् १५३
(ज्योतिष्प्रचारः)
जन्तूनामिह संस्कारो भूतेष्वन्तर्गतो मतः । प्रत्याख्याय च भूतानि कार्योत्पत्तिर्न विद्यते ॥ १७९
तस्मान्पारिमिता भेदाः स्मृताः कार्यात्मकास्तु ते । करणात्मकास्तथैव स्युर्भेदा ये महदादयः ॥ १८०
इत्येष संनिवेशो वो मया प्रोक्तो विभागशः । सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ॥ १८१
विस्तारान्मण्डलाच्चैव प्रसंख्यातेन चैव हि । वैश्वरूपं प्रधानस्य परिमाणैकदेशिकम् ॥ १८२
अधिष्ठानं भगवतो यस्य सर्वमिदं जगत् । एवं भूतगणाः सप्त संनिविष्टाः परस्परम् ॥ १८३
एतावान्संनिवेशस्तु मया शक्यः प्रभाषितुम् । एतावदेव श्रोतव्यं संनिवेशे तु पार्थिव ॥ १८४
सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम् । तास्वल्पपरिमाणेन प्रसंख्यातुमिहोच्यते ॥ १८५
असंख्येयाः प्रकृतयस्तिर्यगूर्ध्वमधश्च याः ॥
तारकासंनिवेशश्च यावद्दिव्यं तु मण्डलम् । मर्यादासंनिवेशस्तु भूमेस्तदनुमण्डलम् ॥ १८६
अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ॥
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
आदितः श्लोकानां समष्टयङ्काः—३६३१
अथ पञ्चाशोऽध्यायः।
ज्योतिष्प्रचारः ।
सूत उवाच--
अधः प्रमाणमूर्ध्वं च वर्ण्यमानं निबोधत । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १
अनन्तधातयो ह्येते व्यापकास्तु प्रकीर्तिताः ॥ २
जननी सर्वभूतानां सर्वभूतधरा धरा । नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥ ३
नानानदनदीशैला नैकजातिसमाकुला । अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥ ४
नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः । पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥ ५
आपोऽनन्ताश्च विज्ञेयास्तथाऽग्निः सर्वलौकिकः । अनन्तः पठ्यते चैव व्यापकः सर्वसंभवः ॥ ६
तथाऽऽकाशमनालम्बं रम्यं नानाश्रयं स्मृतम् । अनन्तं पठितं सर्वं वायुश्चाऽऽकाशसंभवः ॥ ७
आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता । आकाशञ्चापरमधः पुनर्भूमिः पुनर्जैलम् ॥ ८
एवमन्तम(न्तो ह्य)नन्तस्य भौतिकस्य न विद्यते । पुरा सुरैरभिहितं निश्चितं तु निबोधत ॥ ९
भूमिर्जंलमथाऽऽकाशमिति ज्ञेया परम्परा । स्थितिरैषा तु विज्ञेया सप्तमेऽस्मिन्रसातले ॥ १०
दशयोजनसाहस्रमेकभौमं रसातलम् । साधुभिः परिविख्यातमेकैकं बहुविस्तरम् ॥ ११
प्रथममतलं चैव सुतलं तु ततः परम् । ततः परतरं विद्याद्वितलं बहुदिस्तरम् ॥ १२
ततो गभस्तलं नाम परतश्च महातलम् । श्रीतलं च ततः पाऽऽहुः पातालं सप्तमं स्मृतम् ॥ १३
कृष्णभौमं च प्रथमं भूमिभागं च कीर्तितम् । पाण्डुभौमं द्वितीयं तु तृतीयं रक्तमृत्तिकम् ॥
२०
१५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५० श्लो० १४-४२] (ज्योतिष्प्रचारः)
पीतभौमं चतुर्थं तु पञ्चमं शर्करातलम् । पृष्ठं शिलामयं चैव सौवर्णं सप्तमं तलम् ॥ १४ प्रथमे तु तले ख्यातमसुरेन्द्स्य मन्दिरम् । नमुचेरिन्द्रचोर्हि महानादस्य चाऽऽलयम् ॥ १५ पुरं च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम् । निष्कुलादस्य च पुरं प्रहृष्टजनसंकुलम् ॥ १६ राक्षसस्य च भीमस्य शूलदन्तस्य चाऽलयम् । लोहिताक्षकालिङ्गानां नगरं श्वापदस्य तु ॥ १७ धनंजयस्य च पुरं माहेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरं कलसस्य च ॥ १८ एवं पुरसहस्राणि नागदानवरक्षसाम् । तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥ १९ द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुवक्षसः । महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥ २० हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम् । शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥ २१ राक्षसस्य च नीलस्य मेघस्य कथनस्य च । पुरं च कुकुपादरय महोष्णीषस्य चाऽऽलयम् ॥ २२ कम्बलस्य च नागस्य पुरमथतरस्य च । कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥ २३ एवं पुरसहस्राणि नागदानवरक्षसाम् । द्वितीयेऽस्मिंस्तले विप्राः पाण्डुभौमे न संशयः ॥ २४ तृतीये तु तले ख्यातं प्रह्लादस्म महात्मनः । अनुह्लादस्य च पुरं दैत्येन्द्रस्य महात्मनः ॥ २५ तारकाख्यस्य च पुरं पुरं त्रिशिरसस्तथा । शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥ २६ च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम् । राक्षसेन्द्रस्य च पुरं कुम्भिलस्य खरस्य च ॥ २७ विराधस्य च क्रूरस्य पुरमुल्कामुखस्य च । हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ २८ मणिमन्त्रस्य च पुरं कपिलस्य च मन्दिरम् । नन्दस्य चोरगपतेर्विशालस्य च मन्दिरम् ॥ २९ एवं पुरसहस्राणि नागदानवराक्षसाम् । तृतीयेऽस्मिंस्तले विप्राः पीतभौमे न संशयः ॥ ३० चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः । गजकर्णस्य च पुरं नगरं कुञ्जरस्थ च ॥ ३१ राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम् । मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चाऽऽलयम् ॥ ३२ बहुयोजनसाहस्रं बहुपक्षिसमाकुलम् । नगरं वैनतेयस्य चतुर्थेऽस्मिन्सुरसातले ॥ ३३ पञ्चमे शर्कराभौमे बहुयोजनविस्तृते । विरोचनस्य नगरं दैत्यासिंहस्य धीमतः ॥ ३४ वैदूर्यस्याग्निजिह्वस्य हिरण्याक्षस्य चाऽऽलयम् । पुरं च विद्युज्जिह्वस्य राक्षसस्य च धीमतः ॥ ३५ महामेधस्य च पुरं राक्षसेन्द्रस्य शालिनः । कर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ ३६ एवं पुरसहस्राणि नागदानवरक्षसाम् । पञ्चमेऽपि तथा ज्ञेयं शर्करा निलये सदा ॥ ३७ षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम् । सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ॥ ३८ राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥ तत्राऽऽस्ते सुरसापुत्रः शतशीर्षो मुदा युतः । कश्यपस्य सुतः श्रीमान्वासुकिर्नाम नागराट् ॥ ३९ एवं पुरसहस्राणि नागदानवरक्षसाम् । षष्ठे तलेऽस्मान्विख्याते शिलाभौमे रसातले ॥ ४० सप्तमे तु तले ज्ञेयं पाताले सर्वपार्थिमे । बलेः प्रमादितं पुरं नरनारीसमाकुलम् ॥ ४१ असुराशीविषैः पूर्णमुद्धतैर्देवशत्रुभिः । मुचुकुन्दस्य दैत्मस्य तत्र वै नगर महत् ॥ ४२
[अ०५०-श्लो०४३-७०] वायुपुराणम् १५५ (ज्योतिष्प्रचारः) अनेकैरदितिपुत्राणां समुदीर्णैर्महापुरैः । तथैव नागनगरैर्ऋद्धिमाद्भिः सहस्रशः ॥ ४३ दैत्यानां दानवानां च समुदीर्णैर्महापुरैः । उदीर्णैराक्षसावासैरनेकेश्च समाकुलम् ॥ ४४ पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने । आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ४५ धौतशङ्खोदरवपुर्नीलवासा महाभुजः । विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ४६ रुक्मश्मश्रुजटादन्तन दीप्तास्येन विराजता । प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ४७ स जिह्वामालया देवो लोलज्वालानलार्चिषा । ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ४८ स तु नेत्रसहस्रेण द्विगुणेन विराजता । बालसूर्याभिताम्रेण शोभते स्निग्धमण्डलः ॥ ४९ तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते । तरुणादित्यमालेव श्वेतपर्वतमूर्धनि ॥ ५० जटाकरालो द्युतिमाँल्लक्ष्यते शयनासने । विस्तीर्ण इव मेदिन्यां सहस्राशिखरो गिरिः ॥ ५१ महाभोगैर्महाभागैर्महानागैर्महाबलैः । उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५२ स राजा सर्वनागानां शेषो नाम महाद्युतिः । सा वैष्णवी हरितनुर्मर्यादायां व्यवस्थिता ॥ ५३ सप्तैवेते कथिता व्यवहार्या रसातलाः । देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५४ अतः परमनलोक्यमगम्यं सिद्धसाधुभिः । देवानामप्यविदितं व्यवहाराविवर्जितम् ॥ ५५ पृथिव्यामम्बुवायूनां नभसश्च द्विजोत्तमाः । महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः* ॥ ५६ अत ऊर्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् । सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु ॥ प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५७ सप्तानां च समुद्राणां द्वीपानां तु स विस्तरः । विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५८ पर्याप्तपारिमाण्यं तु चन्द्रादित्यौ प्रकाशतः । पर्याप्तपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५९ अवाति त्रीनिमाल्लोकाँन्यस्मात्सूर्यः परिभ्रमन् । अवधातुः प्रकाशार्थ्यो ह्यवनात्स रविः स्मृतः ॥ ६० अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महितत्वान्महाशब्दो ह्यस्मिन्वर्षे निपात्यते ॥ ६१ अस्य भारतवर्षस्य विष्कम्भं तु सुविस्तरम् । मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ६२ नवयोजनसाहस्रो विस्तारो भास्करस्य तु । विस्तारात्त्रिगुणश्चास्य परिणाहोऽथ मण्डलम् ॥ निष्कम्भो मण्डलस्यैव भास्कराद्विगुणः शशी ॥ ६३ अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह । सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् ॥ ६४ इत्येतदिह संख्यातं पुराणं परिमाणतः । तद्वक्ष्यामि प्रसंख्याय सांप्रतैरभिमानिभिः ॥ ६५ अभिमानिन्यतीता ये तुल्यास्ते सांप्रतैरह । देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ६६ तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम् । दिवस्तु संनिवेशो वै सांप्रतैरेव कृत्स्नशः ॥ ६७ शतातार्धकोटिविस्तारा पृथिवी कृत्स्नतः स्मृता । तस्या बाधप्रमाणेन मेरोर्वै चतुरन्तरम् ॥ ६८ पृथिव्या बाधविस्तारो योजनायात्मकल्पितः । मेरुमध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ॥ ६९ तथा शतसहस्राणि एकोननवतिः पुनः । पञ्चाशच्च सहस्राणि पृथिव्याबाधविस्तरः ॥ ७०
* षट्पञ्चाशत्तमश्लोकान्तेऽध्यायसमाप्तिः ख. पुस्तके वर्तते ।
१५६ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ०५० श्लो० ७१-९८]
(ज्योतिषप्रचारः)
पृथिव्या विस्तरं कृत्स्नं योजनैस्तन्निबोधत। तिस्रः कोट्यस्तु विस्तारः संख्यातः स चतुर्दिशम् ॥ ७१ तथा शतसहस्राणामेकोनाशीतिरुच्यते। सप्तद्वीपसमुद्रायाः पृथिव्यास्त्वेष विस्तरः॥ ७२ विस्तरात्त्रिगुणं चैव पृथिव्यन्तस्य मण्डलम्। गणितं योजनाग्रं तु कोटयस्त्वेकादश स्मृताः ॥ ७३ तथा शतसहस्र तु सप्तत्रिंशाधिकानि तु। इत्येतद्वै प्रसंख्यातं पृथिव्यन्तस्य मण्डलम् ॥ ७४ तारकासंनिवेशस्य दिवि यावद्धि मण्डलम्। पर्य्यासः संनिवेशस्य भूमेस्तावत्तु मण्डलम् ॥ ७५ पर्यायपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम्। सप्तानामपि लोकानामेतन्मानं प्रकीर्तितम् ॥ ७६ पर्यायपारिमाण्येन मण्डलानुगतेन च। उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥ ७७ संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः। एतदण्डकटाहस्य प्रमाणं परिकीर्तितम् ॥ ७८ अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी। भूर्लोकश्च भुवश्चैव तृतीयः स्वरिति स्मृतः ॥ महर्लोको जनश्चैव तपः सत्यश्च सप्तमः ॥ ७९ एते सप्त कृता लोकाछत्राकारा व्यवस्थिताः। स्वकैरवरणैः सूक्ष्मैर्धार्यमाणाः पृथक्पृथक् ॥ ८० दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः। धार्यमाणा विशेषैश्च समुत्पन्नैः परस्परम् ॥ ८१ अस्याण्डस्य समन्ताच्च संनिविष्टो घनोदधिः। पृथिवीमण्डलं कृत्स्नं घनतोयेन धार्यते ॥ ८२ घनोदधिपरणार्थ धार्यते घनतेजसा। बाह्यतो घनतेजस्तु तिर्यगूर्ध्वं तु मण्डलम् ॥ ८३ समन्ताद्धनवातेन धार्यमाणं प्रतिष्ठितम्। घनवातात्तथाऽऽकाशमाकाशं च महात्मना ॥ ८४ भूतादिना वृतं सर्वं भूतादिर्महता वृतः। ततो महाननन्तेन प्रधानेनाव्ययात्मना ॥ ८५ पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम्। ज्योतिर्गणप्रचारस्य प्रमाणं परिवक्ष्यते ॥ ८६ मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्धनि। वस्वोकसारा माहेन्द्री पुण्या हेमपरिष्कृता ॥ ८७ दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्धनि। वैवस्वतो निवसति यमः संयमने पुरे ॥ ८८ प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्धनि। सुखा नाम पुरी रम्या वरुणस्याथ धीमतः ॥ ८९ दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि। तुल्या माहेन्द्रपुर्यां तु सोमस्यापि विभावरी ॥ ९० मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम्। स्थिता धर्मव्यवस्थायै लोकसंरक्षणाय च ॥ ९१ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने। काष्ठागतस्य सूर्यस्य गतिर्या तां निबोधत ॥ ९२ दक्षिणे प्रक्रमे सूर्यः क्षिप्तेषुरिव सर्पति। ज्योतिषां चक्रमादाय सततं परिगच्छति ॥ ९३ मध्यंगश्चामरावत्यां यदा भवति भास्करः। वैवस्वते संयमने उदयस्तत्र उच्यते ॥ ९४ सुखायामर्धरात्रं च मध्यमः स्याद्बहिर्यदा। सुखायामथ वारुण्यामुत्तिष्ठंस्तु दृश्यते ॥ ९५ विभायामर्धरात्रं स्यान्माहेन्द्रयामस्तमेति च। तदा दक्षिणपूर्वेषामपराह्नो विधीयते ॥ ९६ दक्षिणापरदेश्यानां पूर्वाह्नः परिकीर्त्यते। तेषामपररात्रं च ये जना उत्तरापथे ॥ ९७ देशा उत्तरपूर्वा ये पूर्वरात्रं तु तान्प्रति। एवमेवोत्तरेष्वर्को भवनेषु विराजते ॥ ९८
[अ० ५० श्लो० ९९-१०२] वायुपुराणम् । १५७ (ज्योतिष्प्रचारः) सुखायामथ वारुण्यां मध्याह्ने चार्यमा यदा । * विभावर्यां सोमपुर्यामुत्तिष्ठति विभावसुः ॥ ९९ रात्र्यर्थं चामरावत्यामस्तमेति यमस्य च । सोमपुर्यां विभाव्यां तु मध्याह्ने स्याद्दिवाकरः ॥ १०० महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः । अर्धरात्रं संयमने वारुण्यामस्तमेति च ॥ १०१ स शीघ्रमेति पर्येति भास्कराेऽलातचक्रवत् । भ्रमन्वै भ्रममाणानि ऋक्षाणि गगने रविः ॥ १०२
* एतदर्धस्थानेऽयं ग्रन्थः ख. पुस्तके वर्तत-विभावर्यां सोमपुर्यां भास्करं सूर्यसंज्ञितम् ॥ १ ॥
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरंव च । ऋक्षचन्द्रग्रहः सर्वे विज्ञेयाः सूर्यसंभवाः ॥ २ ॥
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः । शेषाः पञ्चग्रहा ज्ञेया ईश्वराः कामरूपिणः ॥ ३ ॥
पठ्यते चामिरादित्य उदकश्चन्द्रमाः स्मृतः । शेषाणां प्रकृतिः सम्यग्वर्ण्यमानां निबोधत ॥ ४ ॥
