वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 154, कुल 465 में से
संदर्भ में पढ़ें[अ०४८श्लो०१३-४०] वायुराणम् । १४५ ( भुवनविन्यासः ) जम्बूद्वीपप्रदेशास्तु षडन्ये विविधाश्रयाः । अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ १३ अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च । *शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ १४ अङ्गद्वीपं निबोध त्वं नानासत्त्वसमाकुलम् । नानाम्लेच्छगणाकीर्णं तद्दीपं बहुविस्तरम् ॥ १५ हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं संनिभं लवणाम्भसा ॥ १६ तत्र चक्रगिरिर्नाम नैकनिर्झरकन्दरः । तत्र सा तु दरी चास्य नानासत्त्वसमाश्रया ॥ १७ स मध्ये नागदेशस्य नैकदेशो महागिरिः । कोटिभ्यां नागानिलयं प्राप्तो नदनदीपतिम् ॥ १८ यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । (÷तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः ॥ १९ समुद्रगानां( णां ) प्रभवः प्रभवः काञ्चनस्य तु ॥ २० तथैव मलयद्वीपमेवमेव सुसंवृतम् ।) मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ २१ आकरं चन्दनानां च समुद्राणां तथाऽऽकरम् । नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ २२ तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः । महामलय इत्येवं विख्यातो वरपर्वतः ॥ द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । +नानापुष्पफलोपेतं रम्यं देवर्षिसेवितम् ॥ २३ अगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ २४ तथा काञ्चनपादस्य मलयस्यापरस्य हि । निकुञ्जस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ २५ नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते । तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ २६ तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरगृहे ॥ २७ तस्य कूटतटे रम्ये हेमप्राकारतोरणा । निर्यूहवलभी चित्रा हर्म्यप्रासादमालिनी ॥ २८ शतयोजनविस्तीर्णा त्रिंशदायामियोजना । नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥ सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्यादेवविद्विषाम् ॥ २९ मानुषाणामसंबाधा ह्यगम्या सा महापुरी ॥ ३० तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः । गोकर्णनामधेयस्य शंकरस्याऽऽलयं महत् ॥ ३१ तथैकाराज्यं विज्ञेयं शङ्खद्वीपसमाश्रितम् । शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ३२ तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ३३ शङ्खनागा महापुण्या यस्मात्प्रभवते नदी । यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ३४ तथैव कुमुदद्वीपं नानापुष्पोपशोभितम् । नानाग्रामसमाकीर्णं नानारत्नाकरं शिवम् ॥ ३५ कुमुदा नाम महाभागा दुष्टचित्तनिबर्हणी । महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ३६ तथा वराहद्वीपे च नानाम्लेच्छगणाकुले । नानाजातिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ३७ धनधान्ययुते स्फीते धर्मिष्ठजनसंकुले । नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपमैः ॥ ३८ वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः । अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ३९ तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी । वाराही नाग वरदा प्रवृत्ता स्म महानदी ॥ वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे । अनन्यदेवतास्तस्मै नमस्कुर्वन्ति वै प्रजाः ॥ ४०
* इदमर्धं नास्ति ख. पुस्तके। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।
१९