भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 153, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 153

१४४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४७-४८श्लो०७४-८०-१-१२] ( भुवनविन्यासः )

सोमकश्च वराहश्च नारदश्चः महीधरः । प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ७४
वको बलाहकश्चैव मैनाकश्चैव पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥
*चन्द्रमैनाकयोर्मध्ये विदिशं दक्षिणं प्रति ॥ ७५
तत्र संवर्तको नाम सोऽग्निः पिबति तज्जलम् । नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ॥
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् । महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा ॥
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ ७७
भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः । इहोदितस्य दृश्यन्ते तथाऽन्येऽन्यत्र नोदिते ॥ ७८
उत्तरोत्तरमेतेषां वर्षमुद्दिश्य ते गुणैः । आरोग्यायुष्प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ॥ ७९
समन्वितानि भूतानि गुणैरेतैस्तु भागतः । वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ॥
इत्येषाऽधारयत्सर्वं पृथिवी विश्वं जगत्स्थितौ ॥ ८०

इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः–३५०२


अथाष्टचत्वारिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच–
दक्षिणेनापि वर्षस्य भारतस्य निबोधत । दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ १
त्रीण्येव तु सहस्राणि योजनानां समायसम् । अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ २
विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम् । येन कूटतटैर्नैकैस्तव्द्वीपं समलंकृतम् ॥ ३
प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः । वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४
तस्य शैलस्य च्छिद्रेषु विस्तीर्णेष्वार्यतेषु च । अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ५
नरनारीसमाढ्यानि मुदितानि महान्ति च । तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ६
पुराणि संनिविष्टानि पर्वतान्तर्गतानि च । सुसंबद्धानि चान्योन्यमेकद्वाराणि तान्यथ ॥ ७
दीर्घश्मश्रुधरात्मानो नीला मेवसप्रभाः । जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ८
शाखामृगसधर्माणः फलमूलांशिनस्तथा । गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ९
तद्द्दीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः । एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ १०
विशंत्रिंशच्च पश्चाशत्षष्ट्यशीतिः शतं तथा । सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ११
विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः । बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ १२


* इदमर्धं नास्ति घ. पुस्तके ।