सर्रसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः । नारायणं बुधं प्राहुर्देवं ज्ञानविदो बुधाः ॥ ५ ॥
रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम् । महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ॥ ६ ॥
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ । प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती ॥ ७ ॥
देवी महेन्द्रस्त्वनयोराधिपत्ये विनिर्मितौ । आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥ ८ ॥
भवत्यस्यजगत्स्रस्तं सदेवासुररमानुषम् । रुद्रेन्द्रोपेन्द्रचन्द्राणां विपेन्द्रास्त्रिदिवौकसाम् ॥ ९ ॥
द्युतिर्द्युतिमतः कृत्स्ना यत्तेजः सार्वलौकिकम् । सर्वात्मा सर्वलोकेशाे मूले परमदैवतम् ॥ १० ॥
ततः संजायते सर्वं तत्र चैव प्रलीयते । भावाभावौ हि लोकानामादित्यान्निःसृतौ पुरा ॥ ११ ॥
जगज्जयो ग्रहो विम्रा दीप्तिमान्सुग्रहा रविः । यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः ॥१२॥
क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः । मासाः संवत्सराश्चैव ऋतवोऽब्दयुगानि च ॥१३॥
तदादित्यादृते येषां कालसंख्या न विद्यते । कालादृते न निगमो न दीक्षा नाग्निक्रमः ॥ १४ ॥
ऋतूनामविभागश्च पुष्पमूलफलं कुतः । कुतः सस्याभिनिष्पत्तिर्गुणाैषाधिगणााि वा ॥ १५ ॥
अभावाे व्यवहाराणां देवानां दिवि चेह च । जगत्तमापनुदं भास्करं वारितस्करम् ॥ १६ ॥
स एव कालश्चाग्निश्च द्वादशात्मा प्रजापतिः । तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ॥ १७ ॥
स एष तेजसां राशिः समस्तः सार्वलौकिकः । उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् ॥ १८ ॥
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः । रवे रश्मिसहस्रं यत्पाङ्ग्मया समुदाहृतम् ॥ १९ ॥
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः । सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च ॥ २० ॥
विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परम् । अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः ॥ २१ ॥
सुषुम्ना सूर्यरश्मिस्तु क्षीणं शशिनमेधयन् । तिर्यगूर्ध्वमचारोऽसौ सुषुम्नः परिकीर्तितः ॥ २२ ॥
हरिकेशः पुरस्ताद्या ऋक्षयोनिः प्रकीर्तिता । दक्षिणे विश्वकर्मा तु रश्मिर्वर्धयते बुधम् ॥ २३ ॥
विश्वश्रवास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः । संपद्वसुस्तु यो रश्मिः सायोनर्लोहितस्य तु ॥२४॥
षष्ठस्त्वर्वावसूर्विर्मिर्योनिस्तु स बृहस्पतेः । शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ॥ २५ ॥
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः । वर्धन्ते विदिताः सर्वा विश्वं चेदं पुनर्जग ॥ २६ ॥
न क्षीयन्ते पुनस्तानि तस्मान्नक्षत्राता स्मृता । क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः ॥ २७ ॥
तेषां क्षेत्राण्यथाऽऽदत्ते सूर्यो नक्षत्रतां ततः । दीर्णानां सुकृतेनेह सुकृन्तान्ते गृहाश्रयात् ॥ २८ ॥
ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः । दिव्यानां पार्थिवानां च नैशाना चैव सर्वशः॥२९॥
| १५८ | श्रीमद्द्वैपायनमुनिप्रणीतम्- | [अ० ५० श्लो० १०३-१२५] |
|---|---|---|
| ( ज्योतिष्प्रचारः ) |
एवं चतुर्षु द्वीपेषु दक्षिणान्तेन सर्पति । उदयास्तमनेनासावुत्तिष्ठति पुनः पुनः ॥ १०३
पूर्वाह्ने चापराह्ने तु द्वौ द्वौ देवालयौ तु सः । तपत्येकं तु मध्याह्ने तैरेव तु स रश्मिभिः ॥ १०४
उदितो वर्धमानाभिर्रामध्याह्नं तपन्रविः । अतः परं हसन्तीभिर्गोभिरस्तं स गच्छति ॥ १०५
उदयास्तमयाभ्यां हि स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तावत्पृष्ठे तु पार्श्वयोः ॥ १०६
यत्रोद्यन्दृश्यते सूर्यस्तेषां स उदयः स्मृतः । यत्र प्रणाशमायाति तेषामस्तः स उच्यते ॥ १०७
सर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे । विदूरभावादर्कस्य भूमेर्लेखावृत्तस्य च ॥
ह्रियन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥ १०८
ग्रहनक्षत्रताराणां दर्शनं भास्करस्य च । उच्छ्रयस्य प्रमाणेन ज्ञेयमस्तमनोदयम् ॥ १०९
शुक्लच्छायाऽभिरापश्च कृष्णच्छाया च मेदिनी । विदूरभावादर्कस्य उद्यतस्य विरश्मिता ॥
रक्तभावो विरश्मित्वाद्रक्तत्वाच्चाप्यनुष्णता ॥ ११०
लेखयाऽवस्थितः सूर्यो यत्र यत्र तु दृश्यते । ऊर्ध्वं गतः सहस्रं तु योजनानां स दृश्यते ॥ १११
प्रभा हि सौरी पादेन अस्तं गच्छति भास्करे । अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते ॥ ११२
उदितस्तु पुनः सूर्यो ह्यस्तमाग्नेयमाविशत् । संयुक्तो वह्निना सूर्यस्ततः स तपते दिवा ॥ ११३
प्रकाशं च तथोष्णं च सूर्याग्नेयौ च तेजसी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ ११४
उत्तरे चैव भूम्यर्धे तथा तस्मिंश्च दक्षिणे । उत्तिष्ठति तथा सूर्ये रात्रिराविशते त्वपः ॥
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ ११५
अस्तं याति पुनः सूर्ये दिनं वै प्रविशत्यपः । तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ ११६
एतेन क्रमयोगेन (ण) भूम्यर्धे दक्षिणोत्तरे । उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ॥ ११७
दिनं सूर्यप्रकाशाख्यं तामसी रात्रिरुच्यते । तस्माद्यद्यवस्थिता रात्रिः सूर्यावेक्ष्यमहः स्मृतम् ॥ ११८
एवं पुष्करमध्येन तदा सर्पति भास्करः । त्र्यंशांशकं तु मेदिन्या मुहूर्तेनैव गच्छति ॥ ११९
योजनानान्मुहूर्तस्य इमां संख्यां निबोधत । पूर्णं शतसहस्राणामेकविंशत्तु सा स्मृता ॥ १२०
पञ्चाशत्तु तथाऽन्यानि सहस्राण्यधिकानि तु । मौहूर्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते ॥ १२१
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् । पर्यागच्छेत्तदाऽऽदित्यो माघे काष्ठान्तमेव हि ॥ १२२
सर्पते दक्षिणायां तु काष्ठायां तन्निबोधत । नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम् ॥ १२३
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च । अहोरात्रात्तपतङ्गस्य गतिरेषा विधीयते ॥ १२४
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः । क्षीरोदस्य समुद्रस्य उत्तरान्तोदितश्चरन् ॥ १२५
आदानान्नित्यमादित्यस्तमसां तेजसां महान् । सुवतिस्यन्दनार्थश्च धातुनेष विभाव्यते ॥ ३० ॥
सवनात्तेजसोऽपां च तेनासौ सविता मतः । बह्वर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते ॥ ३१ ॥
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते । सूर्याचन्द्रमसोर्दिव्ये मण्डलं भास्करे खगे ॥ ३२ ॥
ज्वलन्तेजोमये शुक्ले वृत्तकुम्भानिभे शुभे । घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् ॥ ३३ ॥
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु । विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः ॥ ३४ ॥
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः । तानि देवगृहाण्येव तदारूढ्यास्ते भवन्ति च ॥ ३५ ॥
शौरे सूर्योविशस्था... तिविभावसुः इति ॥
[अ०५० श्लो० १२६--१५५] वायुपुराणम् । १५९ ( ज्योतिःप्रचारः )
मण्डलं विषुवद्व्यापि ? योजनैस्तन्निबोधत । तिस्रः कोटयस्तु विस्तीर्णा विषुवद्व्यापि? सा स्मृता ॥ १२६ तथा शतसहस्राणामशीत्येकाधिका पुनः । श्रवणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् ॥ शाकद्वीपस्य षष्ठस्य उत्तरान्तोदितश्चरन् ॥ १२७ उत्तरायां च काष्ठायां प्रमाणं मण्डलस्य च । योजनाग्रात्मसंख्याता कोटिरेका तु सा द्विजैः ॥ १२८ अशीतिर्नियुतानीह योजनानां तथैव च । अष्टपञ्चाशतं चैव योजनान्यधिकानि तु ॥ १२९ नागवीथ्युत्तरा वीथी अजवीथी च दक्षिणा । मूलं चैव तथाऽऽषाढे ह्यजवीथ्युदयास्त्रयः ॥ अभिजित्पूर्ववत् स्वातिर्नागवीथ्युदयास्त्रयः ॥ १३० काष्ठयोरन्तरं यच्च तद्वक्ष्ये योजनैः पुनः । एतच्छतसहस्राणामेकाविंशोत्तरं शतम् ॥ १३१ त्रयस्त्रिंशाधिकाश्चान्ये त्रयस्त्रिंशच्च योजनैः । काष्ठयोरन्तरं ह्येतद्योजनाग्रात्प्रतिष्ठितम् ॥ १३२ काष्ठयोर्लेखयोश्चैव अन्तरे दक्षिणोत्तरे । ते तु वक्ष्यामि संख्याय योजनैस्तन्निबोधत ॥ १३३ एकैकमन्तरं तस्या नियुतान्येकसप्ततिः । सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥ १३४ लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम् । अभ्यन्तरं तु पर्येति मण्डलान्युत्तरायणे ॥ १३५ बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम् । मण्डलानां शतं पूर्णमशीत्यधिकमुत्तरम् ॥ १३६ *चरते दक्षिणे चापि तावदेव विभावसुः । प्रमाणं मण्डलस्याथ योजनाग्राच्चिबोधत ॥ १३७ एकविंशद्योजनानां सहस्राणि समासतः । शते द्वे पुनरप्यन्ये योजनानां प्रकीर्तिते ॥ १३८ एकविंशतिभिश्चैव योजनैराधिकैर्हितं । एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥ १३९ विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते । प्रत्यहं चरते तानि सूर्यो वै मण्डलक्रमम् ॥ १४० कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्तते । दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्तते ॥ १४१ तस्मात्प्रकृष्टां भूमिं च कालेनाल्पेन गच्छति । सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणोत्तरे ॥ १४२ त्रयोदशार्धमृक्षाणामह्नाऽनुचरते रविः । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ १४३ कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति । तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ १४४ त्रयोदशार्धमर्धेन ऋक्षाणां चरते रविः । तस्माद्दीर्घेण कालेन भूमिमल्पां निगच्छति ॥ १४५ अष्टादशमुहूर्तैस्तु उत्तरायणपश्चिमम् । अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ १४६ त्रयोदशार्धमर्धेन ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ १४७ ततो मन्दतरं ताभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ १४८ त्रिंशन्मुहूर्तानेवाऽऽहुरहोरात्रं ध्रुवो भ्रमन् । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥ १४९ कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते । ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्तते ॥ १५० उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु । दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ १५१ उत्तरे प्रक्रमे त्विन्दोर्दिवा मन्दा गतिः स्मृता । तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ १५२ दक्षिणे प्रक्रमे चैव दिवा शीघ्रा विधीयते । गतिः सूर्यस्त नक्तं वै मन्दा चापि तथा स्मृता ॥ १५३ एवं गतिविशेषेण विभजन्रात्र्यहानि तु । तथा विचरते मार्गं समेन विषमेण च ॥ १५४ लोकालोके स्थिता ये ते लोकपालाश्चतुर्दिशम् । अगस्त्यश्चरतं तेषामुपरिष्टाज्जवेन तु ॥ भजन्ससावहोरात्रमेवं गतिविशेषणैः ॥ १५५
* अत्राऽऽत्मनेपदभार्षम् ।
१६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५० श्लो० १५६-१७८] (ज्योतिष्प्रचारः)
दक्षिणे नागवीथ्यायां लोकालोकस्य चोत्तरम्। लोकसंतारको ह्येष वैश्वानरपथाद्बहिः ॥ १५६ पृष्ठं यावत्प्रभा सौरी पुरस्तात्संप्रकाशते। पार्थिवो. पृष्ठतस्तावल्लोकालोकस्य सर्वतः ॥ १५७ योजनानां सहस्राणि दशोर्ध्वं तूच्छ्रितो गिरिः। प्रकाशाश्वाप्रकाशाश्व सर्वतः परिमण्डलः ॥ १५८ नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह। अभ्यन्तरं प्रकाशन्ते लोकलोकस्य वै गिरेः ॥ १५९ एतावानेव लोकस्तु निरालोकस्त्वतः परम्। लोकालोक एकधा तु निरालोकस्त्वनेकधा ॥ १६० लोकालोकं तु संधत्ते यस्मात्सूर्यः परिग्रहम्। तस्मात्संध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ॥ उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ १६१ सूर्ये हि ग्रसमानानां संध्याकाले हि रक्षसाम्। प्रजापतिनियोगेन शापस्तेषां दुरात्मनाम् ॥ अक्षयत्वं च देहस्य प्रापिता मरणं तथा ॥ १६२ तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः। प्रार्थयन्ति सहस्रांशुमुद्यन्तं दिने दिने ॥ तापयन्तो दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १६३ अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम्। ततो ब्रह्मा च देवाश्च ब्राह्मणाश्चैव सत्तमाः ॥ संध्येति समुपासन्तः क्षेपयन्ति महाजलम् ॥ १६४ ओंकारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्। तेन दह्यन्ति ते दैत्या वज्रभूतेन वारिणा ॥ १६५ (×अग्निहोत्रे हूयमाने समन्ताद्ब्राह्मणाहूतिः। सूर्यज्योतिः सहस्रांशुः सूर्यो दीप्यति भास्करः) ॥ १६६ ततः पुनर्महातेजा महाद्युतिपराक्रमः। योजनानां सहस्राणि ऊर्ध्वमुत्तिष्ठते शतम् ॥ १६७ ततः प्रयाति भगवान्ब्राह्मणैः परिवारितः। वालखिल्यैश्च मुनिभिः कृतार्थैः 'समरीचिभिः ॥ १६८ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलान्तम्। त्रिंशत्कलाश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ १६९ हासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्। संध्या मुहूर्तमानं तु हासे वृद्धौ समा स्मृता ॥ १७० लेखाप्रभृत्याऽऽदित्ये त्रिमुहूर्तागते तु वै। प्रातस्तनः स्मृतः कालो भागस्त्वह्नः स पञ्चमः ॥ १७१ तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु संगवः। मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालाच्च संगवात् ॥ १७२ तस्मान्मध्यंदिनात्कालादपराह्न इति स्मृतः। त्रय एव मुहूर्तास्तु तस्मात्कालाच्च मध्यमात् ॥ १७३ अपराह्ने व्यतीपाते कालः सायाह्न उच्यते। दशपञ्च मुहूर्ताद्धि मुहूर्तास्त्रय एव च ॥ १७४ दशपञ्चमुहूर्तं वै अहर्विषुवति स्मृतम् । ÷ दशपञ्चमुहूर्ताद्धि रात्रिंदिवमिति स्मृतम् ॥ १७५ वर्धते हसते चैव अयनं दक्षिणोत्तरे। अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते त्वहः ॥ १७६ शरद्वसन्तयोर्मध्ये विषुवं तद्विभाव्यते । अहोरात्रं कलाश्चैव समं सोमः समश्नुते ॥ १७७ तथा पञ्चदशाहानि पक्ष इत्याभिधीयते। द्वौ पक्षौ च भवेन्मासो द्वौ मासावन्तरावृतुः ? ॥ ऋतुत्रयमयनं स्याद्द्वेऽयने वर्षमुच्यते ॥ १७८
× धनुश्चिह्नान्तर्गतग्रन्थ क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।